摩诃婆罗多 · 章 18.5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
18.5.1
भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः ।
विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा ॥ १८.५.१ ॥
毗湿摩与德罗纳,大德的持国王与国王,毗罗吒与德鲁钵陀二人,以及商佉与优怛罗。
18.5.2
धृष्टकेजुर्जयत्सेनो राजा चैव स सत्यजित् ।
दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः ॥ १८.५.२ ॥
月王、胜军、王者真胜,以及难敌之子们,还有苏波罗之子沙仇尼。
18.5.3
कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः ।
घटोत्कवादयश्चैव ये चान्ये नानुकीर्तिताः ॥ १८.५.३ ॥
迦尔纳之子们,勇猛的国王胜车,以及乔托迦查等人,还有这里未被提及的其他人。
18.5.4
ये चान्ये कीर्तिता वीरा राजानो दीप्तमूर्तयः ।
स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे ॥ १८.५.४ ॥
此处所提及的其他英勇诸王,形体光辉,他们在天界停留了多久?也请告诉我。
18.5.5
आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम ।
अन्ते वा कर्मणां कां ते गतिं प्राप्ता नरर्षभाः ॥ १८.५.५ ॥
或者他们在那里的居所是永恒的吗,最优秀的婆罗门?或者,在业报终结之时,那些人中雄牛获得了何种归宿?
18.5.6
एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं द्विजोत्तम ।
तपसा हि प्रदीप्तेन सर्वं त्वमनुपश्यति ॥ १८.५.६ ॥
最优秀的婆罗门啊,我愿听闻所要讲述的这些。您凭借炽燃的苦行,看见一切。
18.5.7
इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना ।
व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे। ॥ १८.५.७ ॥
那位婆罗门中的仙人被如此询问,得到大心者毗耶娑的许可,便开始向那位国王讲述。
18.5.8
गन्तव्यं कर्मणामन्ते सर्वेषां मनुजाधिप ।
शृणु गुह्यमिदं राजन्देवानां भरतर्षभ।
यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् ॥ १८.५.८ ॥
人主啊,一切人都必须走到业行的终点。国王,婆罗多族中的雄牛,请听这诸神的秘密,那是具大光明、天眼、威力强大者所说的。
18.5.9
मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः ।
अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् ॥ १८.५.९ ॥
古老的仙人啊,俱卢后裔,波罗舍罗之子,持大誓者,智慧深不可测,全知者,通晓一切业行之道的人。
18.5.10
तेनोक्तं कर्मणामन्ते प्रविशन्ति स्विकां तनुम् ॥ १८.५.१० ॥
他说过:在业行终结时,他们进入自己的身体。
18.5.11
वसूनेव महातेजा भीष्मः प्राप महाद्युतिः ।
अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ ॥ १८.५.११ ॥
大光明的、大辉煌的毗湿摩得到了诸婆苏;因为实际上只见八位婆苏,婆罗多族中的雄牛啊。
18.5.12
बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् ।
कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणान् ॥ १८.५.१२ ॥
随后德罗纳进入了安吉罗斯中最优秀的布里哈斯帕蒂;而心之子俱泰伐尔曼进入了摩录多群。
18.5.13
सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् ।
धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् ॥ १८.५.१३ ॥
普拉杜延按其来时进入萨那特库马拉。持国王抵达了财神的难以到达的世界。
18.5.14
धृतराष्ट्रो सहिता गन्धारी च यशस्विनी ।
पत्नीभ्यां सहितः पाण्डुमहेन्द्रसदनं ययौ ॥ १८.५.१४ ॥
