摩诃婆罗多 · 章 2.67
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.67.1
नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम् ।
नूनमेव जगद्भर्तुः कृष्णस्यैव विनिश्चयः। ॥ २.६७.१ ॥
挑战不朽者的并非切第王的意图,这必定是世界维持者克里希那自己的决定。
2.67.2
को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः ।
क्षेप्तुं कालपरीतात्मा यथैष कुलपांसनः ॥ २.६७.२ ॥
今日在毗摩森那面前,大地上哪位国王配得上侮辱我?如这般被死亡所困之心、玷辱家族者,才会如此。
2.67.3
एष ह्यस्य महाबाहुस्तेर्जोशश्च हरेर्ध्रुवम् ।
तमेव पुनरादातुं कुरुतेऽत्र मतिं हरिः ॥ २.६७.३ ॥
此人必定是那大臂哈里之光辉的一部分;哈里在此打算再次将他收回。
2.67.4
येनैष कुरुशार्दूल शार्दूल इव चेदिराट् ।
गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन् ॥ २.६७.४ ॥
库鲁的虎啊,此人凭借其力量,如老虎般大声咆哮,这恶念之人竟不把我们任何人放在心上。
2.67.5
ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा ।
उवाच चैन सङ्क्रुद्धः पुनर्भीष्ममथोत्तरम् ॥ २.६७.५ ॥
于是遮提(设须百罗)不能忍受毗湿摩的那些话,极为愤怒,又对毗湿摩回答道。
2.67.6
द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः ।
यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः ॥ २.६७.६ ॥
愿这就是克舍瓦(克里希那)对我们敌人的威力,毗湿摩啊,你是他的赞颂者,常常如乐师般起身颂扬。
2.67.7
संस्तवे चमनो भीष्म परेषां रमते यदि ।
तदा संस्तुहि राज्ञस्त्वमिमं हित्वा जनार्दनम् ॥ २.६७.७ ॥
婆罗诸,若你的心喜欢赞颂他人,那就舍弃这位遮那陀那,去赞颂诸王吧。
2.67.8
दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम् ।
जायमानेन येनेयभवद्दारिता मही ॥ २.६७.८ ॥
请赞颂达罗陀与巴赫利迦,这位诸王中最优者,他一出生,大地便被劈裂。
2.67.9
वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले ।
स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम् ॥ २.६७.९ ॥
婆罗诸,请赞颂这位迦尔纳,他是婆伽与盎伽之地的统治者,力量与因陀罗相等,能拉开大弓。
2.67.10
यस्येमे कुण्डले दिव्ये सहजे देवनिर्मिते ।
कवचं च महाबाहो बालार्कसदृशप्रभम् ॥ २.६७.१० ॥
这对天然生成、由诸神所造的神圣耳环属于谁?啊,大臂者,他的铠甲如初升的太阳般闪耀。
2.67.11
वासवप्रतिमो येन जरासन्धोऽतिदुर्जयः ।
विजितो बाहुयुद्धेन देहभेदं च लम्भितः ॥ २.६७.११ ॥
他在徒手角力中战胜了与因陀罗相等、极难战胜的哲罗桑陀,并使其身体被撕裂。
2.67.12
द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ ।
स्तुहि स्तुत्यावुभौ भीष्म सततं द्विजसत्तमौ ॥ २.६७.१२ ॥
婆罗诸,请好好赞颂德罗纳与德罗尼这对父子大车战士;二人都值得赞颂,是婆罗门中最优秀者。
2.67.13
ययोरन्यतरो भीष्म सङ्क्रुद्धः सचराचराम् ।
इमां वसुमतीं कुर्यान्निः शेषामिति मे मतिः ॥ २.६७.१३ ॥
婆罗门,若他们二人中任何一人愤怒,便会将此大地连同动与不动之物彻底毁灭,这是我的看法。
2.67.14
द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम् ।
नाश्वत्थाम्नः समं भीष्म न च तौ स्तोतुमिच्छसि ॥ २.६७.१४ ॥
婆罗门,我在战场上看不到能与德罗纳相比的人主,也看不到能与马嘶相比的人;可你却不愿赞美他们二人。
2.67.15
पृथिव्यां सागरान्तायां यो वैप्रतिसमो भवेत् ।
दुर्योधनं त्वं राजेन्द्रमतिक्रम्य महाभुजम् ॥ २.६७.१५ ॥
在四海环绕的大地上,谁能与他相等?连那位王中之王、大臂的难敌都越过了,你又在赞美谁?
