摩诃婆罗多 · 章 14.99
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.99.1
श्रुत्वैवं सात्विकं दानं राजसं तामसं तथा ।
पृथक्पृथक्त्वेन गतिं फलं चापि पृथक्पृथक् ॥ १४.९९.१ ॥
听闻了悦性、激性与暗性之施舍,以及它们各自的去处与果报之后,
14.99.2
अवितृप्तः प्रहृष्टात्मा पुण्यं धर्मामृतं पुनः ।
युधिष्ठिरो धर्मरतः केशवं पुनरब्रवीत् ॥ १४.९९.२ ॥
尤弥什提尔仍未满足,心中因法甘露的功德而欢喜,好乐于法,再次对羯舍婆说道。
14.99.3
बीजयोनिविशुद्धानां लक्षणानि वदस्व मे ।
बीजदोषेण लोकेश जायन्ते च कथं नराः ॥ १४.९९.३ ॥
请告诉我那些在种子与胎藏上纯净之人的标志。世界之主啊,人们因种子之过失如何出生?
14.99.4
आचारदोषं देवेशं वक्तुगर्हस्यशेषतः ।
ब्राह्मणानां विशेषं च गुणदोषौ च केशव ॥ १४.९९.४ ॥
天神之主啊,您应当完整地宣说行为之过失、婆罗门之殊胜,以及他们的德与过,羯舍婆啊。
14.99.5
चातुर्वर्ण्यस्य कुत्स्नस्य वर्तमानाः प्रतिग्रहे ।
केन विप्रा विशेषेण तरन्ते तारयन्ति च।
एतान्कथय देवेश त्वद्भक्तस्य नमोस्तु ते ॥ १४.९९.५ ॥
在四种姓中,那些从事接受布施之人,婆罗门尤其如何得以渡过,又能使他人渡过?天神之主啊,请告诉我这些。向您致敬,您的信徒敬礼。
14.99.6
शृणु राजन्यथावृत्तं बीजयोनिं शुभाशुभम् ।
येन तिष्ठति लोकोयं विनश्यति च पाण्डव ॥ १४.९९.६ ॥
国王啊,请如实听取种子与胎藏的善与恶,正是由此,这世界得以存续又归于毁灭,般度之子啊。
14.99.7
अविप्लुतब्रह्मचर्यो यस्तु विप्रो यथाविधि ।
स बीजं नाम विज्ञेयं तस्य बीजं शुभं भवेत् ॥ १४.९९.७ ॥
依法不间断守持梵行的婆罗门,应被称为「种子」;他的种子是吉祥的。
14.99.8
कन्या चाक्षतयोनिः स्यात्कुलीना पितृमातृतः ।
ब्राह्मणादिषु विवाहेषु परिणीता यथाविधि।
सा प्रशस्ता वरारोहा तस्या योनिः प्रशस्यते ॥ १४.९९.८ ॥
若少女处女之身,父母双方皆出自高贵家族,并依法在婆罗门等婚礼中出嫁,她便值得称赞;这位细腰女子的子宫亦被赞誉。
14.99.9
मनसा कर्मणा वाचा या गच्छेत्परपूरुषम् ।
योनिस्तस्या नरश्रेष्ठ गर्भाधानं न चार्हति ॥ १४.९९.९ ॥
女子若以意念、行为、言语而亲近他人之夫,哦,人中之杰,其子宫不配受孕。
14.99.10
स्वैरिण्या यस्तु पापात्मा संतानार्थमिहेच्छति ।
स कुलान्पातयत्याशु दशपूर्वान्दशापरान् ॥ १४.९९.१० ॥
若有罪之人在此欲从淫荡女子处求子,他很快便会使家族倾覆,前十世与后十世皆受其害。
14.99.11
दुष्टयोनौ तु यो मोहाद्रेतः सिञ्चति मूढधीः ।
तद्रेतसा समुत्पन्नः षडङ्गविदपि द्विजः।
साधुभिः स बहिष्कार्यः श्वापाक इव पार्थिवा ॥ १४.९९.११ ॥
愚昧之人因迷惑而将精液注入污秽之胎,由此种子所生的再生族,即便通晓六吠檀多支分,也应被善人如狗肉者般驱逐,哦,国王。
14.99.12
कर्मणा मनसा वाचा या भवेत्स्वैरचारिणी ।
सा कुलघ्रीति विज्ञेया तस्यां जातः श्वपाचकः ॥ १४.९९.१२ ॥
凡以行为、心念、言语而放纵自恣的女子,应被知为毁灭家族者;由她所生之子即为狗肉者。
14.99.13
दैवे पित्र्ये तथा दाने भोजने सहभाषणे ।