持国王与著名的甘陀利,偕同两位妻子,前往帕尔杜大因陀罗的居所。
18.5.15
विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः ।
निशठाक्रूरसाम्बाश्च भानुः कण्वो विदूरथः ॥ १८.५.१५ ॥
毗罗吒与德鲁帕达二人,国王德利什塔刻图,尼沙陀、阿克鲁罗、三波、婆奴、迦纳伐与毗都罗陀。
18.5.16
भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः ।
कंशश्चैवोग्रसेनश्च वसुदेवस्तथैव च ॥ १८.५.१६ ॥
婆利首罗婆、沙罗,以及大地之主婆利,还有刚萨与乌格拉塞那,以及婆苏提婆。
18.5.17
उत्तरश्च सह भ्रात्रा शङ्खेन नरपुङ्गवः ।
विश्वेषां देवतानां ते विविशुर्नरसत्तमाः ॥ १८.५.१७ ॥
乌达罗与其兄商伽同行,人中之牛,那些人中最优者进入了诸神的世界。
18.5.18
वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् ।
सोभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत् ॥ १८.५.१८ ॥
名为婆尔闍者,大光明,月神之子,威力强大——他便成为人狮般的法尔古那(阿周那)之子阿毗摩奴。
18.5.19
स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित् ।
विवेश सोमं धर्मात्मा कर्मणोन्ते मरारथः ॥ १८.५.१९ ॥
他依照刹帝利之法作战,此前无人如此作战。这位正法之人、伟大的战车武士,在其业行终结时进入了月神(Soma)。
18.5.20
आविवेश रविं कर्णो निहतः पुरुषर्षभ ।
द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् ॥ १८.५.२० ॥
人中之牛啊,被杀的迦尔纳进入了太阳;沙恭尼到达了双轭时代,猛光则到达了火。
18.5.21
धृतराष्ट्रात्मजाः सर्वे यातुधानान्प्रपेदिरे ।
धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः ॥ १८.५.२१ ॥
持国王的诸子都前往了夜叉罗刹(Yātudhāna)之处。御者(Vidura)入于法,国王坚战也是如此。
18.5.22
अनन्तो भगवान्देवः प्रविवेश रसातलम् ।
पितामहनियोगाद्वै यो योगाद्गामधारयत् ॥ १८.५.२२ ॥
世尊无尽龙王(Ananta)神由于祖父的命令,入于罗萨塔拉(Rasātala,地下界);他以瑜伽之力支撑着大地。
18.5.23
यः स नारायणो नाम देवदेवः सनातनः ।
तस्यांशो वासुदेवस्तु कर्मणोन्ते विवेश ह ॥ १८.५.२३ ॥
名为那罗延(Nārāyaṇa)的,神中之神、永恒者——他的一部分即是婆苏天(Vāsudeva),此人在其业行终结时入于其中。
18.5.24
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहाः ।
अमज्जंस्ताः सरस्वत्यां कालेन जनमेजय ॥ १८.५.२४ ॥
婆苏天(Vāsudeva)的十六千位妻子——哦,阇那美阇耶,时至之时,她们投入了萨拉斯瓦蒂河。
18.5.25
तत्र त्यक्त्वा शरीराणि दिवमारुरुहुः पुनः ।
ताश्चैवाप्सरसो भूत्वा वासुदेवमुपाविशन् ॥ १८.५.२५ ॥
她们在那里舍弃身体,再次升上天界;她们自己化为天女,坐在婆苏提婆(黑天)身旁。
18.5.26
हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः ।
घटोत्कचादयश्चैव देवान्यक्षांश्च भेजिरे ॥ १८.५.२६ ॥
在那场大战中被杀的英雄与大车战士,以及甘托迦恰等人,都到达了诸神与夜叉之处。
18.5.27
दुर्योधनसहायाश्च राक्षसा येऽनुकीर्तिताः ।
प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् ॥ १८.५.२७ ॥
被提及的、作为难敌盟友的罗刹,啊国王,依次到达了所有至高的世界。
18.5.28
भवनं च महेन्द्रस्य कुबेरस्य च धीमतः ।
वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः ॥ १८.५.२८ ॥
大因陀罗的居所、智慧的俱毗罗的居所,以及婆楼那的诸世界,那些人中雄牛进入了其中。
18.5.29
एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते ।
कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत ॥ १८.५.२९ ॥
啊,大光明者,这一切我已详细地告诉你了:婆罗多啊,关于俱卢族与般度族的全部事迹。
18.5.30
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः ।
विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ ॥ १८.५.३० ॥
国王遮娜美阇耶从最优秀的婆罗门那里听到这些,在祭祀仪式的间隙中,极为惊讶。
18.5.31
ततः समापयामासुः कर्म तत्तस्य याजकाः ।
आस्तिकश्चाभवत्प्रीतः परिमोक्ष्य भुजङ्गमान् ॥ १८.५.३१ ॥
随后祭司们完成了那场祭祀,阿斯提卡解救了诸蛇,心中欢喜。[机器草稿]
18.5.32
ततो द्विजातीन्सर्वास्तान्दक्षिणाभिरतोषयत् ।
पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् ॥ १८.५.३२ ॥
随后他以布施令所有婆罗门满意;受国王尊敬后,他们按原路返回。[机器草稿]
18.5.33
विसर्जयित्वा विप्रांस्तान्राजाऽपि जनमेजयः ।
हृष्टस्तक्षशिलायाः स पुनरायाद्गचाह्वयम् ॥ १८.५.३३ ॥
送走那些婆罗门后,国王遮那阁耶也欢欣地从呾叉始罗再次返回象城(象城即 Hāstinapura)。[机器草稿]
18.5.34
एतत्ते सर्वमाख्यातं वैशम्पायनकीर्तितम् ।
व्यासाज्ञया समाज्ञातं सर्पसत्रे नृपस्य हि ॥ १८.५.३४ ॥
这一切都已讲给你听,乃是毗首衍那所诵;依毗耶娑之命,在国王的蛇祭中已被充分学习。[机器草稿]
18.5.35
पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम् ।
कृष्णेन मुनिना विप्र निर्मितं सत्यवादिना ॥ १८.५.३५ ॥
婆罗门啊,这部名为“伊提诃娑”的神圣史诗,以及这至上的净化之书,乃是诚实的仙人黑天(二岛生)所作。[机器草稿]
18.5.36
सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता ।
अतीन्द्रियेण शुचिना तपसा भावितात्मना ॥ १८.५.३६ ॥
由一位无所不知、通晓仪轨、具足法智、善良、超越感官、清净、并以苦行修炼其自我的仙人所作。[机器草稿]
18.5.37
ऐश्वर्ये वर्तता चैव साङ्ख्ययोगवता तथा ।
नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा ॥ १८.५.३७ ॥
住于威权、具足数论与瑜伽、觉悟于诸多法门、以天眼见之者。
18.5.38
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् ।
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥ १८.५.३८ ॥
在世间传扬伟大的般度五子及其他富有财富与威光的刹帝利之名声者。
18.5.39
क्रीडां च वासुदेवस्य देवदेवस्य शाङ्गिणः ।
विश्वेषां देवभागानां जन्मसायुज्यमेव च ॥ १८.५.३९ ॥
婆苏提婆之戏、持沙随弓的天神之神之戏,以及诸天分之生与合一。
18.5.40
य इदं शृणुयाद्विद्वान्पर्वसु द्विजसत्तमः ।
धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति ॥ १८.५.४० ॥
若有智者、二生者中之最上者,于诸篇中听闻此书,罪垢尽除,赢得天界,便往梵性之境。
18.5.41
कार्ष्णं वेदमिमं सर्वं शृणुयाद्यः समाहितः ।
ब्रह्महत्याकृतं पापं तत्क्षणादेव नश्यति ॥ १८.५.४१ ॥
若有人专心听闻此整部克里希那之吠陀,所犯杀婆罗门之罪,当下即灭。
18.5.42
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ।
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतदिष्ठते ॥ १८.५.४२ ॥
若于施食祭祖(śrāddha)时,为婆罗门诵及此书至少四分之一者,其祖先将得不尽的饮食。
18.5.43
अह्ना यदेनः कुरुते इन्द्रियैर्मनसाऽपि वा ।
महाभारतमाख्याय सर्पपापैः प्रमुच्यते ॥ १८.५.४३ ॥
白天以感官或心念所犯的罪过,诵说《摩诃婆罗多》便可脱离如蛇般的罪孽。
18.5.44
