Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.151

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.151.1

एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान् ।
प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः ॥ ३.१५१.१ ॥

大臂而勇武的怖军如此被告知后,怀着喜悦之情,欢欣地向兄长行礼。

3.151.2

उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् ।
मत्तो धन्यतरो नास्ति यदार्यं दृष्टवानहम् ॥ ३.१५१.२ ॥

他以温和的声音对猴王之主哈努曼说:"没有人比我更幸运,因为我见到了尊贵者。"

3.151.3

अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् ।
एतत्तु कृतमिच्छामि त्वयाऽऽर्येण प्रियं मम ॥ ३.१५१.३ ॥

我蒙受了极大的恩惠,见到您使我心满意足。尊贵者啊,我希望您为我做这件令人欣慰的事。

3.151.4

यत्त्वेतदासीत्प्लवतः सागरं मकरालयम् ।
रूपमप्रतिमं वीर तदिच्छामि नीरीक्षितुम् ॥ ३.१५१.४ ॥

英雄啊,您跃过那海洋——海怪的居所——时所具有的那无与伦比的形象,我希望完整地看到。

3.151.5

एवं तुष्टो मभिष्यामि श्रद्धास्यामि च ते वचः ।
एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् ॥ ३.१५१.५ ॥

"如此我便满足了,也会信服您的话。"如此被告知后,光辉的哈利(哈努曼)微笑着说道。

3.151.6

न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित् ।
कालावस्था तदा ह्यन्या वर्तते सा न सांप्रतम्।
ततोऽद्य दुष्करं द्रष्टुं मम रूपं नरोत्तम ॥ ३.१५१.६ ॥

"人中之最,您不能看见我那时的形象,别人也不能。那时的时运状态不同,如今已不是那样。因此今天我的形象难以看见。"

3.151.7

अन्यः कृतयुगे कालश्रेतायां द्वापरे परः ।
अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे ॥ ३.१५१.७ ॥

在克利塔时代,时间是另一种;在特瑞塔和德瓦帕拉时代,又是另一种。此时毁灭性的时间,所以今日我没有那种形体。

3.151.8

भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः ।
कालं समनुवर्तन्ते यथा भावा युगेयुगे ॥ ३.१५१.८ ॥

大地、河流、树木、山岳、成就者、诸神与大仙,皆随时间而行,如同一切存在,一个又一个时代。

3.151.9

कालंकालं समासाद्य नराणां नरपुङ्गव ।
बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च ॥ ३.१५१.९ ॥

人中雄牛啊!每逢一时,人的力量、身形与威势便衰减,又重新兴起。

3.151.10

तदलं बत तद्रूपं द्रष्टुं कुरुकुलोद्वह ।
युगं समनुवर्तामि कालो हि दुरतिक्रमः ॥ ३.१५१.१० ॥

因此,持守俱卢族的人啊,观看那形体是徒劳的。我顺应时代,因为时间难以超越。

3.151.11

युगसङ्ख्यां समाचक्ष्व आचारं च युगेयुगे ।
धर्मकामार्थभावांश्च कर्मवीर्ये भवाभवौ ॥ ३.१५१.११ ॥

请说出诸时代的数目与每一时代的行为,法、欲、利之状态,业与勇力,以及存在与不存在。

3.151.12

हनूमानुवाच ।
कृतं नाम युगं श्रेष्ठं यत्रधर्मः सनातनः।
कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे ॥ ३.१५१.१२ ॥

哈奴曼说:名为克利塔的时代最为殊胜,那里有永恒的法。在那最上之时代,无需做任何事。

3.151.13

न तत्र धर्माः सीदन्ति क्षीयन्ते न च वै प्रजाः ।
ततः कृतयुगं नाम कालेन गुणतां गतम् ॥ ३.१५१.१३ ॥

那里的法不衰落,众生也不灭亡;因此,随着时间,那一时代被称为劫多(Kṛta)并以其德性著称。

3.151.14

देवदानवगन्धर्वयक्षराक्षसपन्नगाः ।
नासन्कृतयुगे तात तदा न क्रयविक्रयः ॥ ३.१५१.१४ ॥

