Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.100

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.100.1

आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम् ।
राजानं सोमदत्तं च महाराजं च बाह्लिकम् ॥ २.१००.१ ॥

我向婆罗多族人、年老的祖父、国王索摩达塔和大王跋利迦告别。

2.100.2

द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च ।
विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः ॥ २.१००.२ ॥

德罗纳、克里巴、其他诸王、阿updated湿婆塔曼、维杜罗、持国王以及持国王的所有儿子。

2.100.3

सौमदत्तिं महावीर्यं विकर्णं च महामतिम् ।
युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः ॥ २.१००.३ ॥

索摩达塔的大力之子、大智的毗迦尔纳、优优特苏、桑贾耶,以及议会中的其他成员。

2.100.4

गान्धारीं च महाभागां मातरं च तथा पृथाम् ।
सर्वानामन्त्र्य गच्छामि द्रष्टाऽस्मि पुनरेत्य वः ॥ २.१००.४ ॥

我向所有人告别,包括福德深厚的甘陀利和母亲普利塔之后便要离去;我将再来看望你们。

2.100.5

न च किञ्चिदथोचुस्तं ह्रियाऽऽसन्ना युधिष्ठिरम् ।
मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः ॥ २.१००.५ ॥

他们虽靠近坚战,却因羞愧一言不发,只在心中祝愿那位智者平安吉祥。

2.100.6

आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति ।
सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता ॥ २.१००.६ ॥

尊贵的普利塔是王室公主,不应前往森林;她娇嫩年老,一向习惯于安乐。

2.100.7

इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि ।
इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः ॥ २.१००.७ ॥

吉祥者将住在我家,受到尊敬。普利塔之子们,你们要知道:愿你们一切平安。

2.100.8

तथेत्युक्त्वाऽब्रुवन्सर्वे यथा नो वदसेऽनघ ।
त्वं पितृव्यः पितृसमो वयं च त्वत्परायणाः ॥ २.१००.८ ॥

他们都说:“就这样吧。”“无瑕的人啊,您怎么说,我们就怎么做。您是我们的叔父,与父亲相当,我们都依靠您。”

2.100.9

यथाऽऽज्ञापयसे विद्वंस्त्वं हि नः परमो गुरुः ।
यच्चान्यदपि कर्तव्यं तद्विधत्स्व महामते ॥ २.१००.९ ॥

智者啊,您如何吩咐,我们就如何遵行,因为您是我们的最高导师。此外还有应当做的事,请您安排,伟大智慧者啊。

2.100.10

युधिष्ठिर विजानीहि ममेदं भरतर्षभ ।
नाधर्मेण जितः कश्चिद्व्यथते वै पराजये ॥ २.१००.१० ॥

尤地斯提拉啊,婆罗多族中的雄牛,请明白我的这番话:凡不是被不义所征服的人,在失败时不会痛苦。

2.100.11

त्वं वै धर्मं विजानीषे युद्धे जेता धनञ्जयः ।
हन्ताऽरीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही ॥ २.१००.११ ॥

你确实懂得法。战斗中的胜利者是财主(阿周那),杀敌者是怖军,而无种是积聚财富的人。

2.100.12

संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः ।
धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी ॥ २.१००.१२ ॥

偕天将是约束者,达乌米亚是最优秀的梵智者。还有德罗波蒂,她精通法与财,行事遵循法。

2.100.13

अन्योन्यस्य प्रियाः सर्वे तथैव प्रियदर्शनाः ।
परैरभेद्याः सन्तुष्टाः को वोन न स्पृहयेदिह ॥ २.१००.१३ ॥

他们彼此皆相亲爱,同样容貌可爱;他人无法离间,且知足。此间谁能不羡慕他们呢?

2.100.14

एष वै सर्वकल्याणः समाधिस्तव भारत ।
नैनं शत्रुर्विषहते शक्रेणापि समोऽप्युत ॥ २.१००.१४ ॥

婆罗多啊,这是你一切吉祥的兴旺;敌人无法忍受它,即便是与因陀罗相等的敌人。

2.100.15

हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा ।
द्वैपायनेन कृष्णेन नगरे वारणावते ॥ २.१००.१५ ॥

往昔在喜马拉雅,你曾受梅如萨瓦尔尼教导;在婆罗那瓦陀城,你也曾受黑脱生者黑天教导。

2.100.16

भृगुतुङ्गे च रामेण दृष्टद्वत्यां च शम्भुना ।
अश्रौषीरसि तस्यापि महर्षेरञ्जनं प्रति ॥ २.१००.१६ ॥

在婆里古吞伽山上,你听了罗摩的教导;在德利沙德瓦蒂河岸,你听了湿婆;你也听了那位大仙关于安闍那的教导。

2.100.17

कल्माषीतीरसंस्थस्य गतस्त्वं शिष्यतां भृगोः ।
द्रष्टा सदा नारदस्ते धौम्यस्तेऽयं पुरोहितः ॥ २.१००.१७ ॥

居于卡尔玛希河岸时,你成为了婆里古的弟子;那罗陀始终是你的见证者,这位陀弥亚则是你的家庭祭司。

2.100.18

माहासीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम् ।
पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव ॥ २.१००.१८ ॥

战斗之中,不要舍弃那被仙人们尊崇的智慧;般度之子啊,唯凭智慧,你便能战胜伊罗之子补卢罗婆。

2.100.19

शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्गोपसेवया ।
ऐन्द्रे जये धृतमना याम्ये कोपविधारणे ॥ २.१००.१९ ॥

你以力量征服其他国王和仙人,侍奉法之守护者;在因陀罗的东方征服中心志坚定,在阎摩的南方则克制愤怒。

2.100.20

तथा विसर्गे कौबेरे वारुणे कोपविधारणे ।
आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम् ॥ २.१००.२० ॥

同样,在俱毗罗的北方施舍,在伐楼那的西方克制愤怒;自我奉献,温和,并依靠水而生活。

2.100.21

भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात् ।
वायोर्बलं प्राप्नुहि त्वं भूतेभ्यश्चात्मसम्पदम् ॥ २.१००.२१ ॥

从大地获得忍耐,从太阳圆盘获得全部光辉;从风获得力量,从众生获得自我的财富。

2.100.22

अगदं वोऽस्तु भद्रं वो द्रष्टाऽस्मि पुनरागतान् ।
आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः ॥ २.१००.२२ ॥

愿你们安康,愿你们吉祥。归来之时我将再见你们——在灾难中,在法与财的艰难困境中,或在一切事务中。

2.100.23

यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर ।
आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत ॥ २.१००.२३ ॥

坚战啊,你应随时适当地行事。贡蒂之子,你已在此告别;婆罗多的后裔,愿你获得福祉。

2.100.24

कृतार्थं स्वस्मिमन्तं त्वां द्रक्ष्यामः पुनरागतम् ।
न हि वो वृजिनं किञ्चिद्वेद कश्चित्पुराकृतम् ॥ २.१००.२४ ॥

待你完成所愿归来,我们将再见你。实际上,无人知晓你们过去所做的任何恶行。

2.100.25

एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः ।
भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः ॥ २.१००.२५ ॥

被如此告知后,具真勇的般度之子坚战说道:“就这样吧。”他向毗湿摩和德罗纳行礼后便出发了。