Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.69

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.69.1

ततो युद्धाय संनद्धं चेदिराजं युधिष्ठिरः ।
दृष्ट्वा मतिमतां श्रेष्ठो नारदं समुवाच ह ॥ २.६९.१ ॥

此时,见切底王已备战,智者中最优秀的坚战对那罗陀说道。

2.69.2

अन्तरिक्षे च भूमौ च तेऽस्त्यविदितं क्वचित् ।
यानि राजविनाशाय भौमानि च खगानि च ॥ २.६९.२ ॥

天上地下,有哪些预示君王覆灭的地上与空中的征兆,是你所不知道的吗?

2.69.3

निमित्तानीह जायन्ते उत्पाताश्च पृथग्विधाः ।
एतदित्छामि कार्त्स्न्येन श्रोतुं त्वत्तो महामुने ॥ २.६९.३ ॥

我想从您这里完整地听闻此地出现的种种征兆与各类异象,大仙。

2.69.4

इत्येवं मितमान्विप्रः कुरुराजस्य धीमतः ।
पृच्छतः सर्वमव्यग्रमाचचक्षे महायशाः ॥ २.६९.४ ॥

当聪慧的俱卢王如此询问时,这位智慧且大名远扬的婆罗门平静地将一切都讲述了出来。

2.69.5

पराक्रमं च मार्गं च संनिपातं समुच्छ्रयम् ।
आरोहणं कुरुश्रेष्ठ अन्योन्यं प्रतिसर्पणम् ॥ २.६९.५ ॥

勇武、路径、冲撞、升起、攀升,以及,俱卢族中最优秀者啊,彼此相互逼近。

2.69.6

पश्मीनां व्यतिसंसर्गं व्यायामं वृत्तिपीडनम् ।
दर्शनादर्शनं चैव अदृश्यानां च दर्शनम् ॥ २.६९.६ ॥

星辰的相互交会、争斗、生计的困厄、出现与消失,以及看见那些本不可见之物。

2.69.7

हानिं वृद्धिं च ह्रासं च वर्णस्थानं बलाबलम् ।
सर्वमेतत्परीक्षेत ग्रहाणां ग्रहकोविदः ॥ २.६९.७ ॥

损失、增长、衰减、颜色、位置、强弱——精通行星之道者应当考察行星的这一切。

2.69.8

भौमाः पूर्वं प्रवर्तन्ते खेचराश्च ततः परम् ।
उत्पद्यन्ते च लोकेऽस्मिन्नुत्पाता देवनिर्मिताः ॥ २.६९.८ ॥

先出现大地之兆(bhauma),随后出现天上行走之星之兆(khecara);于此世间,便生出由诸神所造的异象(utpāta)。

2.69.9

यदा तु सर्वभूतानां छाया न परिवर्तते ।
अपरेण गते सूर्ये तत्पराभवलक्षणम् ॥ २.६९.९ ॥

太阳西沉之后,若一切众生的影子仍不变化,这便是败亡的征兆。

2.69.10

अच्छाये विमलच्छाया प्रतिच्छायेव दृश्यते ।
यत्र चैत्यकवृक्षाणां तत्र विद्यान्महद्भयम् ॥ २.६९.१० ॥

在无影之处出现清晰的影子,如同倒影,又在圣树(caitya)之处如此,应知有大恐怖。

2.69.11

शीर्णपर्णप्रवालाश्च शुष्कपर्णाश्च चैत्यकाः ।
अपभ्रष्टप्रवालाश्च तत्राभावं विनिर्दिशेत् ॥ २.६९.११ ॥

若圣树(caitya)枝叶与嫩芽凋萎,叶子干枯,嫩芽脱落,则应指示此处将会衰亡、无所有。

2.69.12

स्निग्धपर्णप्रवालाश्च दृश्यन्ते यत्र चैत्यकाः ।
ईहमानाश्च वृक्षाश्च भावस्तत्र न संशयटः ॥ २.६९.१२ ॥

若见圣树(caitya)枝叶与嫩芽光润,树木茂盛生长之处,便有兴盛,此中无疑。

2.69.13

पुष्पे पुष्पं प्रजायेत फले वा फलमाश्रितम् ।
राजा वा राजमात्रो वा मरणायोपपद्यते ॥ २.६९.१३ ॥

