摩诃婆罗多 · 章 15.12
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.12.1
ततो रजन्यां व्युष्टायां धृतराष्ट्रोंऽबिकासुतः ।
विदुरं प्रेषयामास युधिष्ठिरनिवेशनम् ॥ १५.१२.१ ॥
夜尽天明之时,阿姆比卡之子持国王派遣毗杜罗前往坚战的住所。
15.12.2
स गत्वा राजवचनादुवाचाच्युतमीश्वरम् ।
युधिष्ठि महातेजाः सर्वबुद्धिमतांवरः ॥ १५.१२.२ ॥
他奉国王之命前往,对不退转的主宰(黑天)说话;他是大光明者,是一切智者中的最上者。
15.12.3
धृतराष्ट्रो महाराजो वनवासाय दीक्षितः ।
गमिष्यति वनं राजन्नागतां कार्तिकीमिमाम् ॥ १५.१२.३ ॥
大王持国已受戒要入林居住,王啊,他将在这即将到来的迦尔迪基(Kārtikī)之夜进入森林。
15.12.4
स त्वां कुरुकुलश्रेष्ठ किञ्चिर्थमभीप्सति ।
श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः ॥ १५.१२.४ ॥
库鲁族中的至上者啊,他向你有所请求:他想为恒河之子、大德的毗湿摩举行祭祖仪式(施拉达)。
15.12.5
द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः ।
पुत्राणां चैव सर्वेषां ये चान्ये सुहृदो हताः।
यदि चाप्यनुजानीषे सैन्धवापशदस्य च ॥ १५.१२.५ ॥
为德罗纳、索摩达多、智者跋力迦,以及所有儿子和其他阵亡的朋友举行;若你也同意,亦为信度与阿波沙陀举行。
15.12.6
एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः ।
हृष्टःक सम्पूजयामास गुडोकेशश्च पाण्डवः ॥ १५.१२.६ ॥
坚战听闻毗杜罗这些话,心生欢喜,并善加尊敬;睡眠的征服者、般度之子阿周那也同样如此。
15.12.7
न च भीमो द्दढक्रोधस्तद्वचो जगृहे तदा ।
विदुरस्य महातेजा दुर्योधनकृतं स्मरन् ॥ १५.१२.७ ॥
怒火坚定的毗摩当时没有接受毗都罗的话,他想起了难敌所做的一切。
15.12.8
अभिप्रायं विदित्वा तु भीमतसेनस्य फल्गुनः ।
किरीटी किञ्चिदानम्य तमुवाच नरर्षभम् ॥ १५.१२.८ ॥
阿周那(戴冠者)理解了毗摩森的意图,微微低头,对那位人中雄牛说道。
15.12.9
भीम राजा पिता वृद्धो वनवासाय दीक्षितः ।
दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम् ॥ १५.१२.९ ॥
毗摩,我们年老的父王已受戒入林,他想为所有的友人举行丧葬之礼。
15.12.10
भवता निर्जितं वित्तं दातुमिच्छति कौरवः ।
भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि ॥ १५.१२.१० ॥
俱卢子想把你所征服的财富赠给毗湿摩等人;大臂者啊,你应当允许此事。
15.12.11
दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचते ।
याचितो यः पुराऽस्माभिः पश्य कालस्य पर्ययम् ॥ १५.१२.११ ॥
大臂者啊,幸运的是今日持国在恳求;他正是过去我们曾向其恳求的人——看这时运的转变吧。
15.12.12
योसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः ।
परैर्विनिहतामात्यो वनं गन्तुमभीप्सति ॥ १५.१२.१२ ॥
曾经成为整个大地之主、人间之王的他,如今在其大臣被敌人杀害之后,竟想要进入森林。
15.12.13
मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम् ।
अयशस्यमतोऽन्यत्स्यादधर्मश्च महाभुजः ॥ १५.१२.१३ ॥
人中之虎啊,愿你心中除了布施之外别无他念。否则便是不名誉与不法,大臂者啊。
15.12.14
राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम् ।
अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ ॥ १५.१२.१४ ॥
去侍奉国王,你的长兄与主人。婆罗多之牛啊,你只配施予,而不配接受。
15.12.15
एवं ब्रुवाणं बीभत्सुं धर्मराजोऽप्यपूजयत् ।
भीमसेनस्तु सक्रोधमुवाच विजयं तदा ॥ १५.१२.१५ ॥
当毗跋萨(阿周那)如此说话时,连法王也尊敬他。但此时毗摩森那愤怒地对胜者说道。
15.12.16
वयं भीष्मस्य दास्यामः प्रेतकार्यं तु फल्गुन ।
सोमदत्तस्य नृपतेर्भूरिश्रवस एव च ॥ १५.१२.१६ ॥
菲勒古那啊,我们将为毗湿摩、国王索摩达多,以及布利室罗婆斯举行丧葬之礼。
15.12.17
बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः ।
अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति ॥ १५.१२.१७ ॥
为王仙巴利迦、大德德罗纳以及其他朋友,贡蒂将为迦尔纳而施予。
15.12.18
श्राद्धानि पुरुषव्याघ्र मा प्रदात्कौरवो नृपः ।
इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः ॥ १५.१२.१८ ॥
人中之虎啊,愿俱卢王不要行施祭。我的想法是如此,使你们的敌人不致欢喜。
15.12.19
कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः ।
यैरियं पृथिवी कृत्स्ना घातिता कुलपांसनैः ॥ १५.१२.१९ ॥
愿杜尔约达那等人从苦难走向更大的苦难,正是这些玷污家族者毁灭了整个大地。
15.12.20
कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम् ।
अज्ञातवासगमनं द्रौपदीशोकवर्धनम् ॥ १५.१२.२० ॥
今日你怎会忘记那十二年的仇恨?正是它使你走入隐居,又增添了德罗波蒂的悲伤。
15.12.21
क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मद्गोचरो गतः ।
कृष्णाजिनोपसंवीतो हृताभरणभूषणः।
सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान् ॥ १५.१२.२१ ॥
那时,你对持国王的那份亲情到哪里去了,它本是我们触手可及的?身披鹿皮,珠饰尽失,你与般遮罗之女一同前往那位国王处。
15.12.22
क्व तदा द्रोणभिष्मौ तौ सोमदत्तोपि वाऽभवत् ।
यत्र द्वादश वर्षाणि वने वन्येन जीवथ।
न तदा त्वां पिता ज्येष्ठः पितृत्वेनाभिवीक्षते ॥ १५.१२.२२ ॥
那时德罗纳、毗湿摩与那位索摩达塔在哪里?当你们在森林中以野果为食生活了十二年时,长兄并未以父亲的眼光看待你们。
15.12.23
किं ते तद्विस्मृतं पार्थक यदेष कुलपांसनः ।
दुर्बुद्धिर्विदुरं प्राह द्यूते किं जितमित्युत ॥ १५.१२.२३ ॥
帕尔塔啊,你忘了这个玷污家族、心怀恶念的人曾对毗图罗说:“赌局中赢得了什么?”吗?
15.12.24
तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः ।
उवाच वचनं धीमाञ्जोषमास्स्वेति भर्त्सयन् ॥ १५.१२.२४ ॥
般度之子、贤明的国王坚战见他如此言语,便斥责道:“住口,坐下。”