यद्रात्रौ कुरुते पापं ब्राह्मणः स्त्रीगणैर्वृतः ।
महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते ॥ १८.५.४४ ॥
婆罗门夜间被众女环绕而犯罪,诵说《摩诃婆罗多》后,于前一个黎明时分脱离此罪。
18.5.45
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ १८.५.४५ ॥
因其伟大与分量,称为《摩诃婆罗多》;知其词源者,脱离一切罪过。
18.5.46
अष्टादशपुराणानि धर्मशास्त्राणि सर्वशः ।
वेदाः साङ्गास्तथैकत्र भारतं चैकतः स्थितम् ॥ १८.५.४६ ॥
十八部往世书与一切法论,以及附有支分的吠陀,同处一方;《摩诃婆罗多》则独立于另一方。
18.5.47
श्रूयतां सिंहनादोऽयमृषेस्तस्य महात्मनः ।
अष्टादशपुराणानां कर्तुर्वेदमहोदधेः ॥ १८.५.४७ ॥
请听那位大智之仙人的狮吼——他是十八部往世书的作者,吠陀的大海。
18.5.48
त्रिभिर्वर्षैर्महत्पुण्यं कृष्णद्वैपायनः प्रभुः ।
अखिलं भारतं चेदं चकार भगवान्मुनिः ॥ १८.५.४८ ॥
三年之中,作为伟大的功德之业,主尊黑仙(克里希那·二岛)这位薄伽梵圣者,撰成了这部完整的《摩诃婆罗多》。
18.5.49
आकर्ण्य भक्त्या सततं जयाख्यं भारतं महत् ।
श्रीश्च कीर्तिस्तथा विद्या भवन्ति सहिताः सदा ॥ १८.५.४९ ॥
若以虔诚之心常常聆听这部名为《胜利》的伟大《薄罗多》,吉祥、名声与学问便常与他同在。
18.5.50
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रिचित् ॥ १८.५.५० ॥
薄罗多之杰啊!此处所有关于法、利、欲与解脱的内容,他处亦有;此处所无者,无处有之。
18.5.51
वाच्यते यत्र सततं जयाख्यं भारतं महत् ।
श्रीश्व कीर्तिश्च विद्या च भवन्ति मुदिताः सदा ॥ १८.५.५१ ॥
凡常常诵读此名为《胜利》的伟大《薄罗多》之处,吉祥、名声与学问便常怀欢喜。
18.5.52
भारतस्य तु वक्तारं ब्रह्मर्षि च महागुरुम् ।
वैशंपायनमारोप्य स्वर्णभद्रासनं तदा ॥ १८.५.५२ ॥
于是,将薄罗多的讲述者、梵仙、大导师毗舍摩衍那安置于金色宝座之上……
18.5.53
जनमेजयादिराजान आस्तिकाद्या द्विजातयः ।
धर्मदत्तादिवैश्याश्च सोम्यवंश्यादिशूद्रकाः ॥ १८.५.५३ ॥
以遮那弥闍耶为首的诸王,以阿斯提迦为首的再生者,以达摩达多为首的吠舍,以及以索米亚万奢为首的首陀罗。
18.5.54
प्रयुतं चायुतं चेति सहस्रं शतमित्यपि ।
दशकं चेति निष्काणामानर्चुस्तं महागुरुम् ॥ १८.५.५४ ॥
他们以黄金钱币(尼设迦)——计为百万、万、千、百、十之数——供养那位大导师。
18.5.55
निष्काणां दशकं दत्त्वा मृतपुत्रोऽमृतप्रजः ।
ऊष्मादिव्याधियुक्तश्च शतं दत्त्वा निरामयः ॥ १८.५.५५ ॥
施舍十枚尼什卡之后,失子者得到不朽的子嗣;患发烧等疾病者施舍一百枚之后,便脱离疾病。
18.5.56
सहस्रदानात्संतानहीनः संतानपुत्रवान् ।
आयुरारोग्यमैश्वर्यं भेजुस्तेऽन्नं च पुत्रकान् ॥ १८.५.५६ ॥
凭借千枚的布施,无子者得到子嗣;他们获得了长寿、健康、富足、食物和儿子。
18.5.57
सुवर्णं रजतं रत्नं सर्वाण्याभरणानि च ।
सर्वोपकरणैर्युक्तं निधिनिक्षेपसंयुतम् ॥ १८.५.५७ ॥
金、银、宝石以及一切饰品,配备一切器具,并附有宝藏和寄存之财物。
18.5.58
इष्टकाभित्तिसंयुक्तमग्निबाधादिवर्जितम् ।
देवपूजाग्निहोत्रादिपाठार्थगृहसंयुतम्।
सान्तर्बहिस्संवरणं सप्रासादं सगोगृहम् ॥ १८.५.५८ ॥
有砖墙,免于火灾等灾害,设有供奉诸神、举行火祭和诵读之室,内外皆有围护,并有宫殿与牛棚。
18.5.59
व्यष्ट्या समष्ट्या वा दद्यात्स्वर्गारोहणपर्वणि ।
निवृत्तिकामो दद्याच्चेत्पुनर्जन्म न विद्यते ॥ १८.५.५९ ॥
在升天节,应当或个人或集体布施;若求解脱者布施,则他不再轮回。
18.5.60
