Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.183

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.183.1

भवानेतादृशो लोके वेदवेदाङ्गपारगः ।
ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ॥ ३.१८३.१ ॥

您在世间精通吠陀及其支分。请告诉我,行何种业才能获得至上的归宿?

3.183.2

पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत ।
अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम ॥ ३.१८३.२ ॥

婆罗多的后裔啊,向合适的受者布施,说悦耳之言,说真话,并专心于不杀生者,便会升天——这是我的看法。

3.183.3

दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते ।
अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम् ॥ ३.१८३.३ ॥

蛇啊,布施与真实之中,哪一个显得更重?请告诉我不杀生与悦耳之言的轻重。

3.183.4

दानं च सत्यं तत्त्वं वा अहिंसा प्रियमेव च ।
एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् ॥ ३.१८३.४ ॥

布施、真实、真谛、不杀生与悦耳之言——因其作用之重大,才显出它们的轻重。

3.183.5

क्वचिद्दानप्रयोगाद्धि सत्यमेव विशिष्यते ।
सत्यवाक्याच्च राजेनद्र क्वचिद्दानं विशिष्यते ॥ ३.१८३.५ ॥

有时通过布施之行,唯有真实更为殊胜;而王中之王啊,有时由于真实之言,布施反而殊胜。

3.183.6

एवमेव महेष्वास प्रियवाक्यान्महीपते ।
अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते ॥ ३.१८३.६ ॥

同样地,大弓箭手啊,地上之主啊,因悦耳之言,不杀生显得至为重要;因此,悦耳之言也被人所欲。

3.183.7

एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् ।
यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् ॥ ३.१८३.७ ॥

国王啊,事情如此,视所行之事而定。你若还有别的想问,尽管说,我能说的都会告诉你。

3.183.8

कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् ।
अशरीरस्य दृश्येत प्रब्रूहि विषयांश्च मे ॥ ३.१८३.८ ॥

蛇啊,天界之路如何?无身者又如何确切地看见业果?也请为我解说这些事。

3.183.9

तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः ।
मानुषं स्वर्गवासश्च तिर्यग्योनिश्च तत्रिधा ॥ ३.१८३.९ ॥

国王啊,依自己的行为,三种去处已被清楚看见:人身、天界居住,以及畜生之生。这三者共为三类。

3.183.10

तत्र वै मानुषाल्लोकाद्दानादिभिरनादिभिः ।
अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते ॥ ३.१८३.१० ॥

在那里,从人间,凭借布施等事,以及与不害之志相应的因缘,人便得到天界。

3.183.11

विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् ।
तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते ॥ ३.१८३.११ ॥

而以相反的因缘,王中之王啊,人便得为人;同样,亲爱的,也会堕入畜生之生。在此还将说明一种特别的区别。

3.183.12

क्रामक्रोधसमायुक्तो हिंसालोभसमनवितः ।
मनुष्यत्वात्परिब्रष्टस्तिर्यग्योनौ प्रसूयते ॥ ३.१८३.१२ ॥

与欲望和愤怒相连、充满暴力与贪婪、从人身堕落之人,将生于畜生之胎。

3.183.13

तिर्यग्योन्याः पृथग्भावो मनुष्यार्थे विधीयते ।
गवादिभ्यस्तथाऽश्वेभ्यो देवत्वमपि दृश्यते ॥ ३.१८३.१३ ॥

畜生之胎的分别境况是为人类而设定的;即便在牛等及马中,也可见到天神的境界。

3.183.14

सोयमेता गतीस्तात जन्तुश्चरति कार्यवान् ।
निम्ने महति चात्मानमवस्थाप्य च वै नृप ॥ ३.१८३.१४ ॥

孩子啊,这受业力束缚的众生在这些趣道中流转,国王啊,它把自己安置于低处与高处。

3.183.15

जातो जातश्च बलवान्भुङ्क्ते नाम्नाऽथ देहवान् ।
फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः ॥ ३.१८३.१५ ॥

一生又一生地投生,强健而有身,以名号而受用;孩子啊,虽求果报,却保持无执,并怀有众生之相。

3.183.16

शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः ।
तस्याधिष्ठानमव्यग्रो ब्रूहि सर्प यथातथम् ॥ ३.१८३.१६ ॥

在声、触、色,以及味与香之中,它的依处是什么?蛇啊,请安静地如实说明。

3.183.17

किं न गृह्णासि विषयान्युगपत्त्वं महामते ।
एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम ॥ ३.१८३.१७ ॥

你为何不一齐把握诸境?大智者啊,请说到这里,凡已说者,尽皆如此,蛇中之最上者啊。

3.183.18

तदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम् ।
करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविथि ॥ ३.१८३.१८ ॥

长寿者啊,那自我之实体,依托于身体,安住于诸根之中,依法受用诸欲。

3.183.19

ज्ञानं चैवात्र बुद्धिश्च कमश्च भरतर्षभ ।
तस्य भोगाधिकरणे करणानि निबोध मे ॥ ३.१८३.१९ ॥

