Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.113

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.113.1

इहागतो जटिलो ब्रह्मचारी ।
न वै ह्रस्वो नातिदीर्घो मनस्वी।
सुवर्णवर्णः कमलायताक्षः ।
सुतः सुराणामवि शोभमानः ॥ ३.११३.१ ॥

此处来了一位蓬发的梵行者,不矮也不甚高,心志高尚,金色肤色,莲花般宽广的眼睛,犹如诸天之子般光辉。

3.113.2

समृद्धरूपः सवितेव दीप्तः ।
सुश्लक्ष्णवाक्कृष्णतारश्चकोरात्।
नीलाः प्रसन्नाश्च जटाः सुगन्धा ।
हिरण्यरज्जुग्रथिताः सुदीर्घाः ॥ ३.११३.२ ॥

容貌丰美,光辉如日;言语柔和,瞳仁黑亮如鹧鸪;其蓝黑、清澈、芬芳的发辫以金绳束结,甚为修长。

3.113.3

आधारभूतः पुनरस्य कण्ठे ।
विभ्राजते विद्युदिवान्तरिक्षे।
द्वौ चास् पिण्डावधरेण कण्ठा-
दजातरोमौ सुमनोहरौ च ॥ ३.११३.३ ॥

其喉下又有一处如支柱般的部分,犹如天空中的闪电般闪耀;喉下又有两个隆起,无毛而极为可爱。

3.113.4

विलग्नमध्यश्च स नाभिदेशे ।
कटिश्च तस्यातिकृतप्रमाणा।
तथाऽस् चीरान्तरतः प्रभाति ।
हिरण्मयी मेखला मे यथेयम् ॥ ३.११३.४ ॥

其腰身纤细,紧贴于脐部;其臀胯也比例极其匀称。同样,在他的衣下闪耀着金色的腰带,就像我这条一样。

3.113.5

अन्यच्च तस्याद्भुतदर्शनीयं ।
विकूजितं पादयोः संप्रभाति।
पाण्योश्च तद्वत्स्वनवन्निबद्धौ ।
कलापकावक्षमाला यथेयम् ॥ ३.११३.५ ॥

此外,他的双足间闪耀着奇妙而悦目的铃响;同样,他的双手上系着两簇会作声的饰物,就像这串念珠一样。

3.113.6

विचेष्टमानस्य च तस्य तानि ।
कूजन्ति हंसाः सरसीव मत्ताः।
चीराणि तस्याद्भुतदर्शनानि ।
नेमानि तद्वन्मम रूपवन्ति ॥ ३.११३.६ ॥

他走动时,那些衣服如湖中醉舞的天鹅般鸣叫;他的衣服外观奇妙,我的衣服却不如此美丽。

3.113.7

वक्रं च तस्याद्भुतदर्सनीयं ।
प्रव्याहृतं ह्लादयतीव चेतः।
पिंस्कोकिलस्येव च तस्य वाणि ।
तां शृण्वतो मे व्यथितोऽन्तरात्मा ॥ ३.११३.७ ॥

他的面容奇妙而令人愉悦;他的言语使心神欢喜,犹如雄杜鹃的啼鸣。听着他的声音,我的内心却感到痛苦。

3.113.8

यथा वनं माधवमासिमध्ये ।
समीरीतं श्वसनेनेव भाति।
तथा स भात्युत्तमपुण्यगन्धी ।
निषेव्यमाणः पवनेन तात ॥ ३.११३.८ ॥

正如春月(摩陀婆月)里的树林被风拂动后,中央光彩照人,他也如此闪耀,散发着最上圣洁的香气;亲爱的孩子,被风所拂,他光彩夺目。

3.113.9

सुसंवताश्चापि जटा विभक्ता ।
द्वैधीकृता भातिललाटदेशे।
कर्णौ च चित्रैरिव चक्रवाकैः ।
समावृतौ तस्य सुरूपवद्भिः ॥ ३.११३.९ ॥

