Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.16

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.16.1

ततः प्रभाते राजा स धृतराष्ट्रोंऽबिकासुतः ।
आनाय्य पाण्डवान्वीरान्वनषासे कृतक्षणः ॥ १५.१६.१ ॥

于是黎明时分,安比卡之子国王持国召集英勇的般度五子,决定前往林居。

15.16.2

गान्धारीसहितो धीमानभ्यनन्दद्यथाविधि ।
कार्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः ॥ १५.१६.२ ॥

智者持国与甘陀利依礼应允此事,并在迦尔迪迦月请通晓吠陀的婆罗门举行祭祀(伊什提)。

15.16.3

अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः ।
वधूजनवृतो राजा निर्ययौ भवनात्ततः ॥ १५.१६.३ ॥

他手持圣火在前,身着树皮与鹿皮,被众妇人围绕,国王随即离开了宫殿。

15.16.4

ततः स्त्रियः कौरवपाण्डवानां ।
याञ्चापराः कौरवराजवंश्याः।
तासां नादः प्रादुरासीत्तदानीं ।
वैचित्रिवीर्ये नृपतौ प्रयाते ॥ १५.१६.४ ॥

于是,属于俱卢王族的般度与俱卢诸妇人痛哭哀求,那毗质多毗利耶之子的国王离去之时,她们的哭声便响起。

15.16.5

ततो लाजैः सुमनोभिश्च राजा ।
विचित्राभिस्तद्गृहं पूजयित्वा।
संयोज्याश्वैर्भृत्यवर्गं च सर्वं ।
ततः समुत्सृज्य ययौ नरेन्द्रः ॥ १५.१६.५ ॥

随后,国王以炒米、鲜花和各色供品礼敬那座宫殿;备好马匹与侍从,舍弃一切,人主便启程而去。

15.16.6

ततो राजा प्राञ्जलिर्वेपमानो ।
युधिष्ठिरः सस्वरं बाष्पकण्ठः।
विनद्योच्चैर्गां महाराज साधो ।
क्व यास्यसीत्यपतत्ताति भूमौ ॥ १५.१६.६ ॥

于是,坚战双手合十,浑身颤抖,喉咙哽咽,泪流满面,高声呼喊:“大王啊,善人啊,您将往何处去?”说罢便倒在地上。

15.16.7

तथाऽर्जुनस्तीव्रदुःखाभितप्तो ।
मुहुर्मुहुर्निः श्वसन्भारताग्र्यः।
युधिष्ठिरं मैवमित्येवमुक्त्वा ।
निगृह्याथो दीनतरो बभूव ॥ १५.१६.७ ॥

阿周那同样因剧烈的悲痛而煎熬,反复叹息,作为婆罗多人中最杰出者,对坚战说:“不要这样做。”随后他强抑自己,变得极为沮丧。

15.16.8

वृकोदरः फल्गुनश्चैव वीरौ ।
माद्रीपुत्रौ विदुरः संजयश्च।
वैश्यापुत्रः सहितो गौतमेन ।
धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः ॥ १५.१६.८ ॥

狼腹(怖军)与白净(阿周那)两位英雄、摩德利的两个儿子、毗睹罗与桑闍耶、吠舍妇所生之子与瞿昙同行,达乌米亚与婆罗门们也随后跟随,喉咙被泪水哽咽。

15.16.9

कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं ।
स्कन्धासक्तं हस्तमथोद्वहन्ती।
राजा गान्धार्याः स्कन्धदेशेऽवसज्य ।
पाणिं ययौ धृतराष्ट्रः प्रतीतः ॥ १५.१६.९ ॥

贡蒂扶着蒙眼而行的甘陀利,国王持国则将手搭在甘陀利的肩上,由她引导前行。

15.16.10

तथा कृष्णा द्रौपदी यादवी च ।
बालापत्या चोत्तरा कौरवी च।
चित्राङ्गदा याश्च काश्चित्स्त्रियोऽन्याः ।
सार्धं राज्ञा प्रस्थितास्ता वधूभिः ॥ १५.१६.१० ॥

同样,黑公主德罗波蒂、耶达瓦女子、带着幼子的乌达罗、俱卢家的儿媳、奇傍陀及其他一些女子,与她们的儿媳们一同随国王启程了。

15.16.11

तासां नादो रुदतीनां तदाऽऽसी-
द्राजन्दुःखात्कुररीणामिवोच्चैः।
ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां ।
विट्शूद्राणां चैव भार्याः समन्तात् ॥ १५.१६.११ ॥

大王啊,那些哭泣妇人的声音便如悲痛的鹗鸟般高声响起。随后,婆罗门与刹帝利的妻子,以及吠舍与首陀罗的妻子,从四面八方走了出来。

15.16.12

तन्निर्याणे दुःखितः पौरवर्गो ।
गजाह्वये चैव बभूव राजन्।
यथापूर्वं गच्छतां पाण्डवानां ।
द्यूते राजन्कौरवाणां सभायाम् ॥ १५.१६.१२ ॥

在他们启程之时,城中百姓悲伤,大王啊,象城(Hāstinapura)亦是如此。正如先前,大王,般度五子离去时,以及在俱卢族大会上赌骰子之时,人们同样悲痛。

15.16.13

या नापश्यच्चन्द्रमा नैव सूर्यो ।
रामाः काश्चित्ताः स्म तस्मिन्नरेन्द्रे।
महावनं गच्छति कौरवेन्द्रे ।
शोकेनार्ता राजमार्गं प्रपेदुः ॥ १५.१६.१३ ॥

有些女子甚至不曾见过月亮和太阳,当那位人主、俱卢之王前往大森林时,她们因悲伤而痛苦,走上了御道。