亲爱的,在劫多时代没有天神、达那婆、乾闼婆、夜叉、罗刹与龙蛇;那时也没有买卖。

3.151.15

न सामऋग्यजुर्वर्णाः क्रिया नासीच्च मानवी ।
अभिध्याय फलं तत्र धर्मः संन्यास एव च ॥ ३.१५१.१५ ॥

那里没有《娑摩》、《梨俱》、《夜柔》三部吠陀的分类,也没有人间的祭仪;人们不思量果报,法本身即是出离。

3.151.16

न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः ।
नासूया नापि रुदितं न दर्पो नापि वैकृतम् ॥ ३.१५१.१६ ॥

在那个时代没有疾病,也没有感官的衰退;没有嫉妒,也没有哭泣;没有傲慢,也没有残缺。

3.151.17

न विग्रहः कुतस्तन्द्री न द्वेषो न च पैशुनम् ।
न भयं नापि संतापो न चेर्ष्या न च मत्सरः ॥ ३.१५१.१७ ॥

那里没有争端,懈怠又从何而来?没有憎恨,也没有谗言;没有恐惧,也没有忧烦;没有嫉妒,也没有怨忌。

3.151.18

ततः परमकं ब्रह्म सा गतिर्योगिनां परा ।
आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा ॥ ३.१५१.१८ ॥

那时,至高的梵便是瑜伽行者的最高归宿;一切众生的自我便是白色的那罗延(Nārāyaṇa)。

3.151.19

ब्राह्मणआः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः ।
कृते युगे समभवन्स्वकर्मनिरताः प्रजाः ॥ ३.१५१.१९ ॥

在克里塔时代,婆罗门、刹帝利、吠舍和首陀罗,皆具克里塔之相,各自专注于本分之事。

3.151.20

समाश्रयं समाचारं समज्ञानं च केवलम् ।
तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन् ॥ ३.१५१.२० ॥

彼时诸种姓有同一依归、同一行止、全然同一之智;以相同之业,得成达摩。

3.151.21

एकदेवसदायुक्ता एकमन्त्रविधिक्रियाः ।
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ॥ ३.१५१.२१ ॥

常一心事奉同一神,以同一咒语与仪轨行事;虽各有其法,却同一吠陀,遵循同一达摩。

3.151.22

चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना ।
अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ॥ ३.१५१.२२ ॥

以合于四住期与时节的业,并以无欲之果相应,他们得达至高之境。

3.151.23

आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः ।
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ॥ ३.१५१.२३ ॥

此法与自我瑜伽相应,具克里塔之相,四足而行,于四种姓而言为恒常。

3.151.24

कामः कामयमानेषु ब्राह्मणेषु तिरोहितः ।
एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् ॥ ३.१५१.२४ ॥

于欲求之婆罗门中,欲亦隐伏;此名克里塔时代,离于三德。

3.151.25

त्रेतामपि निबोध त्वं यस्मन्सत्रं प्रवर्तते ।
पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः ॥ ३.१५१.२५ ॥

也应当了解那特雷塔时代,祭祀之会在其中举行:法减少四分之一,不朽者呈现红色。

3.151.26

सत्यप्रवृत्ताश्च नराः क्रिया धर्मपरायणाः ।
ततो यज्ञाः प्रवर्तन्ते धर्माश्चविविधाः क्रियाः ॥ ३.१५१.२६ ॥

人们坚守真实,行持以法为宗的仪礼。于是祭祀得以举行,种种法事得以成就。

3.151.27

त्रेतायां भावसंकल्पाः क्रियादानफलोपगाः ।
प्रचलन्ति न वै धर्मात्तपोदानपरायणाः।
स्वधर्मस्थाः क्रियावन्तो नरास्त्रेतायुगेऽभवन् ॥ ३.१५१.२७ ॥

