摩诃婆罗多 · 章 2.72
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.72.1
ततः स कुरुराजस्य सर्वकर्मसमृद्धिमान् ।
यज्ञः प्रीतिकरो राजन्संबभौ विपुलोत्सवः ॥ २.७२.१ ॥
于是,这场库鲁王的祭祀,在一切仪式中圆满兴盛,大王啊,令人欢喜,伴随盛大的庆典而光辉灿烂。
2.72.2
शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान् ।
अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः ॥ २.७२.२ ॥
障碍已平息,吉祥开始,财富与谷物丰盛,食物充足,美味众多,并受到了克舍婆(克里希那)的妥善守护。
2.72.3
समापयामास च तं राजसूयं महाक्रतुम् ।
कोटिसहस्रं प्रददौ ब्राह्मणानां महात्मनाम् ॥ २.७२.३ ॥
他圆满完成了那场大王祭(王权灌顶祭),并向高尚的婆罗门布施了千万之多的财物。
2.72.4
न करिष्यति तं लोके कश्चिदन्यो महीपतिः ।
याजकाः सर्वकामैश्च सततं ततृपुर्धनैः ॥ २.७२.४ ॥
世上再无其他国王会举行这样的祭祀;祭司们以一切所求与财富而持续得到满足。
2.72.5
ततश्चावभृथस्नातः स राजा पाण्डुनन्दनः ।
व्यासं धौम्यं वसिष्ठं च नारदं च महामुनिम् ॥ २.७२.५ ॥
随后,那位沐浴了阿婆茹陀(终结净身)的般度之子国王,尊敬了毗耶娑、达乌米耶、婆私吒、那罗陀以及大仙。
2.72.6
सुमन्तु जैमिनिं पैलं वैशम्पायनमेव च ।
याज्ञवल्क्यं च कपिलं कपालं कौशिकं तथा।
सर्वांश्च ऋत्विक्प्रवरान्पूजयामास सत्कृतान् ॥ २.७२.६ ॥
他以应有的敬意礼敬了须曼图、遮弥尼、柏罗、毗舍衍那、耶若婆伽耶、迦毗罗、迦波罗、憍尸迦,以及所有杰出的祭官。
2.72.7
युष्मत्प्रसादात्प्राप्तोऽयं राजसूयो महाक्रतुः ।
जनार्दनप्रसादाद्धि सम्पूर्णो मे मनोरथः ॥ २.७२.७ ॥
承蒙你们的恩典,这场伟大的王者祭(Rājasūya)得以完成;承蒙Janārdana的恩典,我的心愿终于圆满。
2.72.8
अथ यज्ञं समाप्यान्ते पूजयामास माधवम् ।
बलदेव च देवेशं भीष्माद्यांश्च कुरूद्वहान् ॥ २.७२.८ ॥
祭祀完毕后,他礼敬了摩陀婆(Mādhava)、天神之主Balarāma,以及毗湿摩等俱卢族的俊杰。
2.72.9
ततस्त्ववभृथस्नातं धर्मात्मानं युधिष्ठिरम् ।
समस्तं पार्थिवं क्षत्रमुपगम्येदमब्रवीत् ॥ २.७२.९ ॥
此时,沐浴过阿伐布利塔仪式的正法之心的坚战,周围所有刹帝利诸王走近他,说了这番话。
2.72.10
दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवानसि ।
आजमीढाजमीढानां यशः संवर्धितं त्वया ॥ २.७२.१० ॥
幸运的是,知法者啊,你正在兴盛,已经获得了帝国的统治权。阿遮弥陀(Ajamīḍha)的后裔啊,你已经增益了阿遮弥陀家族的荣耀。
2.72.11
कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः ।
आपृच्छामो नरव्याघ्र सर्वकामैः सूपूजिताः ॥ २.७२.११ ॥
王中之王啊,凭借此举,大法已经圆满。人中猛虎啊,我们已蒙你以一切所愿厚加礼敬,现在恳请辞行。
2.72.12
स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि ।
श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः ॥ २.७२.१२ ॥
我们将返回各自的王国,请你允准我们离去。坚战法王听了诸王的这番话后……
2.72.13
यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह ।
राजानः सर्व एवैते प्रीत्याऽस्मान्प्तमुपागताः ॥ २.७२.१३ ॥
他按礼数尊敬了诸王和众兄弟,说道:“这些国王都是出于敬爱来到我们这里的。”
2.72.14
प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छय परन्तपाः ।
अनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् ॥ २.७२.१४ ॥
“令敌人苦恼的诸王啊!请向我告辞,各自返回自己的国土吧,愿你们平安。诸位最尊贵的君王,我们将送你们到边境。”
2.72.15
भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः ।
यथार्हं नृपतीन्सर्वानेकैकं समनुव्रजन् ॥ २.७२.१५ ॥
法行者般遮武士们明白了兄长的话,便按礼数各自陪同每一位国王。
2.72.16
विरायटमन्वायात्तूर्णं धृष्टह्युम्नः प्रतापवान् ।
धनञ्जयो यज्ञसेनं महात्मानं महारथम् ॥ २.७२.१६ ॥
威猛的德里斯塔笃姆那迅速跟随毗罗吒,达难闍耶(阿周那)则跟随高尚的大车将耶祈舍那(德鲁帕达)。
2.72.17
भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः ।
द्रोणं तु ससुतं वीरं सहदेवो युधां पतिः ॥ २.७२.१७ ॥
大力的怖军跟随毗湿摩和持国,而诸战士之主偕天则跟随英雄德罗纳及其子。
2.72.18
नकुलः सुबलं राजन्सहपुत्रं समन्वयात् ।
द्रौपदेयाः ससौभद्राः पार्वतीयान्महारथान् ॥ २.७२.१८ ॥
大王啊,那古罗偕其子跟随苏跋罗;德罗波蒂之子与苏跋陀罗之子一同跟随山国的大车将。
2.72.19
अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः ।
एवं सुपूजिताः सर्वे जग्मुर्विप्राः सहस्रशः ॥ २.७२.१९ ॥
