Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.1.1

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः ।
धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ॥ ३.१.१ ॥

向那罗延、那罗、人中之最、女神萨罗室伐蒂和毗耶娑致敬之后,应当诵念胜利之歌。因赌博而失败的般度之子,被心怀恶念的持国之子及其大臣以欺诈激怒了,婆罗门中的最优者啊。

3.1.2

श्राविताः परुषा वाचः सृजन्तीर्वैरमुत्तमम् ।
किमकुर्वत कौरव्या मम पूर्वपितामहाः ॥ ३.१.२ ॥

当粗鲁的言语被人听闻、引发巨大的仇恨时,我的先祖们,俱卢族人,做了什么?

3.1.3

कथं चैश्वर्यभूयिष्ठाः सहसा दुःखमेयुषः ।
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ॥ ३.१.३ ॥

那些富有权势、光彩堪比因陀罗的般度之子,怎样突然陷入苦难,在森林中流浪?

3.1.4

के चैतानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम् ।
किमाचाराः किमाहाराः क्वच वासो महात्मनाम् ॥ ३.१.४ ॥

谁跟随那些遭遇了如此巨大灾难的人?这些大德者的行为如何,饮食如何,居住在哪里?

3.1.5

कथं द्वादश वर्षाणि वने तेषां महात्मनाम् ।
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामनिवर्तिनाम् ॥ ३.१.५ ॥

那些从不退缩的大德英雄,在森林中度过十二年是怎样的?婆罗门中的最优者啊。

3.1.6

कथं च राजपुत्री सा प्रवरा सर्वयोषिताम् ।
पतिव्रता महाभागा सततं प्रियवादिनी ॥ ३.१.६ ॥

那位在所有女子中最为卓越、忠于丈夫、极具福德、常以悦耳之言相待的公主,又是怎样的呢?

3.1.7

वनवासमदुःखार्हा दारुणं प्रत्यपद्यत ।
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन ॥ ३.१.७ ॥

她本不应承受苦难,却遭遇了森林中的可怕流放。苦行之宝啊,请将这一切详细告诉我。

3.1.8

श्रोतुमिच्छामि तत्सर्वं भूरिद्रविणतेजसाम् ।
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे ॥ ३.१.८ ॥

我想听闻那些拥有巨大财富与光辉之人的全部故事。婆罗门啊,我对您所讲述的一切的好奇心确实很大。

3.1.9

एवं द्यूतजिताः पार्थाः कोयिताश्च दुरात्मभिः ।
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ॥ ३.१.९ ॥

就这样,在赌局中失败的般度之子,被心怀恶意的持国之子与其大臣所折磨,从象城离开了。

3.1.10

वर्धमानपुरद्वारादभिनिष्क्रम्य ते तदा ।
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया ॥ ३.१.१० ॥

他们从伐达摩那城门走出,随即面朝北方,手持兵器,与黑公主一同前行。

3.1.11

इन्द्रसेनादयश्चैतान्भृत्याः परिचतुर्दश ।
रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः ॥ ३.१.११ ॥

因陀罗塞那等十四名侍从乘快车跟随在后,带着所有的女眷。

3.1.12

ततस्ते पुरुषव्याघ्रा रथानास्थाय भारत ।
ददृशुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥ ३.१.१२ ॥

于是那些人中之虎登上战车,婆罗多啊,在恒河岸边看见了名为“伐摩那”的大榕树。

3.1.13

व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः ।
गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान्।
ऊचुर्वै समयं कृत्वा समागम्य परस्परम् ॥ ३.१.१३ ॥

百姓见他们离去,满怀悲痛,屡屡指责毗湿摩、维都罗、德罗纳和乔达摩;彼此相聚并达成共识后,他们说道。

3.1.14

नेदमस्ति कुलं सर्वं न वयं नच नो गृहाः ।
यत्रदुर्योधनः पापः सौबलेयेन पालितः।
कर्णदुःशासनाद्यैश्च राज्यमेतच्चिकीर्षति ॥ ३.१.१४ ॥

这整个家族已不复存在,我们也不复存在,我们的家园也不复存在——在这里,恶人难敌在苏跋罗之子(沙恭尼)的辅佐下,与迦尔纳、难敌之弟等人一道,欲夺取这个王国。

3.1.15

न तत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम् ।
यत्र पापसहायोऽयं पापो राज्यं चिकीर्षति ॥ ३.१.१५ ॥

那个家族不复存在,品行、法和利也不复存在;在这恶人与恶友想要夺取王国的地方,幸福从何而来?