शयने सहसंबन्धे न योग्या दृष्टयोनिजाः ॥ १४.९९.१३ ॥
在神祭、祖先祭、布施、饮食、同席交谈、同寝及亲属关系之中,出自已知不净之胎者不可参与。
14.99.14
न तस्माद्दुष्टयोन्यां तु गर्भमुत्पादयेद्बुधः ।
मोहेन कुरुते यस्तु कुलं हन्ति त्रिपूरुषम् ॥ १४.९९.१४ ॥
因此智者不应在不净之胎中生育。若因迷惑而如此,便会毁灭三代之家族。
14.99.15
कानीकनश्च सहोञश्च तथोभौ कुण्डगोलकै ।
आरूढपतिताज्जातः परितस्यापि यः सुतः।
षडेते विप्रचण्डाला निकृष्टाः श्वपचादपि ॥ १४.९९.१५ ॥
Kānīka与Sahoña,以及kuṇḍa与golaka二者,还有出生于阿鲁陀、堕落之女所生之子:这六者为婆罗门旃陀罗,比烹狗者更为低贱。
14.99.16
यो यत्र तत्र वा रेतः सिक्त्वा शूद्रासु वा चरेत् ।
कामचारी स पापात्मा बीजं तस्याशुभं भवेत् ॥ १४.९९.१६ ॥
凡随处播撒精液而与首陀罗女子厮混者,乃纵欲之人,罪恶之心;其种子变为不吉。
14.99.17
अशुद्धं तद्भवेद्बीजं शुद्धां योनि न चार्हति ।
दूषयत्यपि तां योनिं शुना लीढं हविर्यथा ॥ १४.९९.१७ ॥
此种子变得不净,不配入于清净之胎。它甚至玷污那胎,如同被狗舔过的祭品。
14.99.18
शूद्रयोनौ पतेद्बीजं हाहाशब्दं द्विजन्मनः ।
कुर्यात्पुरीषगर्तेषु पतितोऽस्मीति दुःखितः ॥ १४.९९.१८ ॥
若再生者之种子落入首陀罗之胎,他应当大呼“哎呀,哎呀!”并如堕入粪坑般悲痛地说:“我已堕落。”
14.99.19
मामधःपातयन्नेष पापात्मा काममोहितः ।
अधोगतिं प्रजोत्क्षिप्रमिति शप्त्वा पतेत्तु तत् ॥ १४.९९.१९ ॥
这个被欲望迷惑的罪人使我堕落。他诅咒说:“愿他的子孙迅速走上堕落之路”,然后他自己便坠落。
14.99.20
आत्मा हि शुक्लमुद्दिष्टं दैवतं परमं महत् ।
तस्मात्सर्वप्रयत्नेन निरुन्ध्याच्छुक्लमात्मनः ॥ १४.९९.२० ॥
自我被宣称为纯白,是至高伟大的神。因此人应以一切努力抑制自己的白(精液)。
14.99.21
आयुस्तेजो बलं वीर्यं प्रज्ञा श्रीश्च महद्यशः ।
पुण्यं च मत्प्रियत्वं च लभते ब्रह्मचर्यया ॥ १४.९९.२१ ॥
长寿、光辉、力量、精力、智慧、吉祥、大名、功德,以及成为我所爱之人——通过梵行,人获得这些。
14.99.22
अविप्लुतब्रह्मचर्यैर्गृहस्थश्रममाश्रितैः ।
पञ्चयज्ञपरैर्धर्मः स्थाप्यते पृथिवीतले ॥ १४.९९.२२ ॥
由那些梵行不断、持家生活、专注于五种祭祀的人,法便得以在大地上确立。
14.99.23
सायंप्रातस्तु ये सन्ध्यां सम्यङ्नित्यमुपासते ।
नावं वेदमयीं कृत्वा तरन्ते तारयन्ति च ॥ १४.९९.२३ ॥
那些每日早晚都正确修行晨昏敬拜(sandhyā)的人,以吠陀造一只船,便能渡过,也能渡人。
14.99.24
यो जपेत्पावनीं देवीं गायत्रीं वेदमातरम् ।
न सीदेत्प्रतिगृह्णानः पृथिवीं च ससागराम् ॥ १४.९९.२४ ॥
诵持能净化的女神、吠陀之母萨维德利(Gāyatrī)者,即使接受布施也不会沉没——即使接受了大地及其海洋。
14.99.25
ये चास्य दुःस्थिताः केचिद्ग्रहाः सूर्यादयो दिवि ।
ते चास्य सौम्या जायन्ते शिवाः शुभकरास्तथा ॥ १४.९९.२५ ॥
天空中凡是位置不利的行星,从太阳开始,对他而言都变得温和、吉祥、带来福祉。
14.99.26
यत्र यत्र स्थिताश्चैव दारुणाः पिशिताशनाः ।