若花中生花,或果上结果,则国王或王室大臣将走向死亡。

2.69.14

प्रावृट्छरदि हेमन्ते वसन्ते वापि सर्वशः ।
आकालिकं पुष्पफलं राष्ट्रक्षोभं विनिर्दिशेत् ॥ २.६९.१४ ॥

无论雨季、秋季、冬季还是春季,若花果不合时令而生,应知国中将有动荡。

2.69.15

नदीनां स्त्रोतसोऽकाले द्योतयन्ति महाभयम् ।
वनस्पतिः पूज्यमानः पूजितोऽपूजितोऽपि वा ॥ २.६९.१५ ॥

河流的水流若不合时令,便显示大恐惧;树木无论是否受到供奉,亦是如此。

2.69.16

यदा भज्येत वातेन भिद्यते नमितोऽपि वा ।
अग्निवायुभयं विद्याच्छ्रेष्ठो वापि विनश्यति ॥ २.६९.१६ ॥

若树木被风折断或劈裂,或虽已弯曲仍断裂,应知这是火与风之惧;即便是最好的人也会灭亡。

2.69.17

दिशः सर्वाश्च दीप्यन्ते जायन्ते राजविभ्रमाः ।
भिद्यमानो यदा वृक्षो निनदेच्चापि पातितः।
सह राष्ट्रं च पतितं नतं वृक्षं प्रपातयेत् ॥ २.६९.१७ ॥

四方皆放光,诸王生惑乱;树木裂而倒下时发出鸣声,便与国土一同倾覆;弯曲之树应使之倒下。

2.69.18

अथैनं छेदयेत्कश्चित्प्रतिक्रुद्धो वनस्पतिः ।
छेत्ता भेत्ता पतिश्चैव क्षिप्रमेव नशिष्यति ॥ २.६९.१८ ॥

若有一位愤怒的树神将其砍伐,则砍者、劈者与主人都将很快灭亡。

2.69.19

देवतानां च पतनं मष्टपानां च पातनम् ।
अचलानां प्रकम्पश्च तत्पराभवलक्षणम् ॥ २.६९.१९ ॥

诸神坠落、圣树(或神龛)被砍倒、群山震颤——这些都是战败的征兆。

2.69.20

निशि चेन्द्रधनुर्दृष्टं ततोपि च महद्भयम् ।
तद्द्रष्टरेव भीतिः स्यान्नान्येषां भरतर्षभ ॥ २.६९.२० ॥

若夜间见到彩虹,这也是大恐惧的征兆;惧怕只会落在看见它的人身上,不会落在别人身上,婆罗多中的雄牛啊。

2.69.21

रात्राविन्द्रधनुर्दृष्ट्वा तद्राष्ट्रं परिवर्जयेत् ॥ २.६९.२१ ॥

夜间见到彩虹,应当避开那个国家。

2.69.22

अर्चा यत्र प्रनृत्यन्त नदन्ति च हसन्ति च ।
उन्मीलन्ति निमीलन्ति राष्ट्रक्षोभं विनिर्दिशेत् ॥ २.६९.२२ ॥

若神像起舞、咆哮、欢笑,并睁眼闭眼,应当宣告国家将有动荡。

2.69.23

शिला यदि प्रसिञ्चन्ति स्नेहांश्चोदकसम्भवान् ।
अन्यद्वा विकृतं किञ्चित्तद्भयस्य निदर्शनम् ॥ २.६९.२३ ॥

若石头渗出由水而生的湿气,或发生其他反常之事,这便是恐惧的征兆。

2.69.24

म्रियन्ते वा महामात्रा राजा सपरिवारकः ।
पुरस्य या भवेद्व्याधी राष्ट्रे देशे च विभ्रमाः ॥ २.६९.२४ ॥

大臣死去,或国王与随从一同死去,城中发生疫病,国家与疆土陷入混乱。

2.69.25

देवतानां यदाऽऽवासे राज्ञां वा यत्र वेश्मनि ।
भाण्डागारायुधागारे निविशेत यदा मधु ॥ २.६९.२५ ॥

若蜜蜂在神庙、王宫、库房或兵库中筑巢,便是凶兆。

2.69.26

सर्वं तदा भवेत्स्थानं हन्यमानं बलीयसा ।
आगन्तुकं भयं तत्र भवेदित्येव निर्दिशेत् ॥ २.६९.२६ ॥

