摩诃婆罗多 · 章 3.186
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.186.1
तं विवक्षन्तमालक्ष्यकुरुराजो महामुनिम् ।
कथासंजननार्थाय चोदयामास पाण्डवः ॥ ३.१८६.१ ॥
见大仙想要开口,库鲁王般度之子便催请他开始讲述故事。
3.186.2
भवान्दैवतदैत्यानामृषीणां च महात्मनाम् ।
राजर्षीणां च सर्वेषां चरितज्ञः पुरातनः ॥ ३.१८६.२ ॥
您是古老的贤者,熟知诸神与阿修罗、伟大的仙人以及一切王仙的事迹。
3.186.3
सेव्यश्चोपासितव्यश् मतो नः काङ्क्षितश्चिरम् ।
अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः ॥ ३.१८६.३ ॥
您是我们应当侍奉、尊敬的人,我们长久以来一直期盼您;而这位提婆吉之子也来见我们了。
3.186.4
भ्रमत्येव हि मे बुद्धिर्दृष्ट्वाऽऽत्मानं सुखाच्च्युतम् ।
धार्तराष्ट्रांश्च रदुर्त्तानृद्ध्यतः प्रेक्ष्य सर्वशः ॥ ३.१८६.४ ॥
看到自己失去了幸福,又看到持国之子处处兴盛,我的心智确实动摇了。
3.186.5
कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य वा ।
स्वफलं तदुपाश्नापि कथं कर्ता स्विदीश्वरः ॥ ३.१८६.५ ॥
人是善行或恶行的作者;可是作者即使享受自己的果报,又怎能是主宰者呢?
3.186.6
अथवा सुखदुःखेषु नृणां ब्रह्मविदांवर ।
इह वा कृतमन्वेति परदेहेऽथवा पुनः ॥ ३.१८६.६ ॥
或者,梵之知者中最上者啊,此世所作之业,是跟随人于苦乐之中,还是跟随于另一身体,抑或又当如何?
3.186.7
देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः ।
कथं संयुज्यतेप्रेत्य इह वा द्विजसत्तम ॥ ३.१८६.७ ॥
既舍其身,为善恶之业所寻,身者死后如何相合——在此乎,抑在他处,二生者中最上者?
3.186.8
ऐहलौकिकमेवैतदुताहो पारलौकिकम् ।
क्व वा कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव ॥ ३.१८६.८ ॥
此乃今世之事,抑或来世之事?婆利古之裔啊,死者之业住于何处?
3.186.9
त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतांवर ।
विदितं वेदितव्यं ते स्थित्यर्थं त्वं तु पृच्छसि ॥ ३.१८६.९ ॥
此追问正合汝身,善言者中最上者。汝所当知者,汝已知之;汝之所问,为求心之安定。
3.186.10
अत्र ते कथयिष्यामि तदिहैकमनाः शृणु ।
यथेहामुत्र च नर सुखदुःखमुपाश्नुते ॥ ३.१८६.१० ॥
此事我将为汝言之。汝当专心听来,人啊:人如何于此世与彼世享受快乐与苦痛。
3.186.11
निर्मलानि शरीराणि विशुद्धानि शरीरिणाम् ।
ससर्ज धऱ्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः ॥ ३.१८६.११ ॥
先生之生主,为有身者造作清净无垢之身,皆受法则所统御。
3.186.12
अमोघफलसंकल्पाः सुव्रताः सत्यवादिनः ।
ब्रह्मभूता नराः पुण्याः पुराणाः कुरुसत्तम ॥ ३.१८६.१२ ॥
意志有不虚之果,持善誓、言诚实,化为梵者,清净而古远之人——婆罗多中最上者啊。
3.186.13
सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम् ।
ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः ॥ ३.१८६.१३ ॥
众人随意与诸神一同来到天空之上;随后,所有随意游行者又再返回。
3.186.14
स्वच्चन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः ।
अल्पबाधा निरातङ्काः सिद्धार्था निरुपद्रवाः ॥ ३.१८६.१४ ॥
他们随意死亡,随意生活;人们少有苦恼,无所畏惧,志愿成就,没有灾祸。
3.186.15
द्रष्टारोदेवसङ्घानामृषीणां च महात्मनाम् ।
प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः ॥ ३.१८६.१५ ॥
他们得见诸天众与大德仙人;一切法对他们都显现,他们能自我克制,没有嫉妒。
3.186.16