婆罗多之雄啊,此处亦有知、觉与业。请听我说享受之处所具的诸根。

3.183.20

मनसा तात पर्येति क्रमशो विषयानिमान् ।
विषयायतनत्वेन भूतात्मा क्षेत्रविष्ठितः ॥ ३.१८३.२० ॥

亲爱的,众生之我唯以意次第游于这些境界;住于身田之中的众生之我,成为诸境的所依。

3.183.21

तत्रचापि नरव्याघ्र मनो जन्तोर्विधीयते ।
तस्माद्युगपदत्रास्य ग्रहणं नोपपद्यते ॥ ३.१८३.२१ ॥

人中之虎啊,彼处之有情之意亦只被安排于一处。故于此不能同时领受它。

3.183.22

स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः ।
बुद्धिं द्रव्येषु सृजति विविधेषु परावराम् ॥ ३.१८३.२२ ॥

人中之虎啊,彼我住于两眉之间,于诸种物中生起高下之智。

3.183.23

बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः ।
एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः ॥ ३.१८३.२३ ॥

觉之后,智者见有受。此乃王中之虎,是令人生起田知者之观念的次第。

3.183.24

मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् ।
एतदध्यात्मविदुषां परं कार्यं विधीयते ॥ ३.१८३.२४ ॥

请告诉我意与觉的最上特相。这是为通晓自我者所规定的最上事业。

3.183.25

बुद्धिरात्मानुगाऽतीव उत्पातेन विधीयते ।
तदाश्रिता हि सा ज्ञेया बुद्धिस्तस्यैषिणी भवेत् ॥ ३.१८३.२५ ॥

智慧追随自我,并因扰动而大为产生。依托于此,应当知晓;智慧成为追求它的人。

3.183.26

बुद्धिरुत्पद्यते कार्यान्मनस्तूत्पन्नमेव हि ।
बुद्धेर्गुणविधानेन मनस्तद्गुणवद्भवेत् ॥ ३.१८३.२६ ॥

智慧从行动中产生,而意已经先行产生。依智慧之德性的安排,意也成为具有那些德性的。

3.183.27

एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम् ।
त्वमप्यत्राभिसंबुद्धः कथं वा मन्यसे स्वयम् ॥ ३.१८३.२७ ॥

亲爱的,我已说明了意与智慧的这一显著特征。你在此也已彻底觉悟;你自己又如何看待它呢?

3.183.28

अहो बुद्धिमतांश्रेष्ठ शुभा बुद्धिरियं तव ।
विदितं वेदितव्यं ते कस्मान्नहुष पृच्छसि ॥ ३.१८३.२८ ॥

啊,智者中最优秀的!你的智慧是吉祥的。应当知道的,你已经知道了;纳呼沙啊,你为何还要问呢?

3.183.29

सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् ।
एवमद्भुतकर्माणमिति मे संशयो महान् ॥ ३.१८३.२९ ॥

你是全知者、天界的居住者,迷惑怎么会侵入你呢?对于你这样做出如此奇妙事迹的人,我有这极大的疑惑。

3.183.30

सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् ।
वर्तमानः सुखे सर्वो नावैतीति मतिर्मम ॥ ३.१८३.३० ॥

即使是极有智慧、勇敢的人,也会被富贵所迷惑;而身处安乐之中的人,都不懂得这一点——这是我的看法。

3.183.31

सोहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर ।
पतितः प्रतिसंबुद्धस्त्वां तु संबोधयाम्यहम् ॥ ३.१८३.३१ ॥

我因权势的迷惑而陷入狂醉,啊,坚战,我曾堕落;如今醒悟过来,我要唤醒你。

3.183.32

कृतंकार्यं महाराज त्वया मम परंतप ।
क्षीणः शाप सुकृच्छ्रो मे त्वया संभाष्य साधुना ॥ ३.१८३.३२ ॥

伟大的国王啊,克敌者啊,你为我完成了使命;与你这善良之人交谈后,我沉重的诅咒已经减弱。

3.183.33

अहं हि दिवि दिव्येन विमानन चरन्पुरा ।
अभिमानेन मत्तः सन्कंचिन्नान्यमचिन्तयम् ॥ ३.१८३.३३ ॥

从前我乘着神圣的天车在天上游荡;被傲慢迷醉的我,从不曾想念任何其他人。

3.183.34

ब्रह्मर्षिदेघगन्धर्वयक्षराक्षसपन्नगाः ।
वरं मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः ॥ ३.१८३.३४ ॥

梵仙、天神、乾闼婆、夜叉、罗刹与蛇族——三界的所有居民都赐予我恩惠。

3.183.35

चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते ।
तस्य तेजो हराम्याशु तद्धि दृष्टेर्बलं मम ॥ ३.१८३.३५ ॥

地上之主啊,我以眼睛所注视的生灵,我会迅速夺走它的光辉,因为我的力量就在于目光。

3.183.36

ब्रह्मर्षीणां सरस्रं हि उवाह शिबिकां मम ।
कस मामपनयो राजन्भ्रंशयामास वै श्रियः ॥ ३.१८३.३६ ॥

梵仙曾经抬着我的轿子;国王啊,是谁把我从荣华中驱逐、使我坠落?

