Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.165

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.165.1

तस्मिन्नगेन्द्रे वसतां तु तेषां ।
महात्मनां सद्व्रतमास्थितानाम्।
रतिः प्रमोदश्च बभूव तेषा-
माकाङ्क्षतां दर्शनमर्जुनस्य ॥ ३.१६५.१ ॥

那些居住在山王之上、持守善愿的大德之人,渴望见到阿周那,心中生起了喜悦与欢欣。

3.165.2

तान्वीर्ययुक्तान्सुविशुद्धसत्वां-
स्तेजस्विनः सत्यधृतिप्रधानान्।
संप्रीयमाणा बहवोऽबिजग्मु-
र्गन्धर्वसङ्घाश्च महर्षयश्च ॥ ३.१६५.२ ॥

那些有勇力、本性极其纯净、光明灿烂、以真实与坚定为首的人,许多乾闼婆群与大仙人欢喜地前来亲近。

3.165.3

तं पादपैः पुष्पफलैरुपेतं ।
नगोत्तमं प्राप्य महारथानाम्।
मनःप्रसादः परमो बभूव ।
यथा दिवं प्राप्य मरुद्गणानाम् ॥ ३.१६५.३ ॥

抵达那座草木、花果丰盛的最好的山,大车战士们的心中生起了无上的安宁,如同诸风神抵达天界一般。

3.165.4

मयूरहंसस्वननादितानि ।
पुष्पोपकीर्णानि महाचलस्य।
शृङ्गाणि सानूनि च पश्यमाना ।
गिरेः परं हर्षमवाप्य तस्थुः ॥ ३.१६५.४ ॥

望着那座大山的峰顶与山坡——孔雀与天鹅的鸣声回荡,遍地鲜花——他们站立原地,获得了无上的欢喜。

3.165.5

साक्षात्कुबेरेण कृताश्च तस्मि-
न्नगोत्तमे संवृतकूटगुल्माः।
कादम्बकारण्डवहंसजुष्टाः ।
पद्माकुलाः पुष्करिणीरपश्यन् ॥ ३.१६५.५ ॥

在那座最好的山上,他们看见了满布莲花的池塘,仿佛是俱毗罗亲手所造,被山峰与灌丛环绕,有迦丹婆鸭、迦罗德婆鸭与天鹅栖息其间。

3.165.6

क्रीडाप्रदेशांस्च समृद्धरूपा-
न्सवेदिकांस्ते न्यवसन्सुवेशान्।
मणिप्रकीर्णांश्च मनोरमांश्च ।
यथा भवेयुर्नदस्य राज्ञः ॥ ३.१६५.६ ॥

他们居住在那些外观华丽、带有露台、布置精美、点缀着宝石、令人心醉的游乐之地,仿佛它们属于那难陀王。

3.165.7

अनेकवर्णैश् सुगन्धिभिश्च ।
महाद्रुमैः संततमभ्रजालैः।
तपःप्रधानाः सततं चरन्तः ।
शृङ्गं गिरेश्चिन्तयितुं न शेकुः ॥ ३.१६५.७ ॥

他们以苦行为主,不停地游走,却无法思量那座山峰,它总被色彩斑斓、芳香的大树和云网环绕。

3.165.8

स्वतेजसा तस्य नगोत्तमस्य ।
महौषधीनां च तथा प्रभावात्।
विभक्तरूपः सविता बभूव ।
निशामुखं प्राप्य नरर्षभाणाम् ॥ ३.१६५.८ ॥

凭借那最尊的山自身的光辉与大药草的威力,太阳(萨维特里)分化了自己的形体;到达夜幕降临之际,它向人中雄牛们显现。

3.165.9

यमास्थितः स्थावरजङ्गमानां ।
विभावसुर्भाविता हरीशः।
तस्योदयं चास्तमनं च वीर-
स्तत्रस्थितास्ते ददृशुर्नृसिंहाः ॥ ३.१६५.९ ॥

在那里,作为不动与动物之依托的毗婆婆(太阳),光线之主哈里舍,其升起与落下被站在那里的人中雄狮们目睹。

3.165.10

रवेस्तमिस्रागमनिर्गमांस्ते ।
तथोदयं चास्तमनं च वीराः।
समावृताः प्रेक्ष्य तमोनुदस्य ।
गभस्तिजालैः प्रदिशो दिशश्च ॥ ३.१६५.१० ॥