घोररूपा महाकाया धर्षयन्ति न तं द्विजम् ॥ १४.९९.२६ ॥
无论何处,凡是可怕的食肉者、形貌恐怖、身躯巨大者,都不会侵害那位再生者。
14.99.27
पुनन्तीह पृथिव्यां च चीर्णवेदव्रता नराः ।
चतुर्णामपि वेदानां सा हि राजन्गरीयसी ॥ १४.९९.२७ ॥
在大地上完成吠陀誓愿的人在此净化世间;国王啊,这甚至比四部吠陀更为尊贵。
14.99.28
अचीर्णिव्रतवेदा ये विकर्मफलमाश्रिताः ।
ब्राह्ममा नाममात्रेण तेऽपि पूज्या युधिष्ठिर।
किं पुनर्यस्तु सन्ध्ये द्वे नित्यमेवोपतिष्ठते ॥ १४.९९.२८ ॥
即便那些未持吠陀誓愿、依赖恶业果报、仅有其名的婆罗门,也值得尊敬,尤迦湿提罗啊;何况那每日都在两个黄昏礼拜的人呢?
14.99.29
शीलमध्ययनं दानं शौचं मार्दवमार्जवम् ।
तस्माद्वेदाद्विशिष्टानि मनुराह प्रजापतिः ॥ १४.९९.२९ ॥
品行、学习、布施、清净、柔和与正直——生主摩奴宣说,这些甚至胜过吠陀。
14.99.30
भूर्भुवस्स्वरिति ब्रह्म यो वेदनिरतो द्विजः ।
स्वदारनिरतो दान्तः स विद्वान्स च भूसुरः ॥ १४.९९.३० ॥
那位专注于“布、布瓦、斯瓦”神圣真言与吠陀、只忠于自己妻子、克己自制的再生者,便是有智慧的人,也是地上的神。
14.99.31
सन्ध्यामुपासते ये वै नित्यमेव द्विजोत्तमाः ।
ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः ॥ १४.९९.३१ ॥
人中猛虎啊,常行晨昏敬拜的诸位上等再生者,无疑将往生梵界。
14.99.32
सावित्रीमात्रसारोपि वरो विप्रः सुयन्त्रितः ।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥ १४.९९.३२ ॥
仅知萨维特里精要却善自约束的婆罗门最为优秀;不知约束的四吠陀通晓者,什么都吃,什么都卖。
14.99.33
सावित्रीं चैव वेदांश्च तुलयाऽतोलयन्पुरा ।
सदेवर्षिगणाश्चैव सर्वे ब्रह्मपुरस्सराः।
चतुर्णामपि वेदानां सा हि राजन्गरीयसी ॥ १४.९९.३३ ॥
往昔,诸天与仙人群在梵天引领下,以天平称量萨维特里与吠陀;大王啊,她比四部吠陀都更重。
14.99.34
यथा विकसिते पुष्पे मधु गृह्णन्ति षट्पदाः ।
एवं गृहीता सावित्री सर्ववेदे च पाण्डवः ॥ १४.९९.३४ ॥
犹如蜜蜂采取盛开花朵的蜂蜜,般度之子啊,萨维特里便这样被摄取于一切吠陀之中。
14.99.35
तस्मात्तु सर्ववेदानां सावित्री प्राण उच्यते ।
निर्जीवा हीतरे वेदा विना सावित्रिया नृपः ॥ १४.९९.३५ ॥
因此,萨维特里被称为一切吠陀的生命之气;大王啊,离开萨维特里,其余吠陀确实没有生命。
14.99.36
नायन्त्रितश्चतुर्वेदी शीलभ्रष्टः स कुत्सितः ।
शीलवृत्तसमायुक्तः सावित्रीपाठको वरः ॥ १४.९९.३६ ॥
不知约束的四吠陀通晓者已堕落于德行,令人鄙视;具备良好品行与操行、诵读萨维特里者,才是优秀之人。
14.99.37
सहस्रपरमां देवीं शतमध्यां दशावराम् ।
सावित्रीं जप कौतेय सर्वपापप्रणाशिनीम् ॥ १४.९९.३७ ॥
俱盧之子啊,你应诵持女神娑维德丽:千倍至上,百倍居中,十倍居下,能灭除一切罪业。
14.99.38
त्रैलोक्यनाथ हे कृष्ण सर्वभूतात्मको ह्यसि ।
नानायोगपर श्रेष्ठ तुष्यसे केन कर्मणा ॥ १४.९९.३८ ॥
三界之主克里希那啊,你是一切众生的自我。修习多种瑜伽的至尊者,你因何种行业而欢喜?