3.183.37

तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो महामुनिः ।
अगस्त्येन ततोस्म्युक्तो ध्वंस सर्पेति वैरुषा ॥ ३.१८३.३७ ॥

那时大仙阿伽斯提耶抬着轿子,用脚碰到了我。阿伽斯提耶愤怒地说:「蛇啊,坠落吧!」

3.183.38

ततस्तस्माद्विमानाग्र्यात्प्रच्युतश्च्युतलक्षणः ।
प्रपतन्बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम् ॥ ३.१८३.३८ ॥

于是我从那最上等的天车上坠落,带着坠落的征兆,在下坠时察觉自己已变成蛇,面朝下。

3.183.39

अयाचं तमहं विप्रं शापस्यान्तो भवेदिति ।
प्रमादात्संप्रमूढस्य भगवन्क्षन्तुमर्हसि ॥ ३.१८३.३९ ॥

我恳求那位婆罗门:「愿这诅咒有个终结。」尊者啊,您应当宽恕因疏忽而迷乱的我。

3.183.40

ततः स मामुवाचेदं प्रपतन्तं कृपानवितः ।
युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति ॥ ३.१८३.४० ॥

于是他满怀慈悲,在我坠落时对我说:「法王坚战将使你脱离这诅咒。」

3.183.41

अभिमानस्य वै तस्य बलस्य च नराधिप ।
फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ॥ ३.१८३.४१ ॥

人主啊,当他的傲慢与力量之果耗尽之时,大王,你将获得功德的果报。

3.183.42

ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम् ।
ब्रह्म च ब्राह्मणत्वं च येन त्वाऽहमचूचुदम् ॥ ३.१८३.४२ ॥

于是我看到那苦行之力、梵与婆罗门身份,心中生起惊叹,因此才让你说出这些话。

3.183.43

सत्यं दमस्तपो योगमहिंसा ज्ञाननित्यता ।
साधकानि सतां पुंसां न जातिर्नकुलं नृप ॥ ३.१८३.४३ ॥

真实、克制、苦行、瑜伽、不害与恒常于智慧——这些是善人的成就之道,而非出身与家族,大王。

3.183.44

अरिष्ट कएष ते भ्राता मुक्तो बीमो महाभुज ।
स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः ॥ ३.१८३.४४ ॥

阿利什塔啊,看,你的兄弟大臂的毗摩已获释放。大王,愿你平安;我现在要再回天界去了。

3.183.45

स चायं पुरुषव्याघ्र कालः पुण्य उपागतः ।
तदस्मात्कारणात्पार्थ कार्यं तन्मे महत्कृतम् ॥ ३.१८३.४५ ॥

人中之虎啊,这吉祥的时刻已经到来。因此,普利塔之子啊,我的那件大事已经完成。

3.183.46

ततस्तस्मिन्मुहूर्ते तु विमानं कामगामि वै ।
अवपातेन महता तत्रावाप तदुत्तमम् ॥ ३.१८३.४६ ॥

那一刻,一辆随意而行的天车降下,他在那里以盛大的下降,获得了那辆殊胜的车辇。

3.183.47

इत्युक्त्वाऽऽजगरं देहं मुक्त्वा स नहुषो नृपः ।
दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह ॥ ३.१८३.४७ ॥

说完这番话,那罗沙王舍去蟒蛇之身,化为天神之形,升往天界。

3.183.48

युधिष्ठिरोपि धर्मात्मा भ्रात्रा भीमेन संगतः ।
धौम्येन सहितः श्रीमानाश्रमं पुनरागमत् ॥ ३.१८३.४८ ॥

正法之心的坚战也与兄弟毗摩相会,与持明一同,再次返回那吉祥的修行处。

3.183.49

ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् ।
कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः ॥ ३.१८३.४९ ॥

于是,царь法王坚战把所有聚集的婆罗门所有经过,一一如实述说。

3.183.50

तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः ।
आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी ॥ ३.१८३.५० ॥

众婆罗门、他的三位兄弟以及荣耀的德罗波蒂听后,都深感羞愧,大王。

3.183.51

ते तु सर्वेद्विजश्रेष्ठाः पाण्डवानां हितेप्सया ।
मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस् साहसम् ॥ ३.१८३.५१ ॥

然而,那些最优秀的婆罗门为了般度之子的利益,责备婆罗门的鲁莽说:“不要这样做!”

3.183.52

पाण्डवास्तु भयान्पुक्तं प्रेक्ष्य भीमं महाबलम् ।
हर्षमाहारयांचक्रुर्विजह्रुश्च मुदा युताः ॥ ३.१८३.५२ ॥

般度五子见到大力的毗摩从恐惧中解脱,心中充满喜悦,欢欣地度过时光。