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।
ततः कालान्तरे तस्मिन्पृथिवीतलचारिणः ॥ ३.१८६.१६ ॥
他们寿命数千年,子孙千人。后来经过时日,他们成为在大地表面行走的人。
3.186.17
कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः ।
लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः ॥ ३.१८६.१७ ॥
被欲望与愤怒所制,以幻术与欺诈为生,被贪婪与迷妄所制,被诸神舍弃,那些人便成了如此。
3.186.18
अशुभैः कर्मभिः पापास्तिर्यङ्गिरयगामिनः ।
संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः ॥ ३.१८६.१८ ॥
因恶业而造作罪过,走向畜生道与地狱,在千差万别的轮回中一次又一次地被煎熬。
3.186.19
मोघेष्टा मोघसंकल्पा मोघज्ञाना विचेतसः ।
काङ्क्षिणः सर्वकामानां नास्तिका भिन्नसेतवः ॥ ३.१८६.१९ ॥
志愿虚妄,决心虚妄,知识虚妄,心思迷乱,渴求一切欲望,是无神论者,已毁坏了桥梁。
3.186.20
सर्वाभिशङ्खिनश्चैव संवृत्ताः क्लेदायिनः ।
अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः ॥ ३.१८६.२० ॥
他们对一切都心存怀疑,带来败坏;大多被不吉祥的行为所标记。
3.186.21
दौष्कुल्या व्याधिबहुला दुरात्मानोऽभितापिनः ।
भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः।
नाथन्तः सर्वकामानां नास्तिका भिन्नचेतसः ॥ ३.१८६.२१ ॥
他们生于低劣之家,多病,心怀恶念而受苦;寿命短促,有罪,承受残酷行为的果报;在一切欲望的尽头无所依靠;是无神论者,心已破碎。
3.186.22
जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः ।
प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति ॥ ३.१८६.२२ ॥
贡蒂之子啊!活着的生灵与死者的去向,在此都由各自的行为所决定。智者与愚者的业藏,又存在于何处呢?
3.186.23
क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत् ।
इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु ॥ ३.१८६.२३ ॥
住在何处,能享受善业的果报,或相反?这是你的见解;现在也听听其中的解答。
3.186.24
अयमादिशरीरेण देवसृष्टेन मानवः ।
शुभानामशुभानां च कुरुते संचयं महत् ॥ ३.१८६.२४ ॥
此人以诸神所造的原初身体,积累了大量善业与恶业。
3.186.25
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेबरम् ।
संभवत्येव युगपद्योनौ नास्त्यन्तराऽभवः ॥ ३.१८६.२५ ॥
寿命终结时,他舍弃这具几近耗尽的身体,立即在胎中受生;中间并无中有(antarābhava)。
3.186.26
तत्रास्य स्वकृतं कर्म च्छायेवानुगतं सदा ।
फलत्यथ सुखार्हो वा दुःखार्होवाऽथ जायते ॥ ३.१८६.२६ ॥
在那里,他自作之业如影随形,常常结果;于是他带着应得之乐或应得之苦而受生。
3.186.27
कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः ।
अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः ॥ ३.१८६.२७ ॥
那位受死神律令所缚的众生,凭吉祥或不吉祥的相状而被辨识;或者在无执著时,以智慧之眼被看见。
3.186.28
एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर ।
अतः परं ज्ञानवतां निबोध गतिमुत्तमाम् ॥ ३.१८६.२८ ॥
Yudhiṣṭhira啊,这便是愚者的去处,已如上述;现在请听智者的最高去处。
3.186.29
मनुष्यास्तप्ततपसः सर्वागमपरायणाः ।
स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः ॥ ३.१८६.२९ ॥
苦行精纯的人们,专注于一切经典,持守坚定的誓愿,以真实为归,喜于侍奉上师。
3.186.30
सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः ।
शुचियोन्यन्तरगताः प्रायशः शुभलक्षणाः ॥ ३.१८६.३० ॥