届时此地将被强者所击;外来之恐惧将降临于此,应当如此宣告。

2.69.27

पादपश्चैव यो यत्र रक्तं स्रवति शोणितम् ।
दन्ताग्रात्कुञ्जरो वापि शृङ्गाद्वा वृषभस्तथा ॥ २.६९.२७ ॥

若树木流血,或象牙尖端流血,或牛角流血。

2.69.28

पादपाद्राष्ट्रिविभ्रंशः कुञ्जराद्राजविभ्रमः ।
गोब्राह्मणविनाशः स्याद्वृवभस्येति निर्दिशेत् ॥ २.६९.२८ ॥

树流血则国家衰亡,象流血则国王昏乱,牛流血则牛与婆罗门遭受毁灭,应当如此宣告。

2.69.29

छत्रं नरपतेर्यत्र निपतेत्पृथिवीतले ।
सराष्ट्रो नृपती राजन्क्षिप्रमेव विनश्यति ॥ २.६९.२९ ॥

王之伞盖若坠落于地,大王,那位君王连同其国家将迅速灭亡。

2.69.30

देवागारेषु वा यत्र राज्ञो वा यत्र वेश्मनि ।
विकृतं यदि दृश्येत नागावासेषु वा पुनः ॥ २.६९.३० ॥

若在神庙、王宫,或龙蛇之居处,见到有畸变之物。

2.69.31

तस्य देशस्य पीडा स्याद्राज्ञो जनपदस्य वा ।
अनावृष्टिभयं घोरमतिदुर्भिक्षमादिशेत् ॥ २.६९.३१ ॥

那国土、国王或领地将遭受苦难;应预言可怕的旱灾恐惧和极度饥荒。

2.69.32

अर्चाया बाहुभङ्गेन गृहस्थानां भयं भवेत् ।
भग्ने प्रहरणे विद्यात्सेनापतिविनाशनम् ॥ २.६९.३२ ॥

若神像之臂折断,家主们将有恐惧;若兵器折断,应知这预示大将的毁灭。

2.69.33

आगन्तुका तु प्रतिमा स्थानं यत्र न विन्दति ।
जभ्यन्तरेण षण्मासाद्राजा त्यजति तत्पुरम् ॥ २.६९.३३ ॥

若新来的神像在某处找不到安放之所,则国王会在六个月内离开那座城市。

2.69.34

प्रदीर्यते मही यत्र विनदत्यपि पात्यते ।
म्रियते तत्र राजा च तत्र राष्ट्रं विनश्यति ॥ २.६९.३४ ॥

大地在何处裂开、轰鸣、甚至崩塌,那里国王便死去,那里国家便毁灭。

2.69.35

एणीपदान्वा सर्पान्वा डुण्डुभानथ दीप्यकान् ।
मण्डूको ग्रसते यत्र तत्र राजा विनश्यति ॥ २.६९.३५ ॥

若青蛙吞食鹿足虫、蛇、扰扰虫或发光者之处,那里国王便灭亡。

2.69.36

अभिन्नं वाप्यपक्वं वा यत्रान्नमुपचीयते ।
जीर्यन्ते वा म्रियन्ते वा तदन्नं नोपभुञ्जते ॥ २.६९.३६ ॥

若食物未经舂捣或未煮熟便堆积,食之者衰弱或死亡,人们便不食用那食物。

2.69.37

उदपाने च यत्रापो विवर्धन्ते युधिष्ठिर ।
स्थावरेषु प्रवर्तन्ते निर्गच्छेन्न पुनस्ततः ॥ २.६९.३७ ॥

युधिष्ठिर啊,井中水涨、固定之物中生长涌现之处,繁荣便不会再从那里离去。

2.69.38

अपादं वा त्रिपादं वा द्विशीर्षं वा चतुर्भुजम् ।
स्त्रियो यत्र प्रसूयन्ते ब्रूयात्तत्र पराभवम् ॥ २.६९.३८ ॥

女子生下无足、三足、双头或四臂之物的地方,应当说那里将有衰败。

2.69.39

अजैडकाः स्त्रियो गावो ये चान्ये च वियोनयः ।
विकृतानि प्रजायन्ते तत्र तत्र पराभवः ॥ २.६९.३९ ॥

山羊、绵羊、女子、母牛以及其他异常子宫所生的生物产下畸形后代之处,处处都有衰败。

2.69.40

नदी यत्र प्रतिस्रोता आवहेत्कलुषोदकम् ।
दिशश्च न प्रकाशन्ते तत्पराभवलक्षणम् ॥ २.६९.४० ॥