3.1.16

दुर्योधनो गुरुद्वेषी त्यक्तधर्मः प्रियानृतः ।
अर्तलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ॥ ३.१.१६ ॥

难敌憎恨长辈,弃绝法度,以虚妄为悦,贪求财物,傲慢卑劣,天性冷酷无情。

3.1.17

नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः ।
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ॥ ३.१.१७ ॥

这整个大地之上,并没有难敌为王之处;让我们都好好地去往般度之子们所去的地方吧。

3.1.18

सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः ।
हीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः ॥ ३.१.१८ ॥

慈悲为怀、大德之人,已战胜感官之敌,知羞耻,有名望,专心奉行法的品行。

3.1.19

एवमुक्त्वाऽनुजग्मुस्ते पाण्डवांस्तान्समेत्य च ।
ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् ॥ ३.१.१९ ॥

如此说罢,他们跟随般度五子而行;与之相遇后,众人合掌向那位阿提利之子、昆提之子说道。

3.1.20

क्वगमिष्यथ भद्रंवस्त्यक्त्वाऽस्मान्दुःखभागिनः ।
वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ ॥ ३.१.२० ॥

你们将往何处去?愿你们平安!你们舍弃我们这些分担苦难的人;你们走到哪里,我们也将随你们前往。

3.1.21

अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः ।
उद्विग्नाः स्मो भृशं सर्वे नास्मान्हातुमिहार्हथ ॥ ३.१.२१ ॥

听闻你们被无情的敌人以不义击败,我们众人都深感不安;你们不应在此舍弃我们。

3.1.22

भक्तानुरक्तान्सुहृदः सदा प्रियहिते रतान् ।
कुराजाघिष्ठिते राज्ये न विनश्येम सर्वशः ॥ ३.१.२२ ॥

我们是忠诚、亲近、时常乐于增进你们的喜悦与利益的友人,不应在恶王统治的国土中全然毁灭。

3.1.23

श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः ।
शुभाशुभाधिवासेन संसर्गः कुरुते यथा ॥ ३.१.२३ ॥

请听,人中之牛啊;我们将说明德与过,正如交往因与善恶之所居而产生影响。

3.1.24

वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा ।
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥ ३.१.२४ ॥

犹如布帛、水、芝麻与大地因花的停留而染上香气,由交往所生的品德也是如此。

3.1.25

मोहजालस्य योनिर्हि मूढैरेव समागमः ।
अहन्यहनि धर्मस्य योनिः साधुसमागमः ॥ ३.१.२५ ॥

迷惑之网的根源,实在只是与愚人的交往;法的根源,则是日复一日与善人的相会。

3.1.26

तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः ।
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः ॥ ३.१.२६ ॥

因此,专心于寂静的人应当与有智者、年长者、性情良善的苦行者以及善人相交往。

3.1.27

येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च ।
ते सेव्यास्तैः समास्याहि शास्त्रेभ्योपि गरीयसी ॥ ३.१.२७ ॥

凡具备学问、出身、行为三种清净者,才值得侍奉;与他们相处,其重要甚至超过经典。

3.1.28

निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु ।
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् ॥ ३.१.२८ ॥

即便我们不行任何事业,在有德的善人之中,我们在此只能获得功德;而侍奉恶人,则只会得到罪过。

3.1.29

असतां दर्शनात्स्पर्शात्संजल्पाच्च सहासवात् ।
धर्माचाराः प्रहीयन्ते सिद्ध्यन्ति च न मानवाः ॥ ३.१.२९ ॥

因为见到恶人、接触他们、与他们交谈、与他们共饮,人们的法行便会衰退,也不能成就。

3.1.30

बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् ।
मध्यमैर्मध्यतां याति श्रेष्ठैः श्रेष्ठत्वमाप्नुयुः ॥ ३.१.३० ॥

与卑劣之人相交,人的智慧便会衰减;与中等之人相交,便成中等;与优秀之人相交,便获得卓越。

3.1.31

अनीचैर्नाप्यविषयैर्नाधर्मिष्ठैर्विशेषतः ।
ये गुणाः कीर्तिता लोके धर्मकामार्थसंभवाः।
लोकाचारेषु संभूता वेदोक्ताः शिष्टसंमताः ॥ ३.१.३१ ॥