在特雷塔时代,心志与誓愿纯正之人,收获祭祀与布施之果,不离于法;专注于苦行与布施,安住于自身之职分,行持仪礼,人们在特雷塔时代得以成就。

3.151.28

द्वापरे च युगे धर्मो द्विभागो नः प्रवर्तते ।
विष्णुर्वै पीततां याति चतुर्धा वेद एव च ॥ ३.१५१.२८ ॥

在德瓦帕拉时代,对我们而言法分为两部分流行;毗湿奴呈现黄色,吠陀也分为四部。

3.151.29

ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथा परे ।
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे ॥ ३.१५१.२९ ॥

此后有人通晓四吠陀,有人通晓三吠陀,另有人通晓二吠陀、一吠陀,乃至无梨俱诗句之人。

3.151.30

एवं शास्त्रेषु भिननेषु बहुधा नीयते क्रिया ।
तपोदानप्रवृत्ता च राजसी भवति प्रजा ॥ ३.१५१.३० ॥

如此,当经典分裂时,仪礼便以多种方式进行;即便人民专注于苦行与布施,也会变得充满罗阇性。

3.151.31

एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः ।
सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः ॥ ३.१५१.३१ ॥

因为不知一部吠陀,那些吠陀被造成许多;而此处因真理的衰败,只有某人仍安立于真理之中。

3.151.32

सत्यात्प्रच्यवमानानां व्याघयो बहवोऽभवन् ।
कामाश्चोपद्रवाश्चैव तदा वै दैवकारिताः ॥ ३.१५१.३२ ॥

背离真理者遭受了许多疾病;那时,欲望与灾祸也都是由天命所造成的。

3.151.33

यैरर्द्यभानाः सुभृशं तपस्तप्यन्ति मानवाः ।
कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे ॥ ३.१५१.३३ ॥

人们被它们极度折磨,便修苦行——有的为欲望而求欲,有的为天界而求天界;另有人则行祭祀。

3.151.34

एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः ।
पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः ॥ ३.१५१.३४ ॥

如此,到了双般遮时代,众生因非法而衰减;俱卢之子啊,在迦利时代,法只立于一足之上。

3.151.35

तामसं युगमासाद्य कृष्णो भवति केशवः ।
वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ॥ ३.१५१.३५ ॥

到达暗黑时代,黑者克利须那便成为羯舍婆;吠陀的仪轨止息,法与祭祀的仪式也同样止息。

3.151.36

ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा ।
उपद्रवाः प्रवर्तन्ते आधयो व्याधयस्तथा ॥ ३.१५१.३६ ॥

饥荒与瘟疫等灾殃、疾病、懈怠、如愤怒等诸过失及种种祸乱都会兴起;同样,心的苦恼与身的疾病也会兴起。

3.151.37

युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः ।
धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः ॥ ३.१५१.३७ ॥

当时代轮转之时,法又再次衰退;法衰退之时,世界也再次衰退。

3.151.38

लोके क्षीणे क्षयं यानति भावा लोकप्रवर्तकाः ।
युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते ॥ ३.१५१.३८ ॥

世界衰落之时,推动世界的诸般状态皆趋于败坏;由时代衰败所生的法与人们的愿望也都发生扭曲。

3.151.39

एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते ।
युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः ॥ ३.१५१.३९ ॥

这便是名为迦利的时代,它不久便会到来;这便是随顺时代的运行,长寿者们使之实现。

3.151.40

यच्च ते मत्परिज्ञाने कौतूहलमरिंदम ।
अनर्थकेषु को भावः पुरुषस्य विजानतः ॥ ३.१५१.४० ॥

啊,降伏敌人者!你对于认识我所怀有的好奇心,以及懂得无益之事的人的心境如何——

3.151.41

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
युगसङ्ख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् ॥ ३.१५१.४१ ॥

你所问的这一切,都已对你说过了。啊,大臂者,时代的计数已经宣说。愿你获得吉祥,现在请去吧。