诸刹帝利中的雄牛般的君王也同样跟随其他刹帝利。如此受到尊敬之后,所有婆罗门成千上万地离去了。
2.72.20
गतेषु पार्थिवेन्द्रेषु सर्वेषु ब्राह्मणेषु च ।
युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान् ॥ २.७२.२० ॥
当诸位地上之主和所有婆罗门都离去后,威力强大的婆薮提婆对坚战说了这番话。
2.72.21
आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन ।
राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि ॥ २.७२.२१ ॥
俱卢之喜,我向你告辞,将前往德瓦拉卡。幸运的是,你已完成了最殊胜的祭礼拉杰苏耶。
2.72.22
तमुवाचैवमुक्तस्तु धर्मराजो जनार्दनम् ।
तव प्रसादाद्गोविन्द प्राप्तः क्रतुवरो मया ॥ २.७२.२२ ॥
法王听他这样说,便对阇那陀那说:俱频陀,承蒙你的恩典,我才获得了这最殊胜的祭礼。
2.72.23
क्षत्रं समग्रमपि च त्वत्प्रसादाद्वशे स्थितम् ।
उपादाय बलिं मुख्यं मामेव समुपस्थितम् ॥ २.७२.२३ ॥
承蒙你的恩典,整个刹帝利阶层都在我的掌控之下;他们献上了主要的贡品,都来到我的面前。
2.72.24
कथं त्वद्गमनार्थं मे वाणी वितरतेऽनघ ॥ २.७२.२४ ॥
无瑕者啊,我的话语怎能同意你的离去?
2.72.25
न ह्यहं त्वामृते वीरं रतिं प्राप्नोमि कर्हचित् ।
अवश्यं चैव गन्तव्या भवता द्वारका पुरी ॥ २.७२.२५ ॥
英雄啊,没有你,我永远不得快乐;你必须前往杜瓦拉卡城。
2.72.26
एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान् ।
अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः ॥ २.७२.२६ ॥
如此被告知之后,具有正法之魂、以坚战为伴、名声远扬的哈利满心欢喜地走近普利塔,说道:
2.72.27
साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः ।
सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि ॥ २.७२.२७ ॥
姑姑啊,今天你的儿子们获得了王权;他们的志愿已经达成,且富有财富。愿你获得喜悦。
2.72.28
अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे ।
सुभद्रां द्रौपदीं चैव सभाजयत केशवः ॥ २.७२.२८ ॥
若蒙你允许,我愿前往杜瓦拉卡。keśava 向苏跋陀罗和德劳帕蒂致敬。
2.72.29
निष्क्रम्यान्तः पुरात्तस्माद्युधिष्ठिरसहायवान् ।
स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च ॥ २.७२.२९ ॥
他与坚战一同从内宫走出,沐浴并诵念之后,让婆罗门诵说吉祥祝词。
2.72.30
ततो मेघवपुः प्रग्व्यं स्यन्दनं च सुकल्पितम् ।
योजयित्वा महाबाहुर्दारुकः समुपस्थितः ॥ २.७२.३० ॥
于是,身如云朵、臂膀强壮的达如卡套好了那辆精良而装备齐整的战车,前来待命。
2.72.31
उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम् ।
प्रदक्षिणमुपावृत्य समारुह्य महामनाः ॥ २.७२.३१ ॥
见备好的战车,其旗帜为迦鲁ḍa(塔尔克希亚)的最佳标志,大心者右绕而行,登上了战车。
2.72.32
प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम् ॥ २.७२.३२ ॥
随后,莲眼者启程前往杜瓦拉卡城。
2.72.33
तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः ।
भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम् ॥ २.७२.३३ ॥
法王坚战与众兄弟一同步行,跟随那大力的婆苏提婆。
2.72.34
ततो मुहूर्तं सङ्गृह्य स्यन्दनप्रवरं हरिः ।
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥ २.७२.३४ ॥
随即,莲眼者哈里暂停这辆上乘战车,对贡蒂之子坚战说道。
2.72.35
अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशाम्पते ।
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ॥ २.७२.३५ ॥
常保警觉,护佑你的臣民,民之主啊,正如云雨护育众生,飞鸟庇护大树。
2.72.36
बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः ।
कृत्वा परस्परेणैव संवादं कृष्णपाण्डवौ ॥ २.७२.३६ ॥
如诸天倚赖千眼因陀罗,愿亲族也倚赖你;愿黑天与般度五子彼此继续交谈。
2.72.37
अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति ।
गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप ॥ २.७२.३७ ॥
彼此告别之后,他们各自回到自己的家中。啊,国王,待萨特瓦众中最杰出的克里希那已前往德瓦拉瓦蒂之后。
2.72.38
महादुर्योधनो राजा शकुनिश्चापि सौबलः ।
सूतपुत्रश्च गधेयः सह दुःशासनादिभिः ॥ २.७२.३८ ॥
大王难敌、苏跋罗之子沙恭尼、御者之子(迦尔纳)、以及乔达利之子与难降等人。
2.72.39
सर्वकामगुणोपेतैरर्च्यमानास्तु भारत ।
तस्यां सभायां दिव्यायामवसंस्तत्र पाण्डवैः ॥ २.७२.३९ ॥
啊,婆罗多,在那座具备一切可欲之德的天界大殿中,他们与般度诸子一同居住,受到尊敬。