2.67.16
जयद्रथं च राजानं कृतास्त्रं दृढविक्रमम् ।
द्रुमं किम्पुरुषाचार्यं लोके प्रथितविक्रमम्।
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् ॥ २.६७.१६ ॥
越过精通武艺、勇猛坚定的国王胜车,以及作为紧那罗之师、以勇武闻名于世的德鲁摩,你为何赞美那位大力的羯沙婆?
2.67.17
वृद्धं च भरताचार्यं तथा शारद्वतं कृपम् ।
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् ॥ २.६७.१७ ॥
越过年迈的、沙拉德瓦特之子、婆罗多族之师的俱卢,你为何赞美那位大力的羯沙婆?
2.67.18
धनुर्धराणां प्रवरं रुक्मिणं पुरुषोत्तमम् ।
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् ॥ २.६७.१८ ॥
越过善射者中第一、人中最上的鲁克民,你为何赞美那位大力的羯沙婆?
2.67.19
भीष्मकं च महावीर्यं दन्तवक्त्रं च भूमिपम् ।
भगदत्तं यूपकेथु जयत्सेनं च मागधम् ॥ २.६७.१९ ॥
还有大力的毗湿摩迦、大地之主檀特婆克特罗、婆伽达多、柱旗,以及摩揭陀的胜军。
2.67.20
विराटद्रुपदौ चोभौ शकुनिं च बहद्बलम् ।
विन्दानुविन्दावावन्त्यौ पाण्ड्यं श्वेतमथोत्तमम् ॥ २.६७.२० ॥
毗罗吒与德鲁波陀二人,大军的沙恭尼,阿槃提的频陀与阿努频陀,般驮王,以及至上的白王。
2.67.21
शङ्खं च सुमहाभागं वृषसेनं च मानिनम् ।
एकलव्यं च विक्रान्तं कालिङ्गं च महारथम् ॥ २.६७.२१ ॥
极具福德的商迦,骄傲的跋利沙那,勇猛的伽罗婆,以及羯陵伽的大车士。
2.67.22
अतिक्रम्य महावीर्यं किं प्रशंसति केशवम् ।
शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान्।
स्तवाय यदि ते बुद्धिर्वर्तते भीष्म वसुधाधिपान्। ॥ २.६७.२२ ॥
你为何越过大力者而赞美克沙瓦?为何不赞美沙利耶等地上的君主?毗湿摩啊,若你的心意在于赞颂,便去赞颂大地的君主吧。
2.67.23
किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप ।
पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् ॥ २.६७.२३ ॥
国王啊,你所说的长者之言,我怎能照做?你想必未曾听过往昔那些讲说正法者的教诲。
2.67.24
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः ।
अनाचरितमार्याणामिति ते भीष्म न श्रुतम् ॥ २.६७.२४ ॥
自责、自尊、非难他人、赞美他人,这些并非贤者所行——毗湿摩啊,你未曾听闻吗?
2.67.25
यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः ।
केशवं तच्च ते भीष्म न कश्चिदनुमन्यते ॥ २.६७.२५ ॥
婆罗多,你出于迷惑与虔诚,不断赞美这个人;那位羯沙婆不值得赞美,也无人认可。
2.67.26
कथं भोजस्य पुरुषे वत्सपाले दुरात्मनि ।
समावेशयसे सर्वं जगत्केवलकाम्यया ॥ २.६७.२६ ॥
你为何仅凭私欲,就把整个世界寄托在那个恶心的牧童、博迦之仆身上?