सकामश्चेद्ब्रह्मकल्पं सुकं ब्रह्मगृहे वसेत् ॥ १८.५.६० ॥
若求果报,则当在梵天之界安乐居住一个梵劫。
18.5.61
पुराणमुखतो यस्माद्वेदान्तज्ञानमाप्यते ।
स तेन गुरुराख्यातस्तत्पूजा हीशपूजनम् ॥ १८.५.६१ ॥
因为吠檀多的知识从往世书之口获得,所以他被称为上师;敬奉他就是敬奉主宰。
18.5.62
भारतस्य तु वक्तारं श्रोतारं लेखकांस्तदा ।
प्रपूजयन्ति संहृष्टाः सिद्धाश्च परमर्षयः ॥ १८.५.६२ ॥
《薄罗多》的讲述者、聆听者与抄写者,那时都会被悉陀和大仙们欢喜地敬奉。
18.5.63
महाभारतवक्तारं नार्चयन्तीह ये नराः ।
तेषां सर्वक्रियाहानिर्भवेद्देवाः शपन्ति च ॥ १८.५.६३ ॥
在此不敬奉《摩诃婆罗多》讲述者的人,其一切行为都会失去,诸天也会诅咒他们。
18.5.64
जयो नामेतिहासोऽयं श्रोतव्यो जयमिच्छता ।
राज्ञा राजसुतैश्चैव गर्भिण्या चैव योषिता ॥ १८.५.६४ ॥
名为《胜利》的这部史诗,应当被渴求胜利的国王、王子们,以及怀孕的妇人聆听。
18.5.65
स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम् ।
गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ॥ १८.५.६५ ॥
渴望天界者得天界,渴望胜利者得胜利;怀孕的妇人得子,或得一位极有福分的女儿。
18.5.66
अनागतश्च मोक्षश्च कृष्णद्वैपायनः प्रभुः ।
संदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया ॥ १८.५.६६ ॥
主宰者黑氏(克里希那·二重生)出于对法的渴望,编纂了这部《薄罗多》,为未来的果报与解脱。
18.5.67
षष्टिं शतसहस्राणि चकारान्यां स संहिताम् ।
त्रिंशच्छतसहस्राणि देवलोके प्रतिष्ठितम् ॥ १८.५.६७ ॥
他另编了一部集子,共六十万(颂);其中三十万存于天界。
18.5.68
पित्र्ये पञ्चदशं ज्ञेयं यक्षलोके चतुर्दश ।
एकं शतसहस्रं तु मानुषेषु प्रभाषितम् ॥ १८.५.६८ ॥
祖灵界应知十五(万),夜叉界十四(万);而在人间所宣说的为十万(颂)。
18.5.69
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् ।
रक्षोयक्षाञ्शुको मर्त्यान्वैशम्पायन एव तु ॥ १८.५.६९ ॥
那罗陀使诸神闻之,阿悉陀与提婆罗使祖灵闻之,suka使罗刹与夜叉闻之,而毗舍衍那则使凡人闻之。
18.5.70
इतिहासमिमं पुण्यं महार्थं वेदसंमितम् ।
व्यासोक्तं श्रूयते येन कृत्वा ब्राह्म्णमग्रतः ॥ १८.५.७० ॥
此神圣的大义之历史,与吠陀等同,乃毗耶娑所说,在婆罗门居前时聆听。
18.5.71
स नरः सर्वकामांश्च कीर्तिं प्राप्येह शौनक ।
गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः ॥ १८.५.७१ ॥
此人,啊,憍舍迦,在此获得一切愿望与名声,便至于至上成就;此事我无疑。
18.5.72
भारताध्ययनात्पुण्यादपि पादमधीयतः ।
श्रद्धया परया भक्त्या श्राव्यते चापि येन तु।
य इमां संहितां पुण्यां पुत्रमध्यापयच्छुकम् ॥ १८.५.७२ ॥
即使研习《摩诃婆罗多》的四分之一,亦有功德;以至上的信心与虔敬令人闻此神圣集成者,以及令其子鹦鹉仙人研习此集成者。
18.5.73
मातापितृसहस्राणि पुत्रदारशतानि च ।
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥ १८.५.७३ ॥
在世间轮回中,已经历过成千上万的父母,以及数百个儿子和妻子;他们离去了,其他人也将离去。
18.5.74
हर्षस्थानसहस्राणि भयस्थानशतानि च ।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥ १८.५.७४ ॥
成千上万的喜悦之因和数百的恐惧之因,每日都进入愚人之心,却不进入智者之心。
18.5.75
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ १८.५.७५ ॥
我举起双臂呼喊,却无人听闻。财富与欲乐皆源于法;那为何无人奉行它呢?