14.99.39
यदि भारसहस्रं तु गुग्गुल्वादि प्रधूपयेत् ।
करोति चेन्नमस्कारमुपहारं च कारयेत् ॥ १४.९९.३९ ॥
若有人以千担古古鲁等香料焚烧供养,行礼致敬,又献上供物,
14.99.40
स्तौति यः स्तुतिभिर्मां च ऋग्यजुस्सामभिः सदा ।
न तोषयति चेद्धिप्रान्नाहं तुष्यामि भारत ॥ १४.९९.४० ॥
若有人始终以《梨俱》《夜柔》《娑摩》的颂诗赞美我,却不让婆罗门满意,婆罗多啊,我便不欢喜。
14.99.41
ब्राह्मणे पूजिते नित्यं पूजितोस्मि न संशयः ।
आक्रुष्टे चाहमाक्रुष्टो भवामि भरतर्षभ ॥ १४.९९.४१ ॥
婆罗门若常受尊敬,我也必受尊敬;婆罗门若遭辱骂,我也受辱,婆罗多之雄啊。
14.99.42
परा मयि गतिस्तेषां पूजयन्ति द्विजं हि ये ।
यदहं द्विजरूपेण वसामि वसुधातले ॥ १४.९९.४२ ॥
敬奉婆罗门的人,其至上归宿在我;因为我以婆罗门之身居住于大地之上。
14.99.43
यस्तान्पूजयति प्राज्ञो मद्गतेनान्तरात्मना ।
तमहं स्वेन रूपेण पश्यामि नरपुङ्गव ॥ १४.९९.४३ ॥
智者若以心向我、以内在自我敬重他们,我便以我自己的形相看见他,人中之尊啊。
14.99.44
कुब्जाः काणा वामनाश्च दरिद्रा व्याधितास्तथा ।
नावमान्या द्विजाः प्राज्ञैर्मम रूपा हि ते द्विजाः ॥ १४.९९.४४ ॥
驼背、独眼、矮人、贫穷者,以及同样患病者——智者不应轻视那些婆罗门;他们是我的形相。
14.99.45
ये केचित्सागरान्तायां पृथिव्यां द्विजसत्तमाः ।
मम रूपं हि तेष्वेवमर्चितेष्वर्चितोऽस्म्यहम् ॥ १४.९९.४५ ॥
大地直至海岸,凡有任何优秀的婆罗门——我的形相便在他们之中;他们受到尊敬时,我也就受到尊敬。
14.99.46
बहवस्तु न जानन्ति नरा ज्ञानबहिष्कृताः ।
यदहं द्विजरूपेण वसामि वसुधातले ॥ १४.९९.४६ ॥
然而,许多被智慧遗弃的人不知道,我以婆罗门之形居住在大地之上。
14.99.47
अवमन्यन्ति ये विप्रान्स्वधर्मान्पातयन्ति ते ।
प्रेषणैः प्रेषयन्ते च शुश्रूषां कारयन्ति च ॥ १४.९९.४७ ॥
轻视婆罗门者会坠离自己的本分;他们派遣婆罗门跑腿,又使其为自己服役。
14.99.48
मृतांश्चात्र परत्रेमान्यमदूता महाबलाः ।
निकृन्तन्ति यथाकामं सूत्रमार्गेण शिल्पिनः ॥ १४.९९.४८ ॥
无论此世或彼世死去的人,阎摩的大力使者会随意切割他们,如工匠沿着墨线切割一般。
14.99.49
आक्रोशपरिवादाभ्यां ये रमन्ते द्विजातिषु ।
तान्मृतान्यमलोकस्थान्निपात्य पृथिवीतले ॥ १४.९९.४९ ॥
那些以辱骂和诽谤婆罗门为乐的人,身处阎摩界的死者被抛落到大地表面……
14.99.50
आक्रम्योरसि पादेन क्रूरः संरक्तलोचनः ।
अग्निवर्णैस्तु संदंशैर्यमो जिह्वां समुद्धरेत् ॥ १४.९९.५० ॥
残酷的阎摩以脚踏其胸,目光赤红,用火色的钳子拔出他的舌头……
14.99.51
ये च विप्रान्निरीक्षन्ते पापाः पापेन चक्षुषा ।