他的发髻梳理得整齐,在额头处分成两缕而闪耀;他的耳朵被美丽形状的饰物覆盖,犹如鲜艳的赤鸭。

3.113.10

तथा फलं वृत्तमथो विचित्रं ।
समाहतं पाणिना दक्षिणेन।
तद्भूमिमासाद्य पुनःपुनश्च ।
समुत्पतत्यद्भुतरूपमुच्चैः ॥ ३.११३.१० ॥

同样,那圆形而奇妙的果子被右手击打,落到地上,又一次次地以奇妙的形态高高跳起。

3.113.11

तच्चाभिहत्वा परिवर्ततेऽसौ ।
वातेरितो वृक्ष इवावघूर्णम्।
तं प्रेक्षतः पुत्रमिवामराणां ।
प्रीतिः परा तात रतिश्च जाता ॥ ३.११३.११ ॥

击中它后,他转身摇晃,如同被风吹动的树木旋转;我望着他,仿佛他是不死者之子,亲爱的孩子,我心中生出了无上的喜悦与欢愉。

3.113.12

स मे समाश्लिष्य पुनः शरीरं ।
जटासु गृह्याभ्यवनाम्य वक्रम्।
वक्रेण वक्रं प्रणिधाय शब्दं ।
चकार तन्मेऽजनयत्प्रहर्षम् ॥ ३.११३.१२ ॥

他再次紧抱我的身体,抓住我的发髻,低下头;面对面地贴近,发出一声响,这使我心中生出欢喜。

3.113.13

न चापि पाद्यं बहुमन्यतेऽसौ ।
फलानि चेमानि मया हृतानि।
एवंव्रतोस्मीति च मामवोच-
त्फलानि चान्यानि नवान्यदान्मे ॥ ३.११३.१३ ॥

他也不重视洗脚的水;这些果实是我取来的。他说:“我是持此戒的人。”然后对我说话,又给了我其他新鲜的果实。

3.113.14

मयोपयुक्तानि फलानि यानि ।
नेमानि तुल्यानि रसेन तेषाम्।
न चापि तेषां त्वगियं यथैषां ।
साराणि नैषामिव सन्ति तेषाम् ॥ ३.११३.१४ ॥

这些果实的滋味,与我所食用的那些并不相同。它们的外皮也不像这些,它们的精华也不像那些。

3.113.15

तोयानि चैवातिरसानि मह्यं ।
प्रादात्म वै पातुमुदाररूपः।
पीत्वैव यान्यभ्यधिकः प्रहर्षो ।
ममाभवद्भूश्चलितेव चासीत् ॥ ३.११३.१५ ॥

那位高贵形貌者还给我饮用极其甘美的水;饮后,我心中生出更大的喜悦,大地仿佛也震动了。

3.113.16

इमानि चित्राणि च गन्धवन्ति ।
माल्यानि तस्योद्ग्रथितानि पट्टैः।
यानि प्रकीर्येह गतः स्वमेव ।
स आश्रमं तपसा द्योतमानः ॥ ३.११३.१६ ॥

这些奇妙芬芳的花环,以布条串起,他在此撒下之后,便返回自己的修行林,因苦行而光彩照人。

3.113.17

गतेन तेनास्मिकृतो विचेता ।
गात्रं च मे संपरिदह्यतीव।
इच्छामि तस्यान्तिकमाशु गन्तुं ।
तं चेह नित्यं परिवर्तमानम् ॥ ३.११३.१७ ॥

因他离去,我心神慌乱,身体仿佛处处燃烧。我想快些到他那里去,那位常在此处往来之人。

3.113.18

गच्छामि तस्यान्तिकमेव तात ।
का नाम सा ब्रह्मचर्या च तस्य।
इच्छाम्यहं चरितुं तेन सार्धं ।
यथा तपः स चरत्यार्यधर्मा ॥ ३.११३.१८ ॥

父亲,我一定要到他那里去。他那梵行究竟是什么?我想与他一同修苦行,就像那位行雅利安正法的人一样修行。

3.113.19

चर्तुं तथेच्छा हृदये ममास्ति ।
दुनोति चित्तं यदि तं न पश्ये ॥ ३.११३.१९ ॥

我心中也有这样修苦行的愿望。若不见他,我的心便感到痛苦。