18.5.76
न जातु कामान्न भयान्न लोभा-
द्धर्मं त्यजेज्जीवितस्यापि हेतोः।
नित्यो धर्मः सुखदुःखे त्वनिथ्ये ।
जीवो नित्यो हेतुरस्य त्वनित्यः ॥ १८.५.७६ ॥
无论出于欲望、恐惧或贪婪,即使为了生命,也绝不可舍弃法。法是永恒的;苦乐是无常的。灵魂是永恒的;其因却是无常的。
18.5.77
इमां भारतसावित्रीं प्रातरुत्थायः यः पठेत् ।
स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥ १८.५.७७ ॥
清晨起身诵读此《摩诃婆罗多》圣句的人,获得《摩诃婆罗多》的果报,便能证得至高的梵。
18.5.78
कयथा समुद्रो भगवान्यथा हि हिमवान्गिरिः ।
ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥ १८.५.७८ ॥
正如尊贵的大海与喜马拉雅山都以宝石宝库而闻名,《摩诃婆罗多》也被如此称颂。
18.5.79
कार्ष्णं देवमिमं विद्वाञ्श्रावयित्वाऽर्थमश्नुते ।
इदं भारतमाख्यानं यः पठेत्सुसमाहितः।
स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः ॥ १८.५.७९ ॥
智者若使此神黑天被听闻,便得其所求;若以专注之心诵读此《婆罗多》故事者,必达至高成就,此我无疑。
18.5.80
द्वैपायनोष्ठपुटनिस्सृतमप्रमेयं ।
पुण्यं पवित्रमथ पापहरं शिवं च।
यो भारतं समधिगच्छति वाच्यमानं ।
किं तस्य पुष्करजलैरभिषेचनेन ॥ १८.५.८० ॥
此乃从毗耶娑的唇口流出,无量、有功德、清净、能除罪、吉祥。对于正在被诵读时专心聆听《婆罗多》者,何须以普什卡之水灌顶沐浴?
18.5.81
यो गोशतं कनकशृङ्गमयं ददाति ।
विप्राय वेदविदुषे सुबहुश्रुताय।
पुण्यां च भारतकथां सततं शृणोति ।
तुल्यं फलं भवति तस्य च तस्य चैव ॥ १८.५.८१ ॥
若有人将带金角的百头牛布施给精通吠陀、博学多闻的婆罗门,若有人常常听闻《婆罗多》的功德故事——二者所得之果报相同。
18.5.82
यद्यदिष्टतमं कामं लभते श्रद्धयाऽन्वितः ।
शृणुयान्मुदितो भूत्वा आस्तिको बुद्धिसंयुतः ॥ १८.५.८२ ॥
凡怀有信心者所得最所愿之愿望,皆由此而得。让有信仰、心智明达、欢喜的人聆听此书吧。
18.5.83
वासुदेवं स्मरन्विद्वान्पुण्डरीकायतेक्षणम् ।
इतिहासमिमं पुण्यं महार्थं वेदसंमितम् ॥ १८.५.८३ ॥
学者若念及莲花眼的婆苏提婆(黑天),便当聆听此功德之古史,其义深远,与吠陀等同。
18.5.84
श्रावयेद्यस्तु वर्णादीन्कृत्वा ब्राह्मणमग्रतः ।
सर्वपापविशुद्धात्मा शुचिस्तद्गतमानसः ॥ १८.५.८४ ॥
若有人以婆罗门居前,向种姓等人高声诵读此篇,他便洗净一切罪恶,身心清净,心思专注于此。
18.5.85
इह कीर्तिं महत्प्राप्य भोगवान्सुखमश्नुते ।
व्यासप्रसादेन पुनः स्वर्गलोकं स गच्छति ॥ १८.५.८५ ॥
在此获得大名声后,他享有福乐与受用,又因毗耶娑的恩典,再次升往天界。
18.5.86
एतद्विदित्वा सर्वं तु सर्ववेदार्थविद्भवेत् ।
पूजनीयश्च सततं माननीयो भवेद्द्विजः ॥ १८.५.८६ ॥
知晓这一切的人,便成为通晓一切吠陀义理的人;婆罗门二生者应当永远受人尊敬与礼拜。