诸位英雄看见太阳所带来的黑暗的来去,以及它的升起与落下;他们也看见四方与各隅被驱暗者的光线之网所环绕。

3.165.11

स्वाध्यायवन्तः सततक्रियाश्च ।
धर्मप्रधानाश्च शुचिव्रताश्च।
सत्ये स्थितास्तस्य महारथस्य ।
सत्यव्रतस्यागमनप्रतीक्षाः ॥ ३.१६५.११ ॥

他们专注于诵读经典,不断行持仪轨,以法为首,持守清净戒律,都坚守于真实,等待那位大车战士、守真誓者的归来。

3.165.12

इहैव हर्षोऽस्तु समागतानां ।
क्षिप्रं कृतास्त्रेण धनंजयेन।
इति ब्रुवन्तः परमाशिपस्ते ।
पार्थास्तपोयोगपरा बभूवुः ॥ ३.१६५.१२ ॥

他们说:“愿在此聚集的众人皆得欢喜,愿精通武艺的达那闍耶早日归来。”他们献上最高的祝福,普利塔之子们便专心于苦行与瑜伽。

3.165.13

दृष्ट्वा विचित्राणि गिरौ वनानि ।
किरीटिनं चिन्तयतामभीक्ष्णम्।
बभूव राविर्दिवसश्च तेषां ।
संवत्सरेणैव समानरूपः ॥ ३.१६५.१३ ॥

看着山上千姿百态的森林,又不断思念那戴冠者(阿周那),对他们来说,昼夜竟如同一年一般漫长。

3.165.14

यदैव धौम्यानुमते महात्मा ।
कृत्वा जटां प्रव्रजितः स जिष्णुः।
तदैव तेषां नबभूव हर्षः ।
कुतो रतिस्तद्गतमानसानाम् ॥ ३.१६५.१४ ॥

当达乌米亚同意之后,这位伟大的阇湿努结成发髻出家而去,就在那一刻,他们心中的欢喜消失了;心意都系于他的人,又怎会有喜乐呢?

3.165.15

भ्रातुर्नियोगात्तु युधिष्ठिरस्य ।
वनादसौ वारणमत्तगामी।
यत्काम्यकात्प्रव्रजितः स जिष्णु-
स्तदैव ते शोकहता बभूवुः ॥ ३.१६५.१५ ॥

依哥哥坚战之命,当这位步履如发情象的阇湿努从迦摩耶迦林出家而去时,他们便立刻被悲痛击倒了。

3.165.16

तथैव तं चिन्तयतां सिताश्व-
मस्त्रार्थिनं वासवमभ्युपेतम्।
कालः स कृच्छ्रेण महानतीत-
स्तस्मिन्नगे भारत भारतानाम् ॥ ३.१६५.१६ ॥

对于那些同样思念他的人——他是白马之主,为求神兵而去见因陀罗的人——婆罗多啊,那段漫长的时光对婆罗多族人来说,在那座山上艰难地过去了。

3.165.17

उषित्वा पञ्चवर्षाणि सहस्राक्षनिवेशने ।
अवाप्य दिव्यान्यस्त्राणि सर्वाणि विबुधेश्वरात् ॥ ३.१६५.१७ ॥

在千眼者的居所住了五年,他从众神之主那里获得了所有神圣的武器。

3.165.18

आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् ।
ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः ॥ ३.१६५.१८ ॥

火神之箭、水神之箭、月神之箭、风神之箭与毗湿奴之箭;因陀罗之箭、湿婆之箭、梵天之箭,以及生主的至尊之箭。

3.165.19

यमस्य धातुः सवितुस्त्वष्टुर्वैश्रवणस्य चं ।
तानि प्राप्य सहस्राक्षादभिवाद्य शतक्रतुम् ॥ ३.१६५.१९ ॥

还有阎摩、创造者、日神、工巧神与毗沙门的神兵;他从千眼者那里得到这些之后,向百祭者因陀罗致敬。

3.165.20

अनुज्ञातस्तदा तेन कृत्वा चापि प्रदक्षिणम् ।
आगच्छदर्जुनः प्रीतः प्रहृष्टो गन्धपादनम् ॥ ३.१६५.२० ॥

此时,阿周那得到他的允许,并绕行致敬之后,心中欢喜、欣然地返回了乾陀摩陀那山。