अब्रह्मण्याः श्रुतेर्बाह्या नित्यं ब्रह्मद्विषो नराः ॥ १४.९९.५१ ॥
那些以罪恶之眼看婆罗门、不尊重婆罗门、置身吠陀之外、常常仇视梵的罪人……
14.99.52
तेषां घोरा महाकाया वक्रतुण्डा महाबलाः ।
उद्धरन्ति मुहूर्तेन स्वगाश्चक्षुर्यमाज्ञया ॥ १४.९९.५२ ॥
那些可怖、身形巨大、喙嘴弯曲、力量强大的使者,奉阎摩之命,片刻之间便将他们拖拽而出……
14.99.53
यः प्रहारं द्विजेन्द्राय दद्यात्कुर्याच्च शोणितम् ।
अस्थिभङ्गं च यः कुर्यात्प्राणैर्वा विप्रयोजयेत्।
सोनुपूर्व्येण यातीमान्नरकानेकविंशतिम् ॥ १४.९९.५३ ॥
凡击打婆罗门俊杰、使其流血、折断其骨、或夺其性命者,依次堕入这二十一地狱……
14.99.54
शूलमारोप्यते पश्चाज्ज्वलने परिपच्यते ।
बहुवर्षसहस्राणि पच्यमानस्त्ववाक्छिराः।
नावमुच्येत दुर्मेदा न तस्य क्षीयते गतिः ॥ १४.९९.५४ ॥
随后将他钉在木桩上,在火中彻底烧煮。头朝下被煎熬多年千载,这愚蠢之人无法解脱;他的轮回之途永无尽头……
14.99.55
ब्राह्मणान्वा विचार्यैव व्रजन्तै वधकाङ्क्षया ।
शतर्वषसहस्राणि तामिस्रे परिपच्यते ॥ १४.९९.५५ ॥
那些深思熟虑后怀着杀害婆罗门之念前往者,将在多罗美逝地狱中被煎熬数十万年。
14.99.56
उत्पाद्य शोणितं गात्रात्संरंभमतिपूर्वकम् ।
सपर्ययेण यातीमान्नरकानेकविंशतिम् ॥ १४.९९.५६ ॥
在极度愤怒中使人流血者,依次经过这二十一座地狱。
14.99.57
तस्मान्नाकुशलं ब्रूयान्न शुष्कां गतिमीरयेत् ।
न ब्रूयात्परुषां वाणीं न चैवैनानतिक्रमेत् ॥ १४.९९.५७ ॥
因此,不可说不吉之言,不可走干涩之路,不可说粗暴之语,也不可冒犯他们。
14.99.58
ये विप्राञ्श्लक्ष्णया वाचा पूजयन्ति नरोत्तमाः ।
अर्चितश्च स्तुतश्चैव तैर्भवामि न संशयः ॥ १४.९९.५८ ॥
那些以温和之言敬奉婆罗门的优秀之人,我受其礼敬与赞颂,无疑便得以显现。
14.99.59
तर्जयन्ति च ये विप्रान्क्रोशयन्ति च भारत ।
आक्रुष्टस्तर्जितश्चाहं तैर्भवामि न संशयः ॥ १४.९९.५९ ॥
婆罗多之子啊,那些威胁并辱骂婆罗门的人,受其辱骂与威胁的我,无疑便得以显现。
14.99.60
यश्चन्दनैश्चागरुधूपदीपै-
रभ्यर्चयेत्काष्ठमयीं ममार्चाम्।
तेनार्चितो नैव भवामि सम्य-
ग्विप्रार्चनादस्मि समर्चितोऽहम् ॥ १४.९९.६० ॥
以檀香、沉香、香烛供奉我的木像者,并不能使我完全受敬;唯有敬奉婆罗门,我才得以充分受敬。
14.99.61
विप्रप्रसादाद्धरणीधरोऽहं ।
विप्रप्रसादादसुराञ्जयामि।
विप्रप्रसादाच्च सदक्षिणोऽहं ।
विप्रप्रसादादजितोऽहमस्मि ॥ १४.९९.६१ ॥
凭借婆罗门的恩惠,我承载大地。凭借婆罗门的恩惠,我战胜阿修罗。凭借婆罗门的恩惠,我伴有布施之礼。凭借婆罗门的恩惠,我是不可征服者。