河流逆流而行、挟带浑浊之水,而四方不再明亮,这便是衰败的征兆。

2.69.41

एतानि च निमित्तानि यानि चान्यानि भारत ।
केशवादेव जायन्ते भौमानि च खगानि च ॥ २.६९.४१ ॥

婆罗多啊,这些及其他征兆皆出自克舍婆本身,地上的生灵与天空的飞禽也是如此。

2.69.42

चन्द्रादित्यौ ग्रहाश्चैव नक्षत्राणि च भारत ।
वायुरग्निस्तथा चापः पृथिवी च जनार्दनात् ॥ २.६९.४२ ॥

婆罗多啊,月亮与太阳、行星与星宿,以及风、火、水与大地,都出自阇那达那。

2.69.43

यस्य देशस्य हानिं वा वृद्धिं वा कर्तुमिच्छति ।
तस्मिन्देशे निमित्तानि तानि तानि करोत्ययम् ॥ २.६९.४३ ॥

他欲使某国衰败或兴盛,便在那国显现这样那样的征兆。

2.69.44

सोसौ चेदिपतेस्तात विनाशं समुपस्थितम् ।
निवेदयति गोविन्दः स्वैरुपायैर्न संशयः ॥ २.६९.४४ ॥

孩子啊,哥文达以自己的方法预告了迫近的恐怖毁灭——即将降临于迭地之王,此事无疑。

2.69.45

इयं प्रचलिता भूमिरशिवा वान्ति मारुताः ।
राहुश्चाप्यपतत्सोममपर्वणि विशाम्पते ॥ २.६९.४५ ॥

大地在震动,不祥的风在吹,罗睺在非其时之日吞没了月亮,人主啊。

2.69.46

सनिर्घाताः पतन्त्युल्कास्तमः सञ्जायते भृशम् ।
चेदिराजविनाशाय हरिरेष विजृम्भते ॥ २.६९.४६ ॥

伴着雷鸣,流星坠落,浓重的黑暗愈发笼罩;此哈里正为毁灭迭地之王而奋起。

2.69.47

एवमुक्त्वा तु देवर्षिर्नारदो विरराम ह ।
ताभ्यां पुरुषसिंहाभ्यां तस्मिन्युद्ध उपस्थिते। ॥ २.६९.४७ ॥

说罢,天仙那罗陀便沉默了,因为那两位人中狮子之间的战斗已然临近。

2.69.48

ददृशुर्भूमिपालास्ते घोरानौत्पातिकान्बहून् ।
तत्र वै दृश्यमानानां दिक्षु सर्वासु भारत। ॥ २.६९.४८ ॥

诸王在那里看见各方显现的许多可怖异象,婆罗多啊。

2.69.49

अश्रूयन्त तदा राजञ्छिवानामशिवा रवाः ।
ररास च मही कृत्स्ना सवृक्षवनपर्वता। ॥ २.६९.४९ ॥

大王啊,那时吉祥之物发出了不祥的叫声,整个大地连同树木、森林和山岳都震动呻吟。

2.69.50

अपर्वणि च मध्याह्ने मूर्यं स्वर्भानुरग्रसत् ।
ध्वजाग्रे चेदिराजस्य सर्वरत्नपरिष्कृते। ॥ २.६९.५० ॥

在非其时的正午,斯瓦尔跋努吞食了太阳,就在遍饰众宝的遮提国王的旗帜顶端。

2.69.51

अपतत्खाच्च्युतो गृध्रस्तीक्ष्णतुण्डः परन्तप ।
आरण्यैः सहसा हृष्टा ग्राम्याश्च मृगपक्षिणः। ॥ २.६९.५१ ॥

大敌的克星啊,一只尖喙的秃鹫从天空坠落;野兽与家畜、飞禽忽然欢喜起来。

2.69.52

चुक्रुशुर्भैरवं तत्र तस्मिन्युद्ध उपस्थिते ।
एवमादिनि घोराणि भौमानि च स्वगानि च। ॥ २.६९.५२ ॥

那场战事临近之时,那里发出可怖的呼喊;如此可怖的地上与天上的异象也相继出现。

2.69.53

औत्पातिकान्यदृश्यन्त सङ्क्रुद्धे शार्ङ्गधन्वनि ॥ २.६९.५३ ॥

当持沙尔迦弓者(黑天)震怒时,不祥的征兆便显现出来。