2.67.27
अथ चैषा न ते बुद्धिः प्रकृतिं याति भारत ।
मयैव कथितं पूर्वं कुलिङ्गशकुनिर्यथा ॥ २.६७.२७ ॥
婆罗多,若你的这份心智不能恢复其本性,我先前已讲过那只拘林伽鸟的故事。
2.67.28
कुलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे ।
भी तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः ॥ २.६७.२८ ॥
喜马拉雅山的那一边,有一只名叫拘林伽的鸟;它的话总是被听作令人恐惧、在意义上应受斥责的。
2.67.29
मा साहसमितीदं सा सततं वाशते किल ।
साहसं चात्मनातीव चरन्ती नावबुध्यते ॥ २.६७.२९ ॥
“不要鲁莽”——这正是她不断呼喊的;然而她自己鲁莽地过度行进,却并不觉察。
2.67.30
सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः ।
दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना ॥ २.६७.३० ॥
婆罗多,那只心智浅薄的鸟,在狮子进食时,从它口中取走卡在牙缝里的肉块。
2.67.31
इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम् ।
तद्वत्त्वमप्यधर्मिष्ठ सदा वाचः प्रभाषसे ॥ २.६७.३१ ॥
婆罗门啊,婆罗门啊,那想要的狮子之愿无疑仍存在。同样,最不义之人啊,你也总是口出妄言。
2.67.32
इच्छतां भूमिपालानां भीष्म जीवस्यसंशयम् ।
लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः ॥ २.६७.३२ ॥
婆罗门啊,在那些想要的国王之中,你无疑仍然活着。没有人能与你相比,你的行为为世人所憎恶。
2.67.33
ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः ।
उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः ॥ २.६७.३३ ॥
于是毗诃摩听了钦底之主那些苛刻的话,国王啊,在钦底王听着的时候,说出了这些话。
2.67.34
इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम् ।
सोऽहं न गणयाम्येतांस्तृणेनापि नराधिपान् ॥ २.६७.३४ ॥
"在这些想要的君主之中,我确实仍活着。这些人主,我连一根草都不把他们放在眼里。"
2.67.35
एवमुक्ते तु भीष्मेण ततः सञ्चुक्रुशुर्नृपाः ।
केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे ॥ २.६७.३५ ॥
毗诃摩如此说完之后,一些国王便大声喧哗;那里有人欢喜,也有人斥责毗诃摩。
2.67.36
केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य यद्वचः ।
पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम् ॥ २.६७.३६ ॥
听了毗诃摩的那些话,一些大弓箭手说:“这个罪人、傲慢而年老的毗诃摩,不配得到宽恕。”
2.67.37
हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपाः ।
सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना ॥ २.६७.३७ ॥
诸王啊,让这愚昧的毗湿摩如牲畜般被杀吧,或者你们众人聚集,怒火中烧,用芦苇之火将他焚烧。
2.67.38
इति तेषां वचः श्रुत्वा ततः कुरुपितामहः ।
उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान् ॥ २.६७.३८ ॥
听了他们的话,于是库鲁的祖父聪慧的毗湿摩便对那些大地之主说道。
2.67.39
उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये ।
यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः ॥ २.६७.३९ ॥
已说的话在此似乎没有尽头;但是诸大地之主啊,请听我要说的一切。
2.67.40
पशुवद्घातनं वा मे दहनं वा कटाग्निना ।
क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् ॥ २.६७.४० ॥
把我像牲畜一样杀了,或用芦苇之火焚烧我吧;我已将我全部的立足之地放在你们头上。
2.67.41
एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः ।
यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम् ॥ २.६७.४१ ॥
这位是我们所崇敬的戈文达,即阿周陀。你们中谁心中厌恶死亡,就让他去找摩陀婆吧。
2.67.42
कृष्णमाह्वयतामद्य युद्धे चक्रगदाधरम् ।
यादवस्यैव देवस्य देहं विशतु पातितः ॥ २.६७.४२ ॥
今日在战场上挑战手持轮与杵的黑天吧;倒下的人将进入这位亚达瓦神的身体。