世间所称颂的德行——那些由法、欲、利而生,产生于世俗习惯,载于吠陀并为贤者所认可的——源于不与卑劣之人、放纵之人,尤其不与极不义之人交往。

3.1.32

ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः ।
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोभिकाङ्क्षिणः ॥ ३.१.३२ ॥

你们身上所具有的那些善德,无论是完整的还是各自的,我们这些渴求福祉的人愿意住在有德之人中间。

3.1.33

धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः ।
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः ॥ ३.१.३३ ॥

我们因亲情与慈悲而相系,实为有福;以婆罗门为首的民众,即使对不善之人也称其有德。

3.1.34

तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः ।
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया ॥ ३.१.३४ ॥

因此我与兄弟们一同告知你们所有人:出于我们亲情的慈悲,此事必须如此去做,不可另行。

3.1.35

भीष्मः पितामहो राजा विदुरो जननी च मे ।
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये ॥ ३.१.३५ ॥

祖父毗湿摩、国王、维杜罗、我的母亲,以及那座名为那伽萨呼亚城中我的大多数亲友。

3.1.36

ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः ।
युष्माभिः सहिताः सर्वे शोकसंतापविह्वलाः ॥ ३.१.३६ ॥

他们一心希望我们安好,你们大家应当尽力保护他们;他们都被忧愁与痛苦所困扰。

3.1.37

निवर्ततागता दूरं ममागमनकाङ्क्षिणः ।
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ॥ ३.१.३७ ॥

你们远道而来,盼望我的到来;现在请回去吧。对于作为寄托交付于我的亲族,我的心意应当充满慈爱。

3.1.38

एतद्धि मम कार्याणां परमं हृदि संस्थितम् ।
कृता तेन तु तुष्टिर्मे सत्कारश्च भविष्यति ॥ ३.१.३८ ॥

在我的职责中,这是最高的,已牢固地确立于我心。由此我将得到满足,也将有尊敬。

3.1.39

तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः ।
चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः ॥ ३.१.३९ ॥

法王如此与他们告别,那些百姓悲伤不已,发出可怕的哀号:「哎呀,大王!」

3.1.40

गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः ।
अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् ॥ ३.१.४० ॥

追念普塔之子的德行,他们悲痛万分、极为苦恼,虽不情愿,仍与般度五子相会后折返。

3.1.41

निवृत्तेषु तुं पौरेषु रथानास्थाय पाण्डवाः ।
आजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥ ३.१.४१ ॥

城中百姓返回之后,般度五子登上战车,来到恒河岸边名为「普拉马纳」的大榕树下。

3.1.42

ते तं दिषसशेषेण वटं गत्वा तु पाण्डवाः ।
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि ॥ ३.१.४२ ॥

般度五子在白日的余暇中来到那棵榕树下,触摸了清净的河水,当夜便留宿于此。

3.1.43

उदकेनैव तां रात्रिमृषुस्ते दुःखकर्शिताः ।
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः ॥ ३.१.४३ ॥

他们因悲伤而憔悴,那一夜只靠清水度过;在那里,出于深情,一些再生族(婆罗门)跟随了他们。

3.1.44

साग्रयोऽनग्नयश्चैव सशिष्यगणबान्धवाः ।
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः ॥ ३.१.४४ ॥

那里也有长老和持火的婆罗门,连同他们的弟子、随从与亲属;国王被那些通晓梵学的人围绕,光彩焕发。

3.1.45

तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे ।
ब्रह्मघोषपुरस्कारः संजल्पः समजायत ॥ ३.१.४५ ॥

在那既美妙又可怖的时刻,点燃圣火的婆罗门们中间,以圣诵之声为先,议论之声随之而起。

3.1.46

राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः ।
आश्वासयन्तो विप्राग्र्याः क्षयां सर्वां व्यनोदयत् ॥ ३.१.४६ ॥

那些声音如天鹅般婉转的婆罗门长老,安慰着库鲁族中最优秀的国王,就这样度过了整夜。

3.1.47

राजा तु भ्रातृभिः सार्धं तथा सर्वैः सुहृद्गणैः ।
अशेत तां निशांराजन्दुःखशोकसमाहितः ॥ ३.१.४७ ॥

国王与兄弟们以及所有友人一同,沉浸在悲伤与忧愁之中,在那夜躺下睡去,啊,国王。