品行良善、出身清净,能忍辱、善自调伏、威光殊胜,入于清净之胎,大多具备吉祥之相。
3.186.31
जितेनद्रियत्वाद्वशिनः सत्कृत्यान्मन्दरागिणः ।
अल्पाबाधपरित्रासा भवन्ति निरुपद्रवाः ॥ ३.१८६.३१ ॥
因为征服了诸根,他们能自制;因为敬奉所应敬者,他们少有贪著,少有痛苦和恐惧,并且远离灾祸。
3.186.32
च्यवन्तं जायमानं च गर्भस्यं चैव सर्वशः ।
स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः ॥ ३.१८६.३२ ॥
具有智慧之眼的人,能全面了解正在死去者、正在出生者和在胎中者,也了解自己和他人。
3.186.33
ऋषयस्ते महात्मानः प्रत्यक्षागमबुद्धयः ।
कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम्।
कृत्वा शुभानि कर्माणि ज्ञानेन भरतर्षभ ॥ ३.१८६.३३ ॥
那些大德的仙人,其智慧依据直接感知与圣典,他们得到这个行动之地,以知识行善业之后,又去往诸神的居所。婆罗多族的雄牛啊。
3.186.34
किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मभिः ।
प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्याविचारणा ॥ ३.१८६.३४ ॥
人们有的凭天命得到,有的凭力量得到,有的则确实凭自己的业行得到。国王啊,愿你对此不要另有他想。
3.186.35
इमामत्रोपमां चापि निबोध वदतांवर ।
मनुष्यलोके यच्छ्रेयः परंमन्ये युधिष्ठिर ॥ ३.१८६.३५ ॥
言辞之最者啊,也请理解这个比喻。坚战啊,请理解我认为人间最高的善。
3.186.36
इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह ।
इह चामुत्र चैकस् नामुत्रैकस्य नो इह ॥ ३.१८६.३६ ॥
对某人只有此世,没有彼世;对某人只有彼世,没有此世。对另一人此世与彼世都有;对一人则此世与彼世都没有。
3.186.37
धनानि येषां विपुलानि सन्ति ।
नित्यंरमन्ते सुविभूषिताङ्गाः।
तेषामयं शत्रुवरघ्नलोको ।
नासौ सदा ग्राम्यसुखे रतानाम् ॥ ३.१८६.३७ ॥
拥有大量财富、总是以装饰华美的身体欢乐的人,他们的这个世界不是消灭敌人者的至上世界;它属于那些始终沉溺于世俗之乐的人。
3.186.38
ये योगयुक्तास्तपसि प्रसक्ताः ।
स्वाध्यायशीला जरयन्ति देहान्।
जितेन्द्रिया भूतहिते निविष्टा ।
स्तेषामसौ नायमरिघ्नलोकः ॥ ३.१८६.३८ ॥
那些专注于瑜伽、沉浸于苦行、勤习经典、消耗身体、克制诸根并致力于众生福祉的人,他们的世界是那一个;这不是消灭敌人者的世界。
3.186.39
ये धर्ममेव प्रथमं चरन्ति ।
धर्मेण लब्ध्वा च धनानि काले।
दारानवाप्य क्रतुभिर्यजन्ते ।
तेषामयं चैव परश्च लोकः ॥ ३.१८६.३९ ॥
那些首先践行法、依正法在适当时候获得财富、娶妻后以祭祀供养的人——他们既有这个世界,也有另一个世界。
3.186.40
ये नैव विद्यां न तपो न दानं ।
न चापि मूढाः प्रजने यतन्ते।
न चापिगच्छन्ति शुभान्यभाग्या-
स्तेषामयं चैव परश्च नास्ति ॥ ३.१८६.४० ॥
那些既不修习学问,也不苦行、不布施,昏昧之中甚至不谋求子嗣,又因不幸而得不到善果的人——对他们而言,既无此世,也无彼世。
3.186.41
सर्वे भवन्तस्त्वतिवीर्यसत्वा ।
दिव्यौजसः संहननोपपन्नाः।
लोकादमुष्मादवनिं प्रपन्नाः ।
स्वधीतविद्याः सुरकार्यहेतोः ॥ ३.१८६.४१ ॥
你们都具有极大的勇力与精神力,拥有神圣的光辉与坚固的身体;为了诸神的使命,从那个世界来到大地,你们已把所学的知识学得很好。
3.186.42
कृत्वैव कर्माणइ महान्ति शूरा-
स्तपोदमाचारविहारशीलाः।
देवानृषीन्प्रेतगतांसच् सर्वा-
न्संतर्पयित्वा विधिना परेण ॥ ३.१८६.४२ ॥
英雄们建立伟大功业,本性在于苦行、克制、行为与生活方式,依照规定以至诚之心,使诸神、诸仙及所有入于死者之境的人都得到满足。
3.186.43
स्वर्गं परं पुण्यकृतां निवासं ।
क्रमेण संप्राप्स्यथ कर्मभिः स्वैः।
माभूद्विशङ्का तव कौरवेन्द्र ।
दृष्ट्वाऽऽत्मनः क्लेशमिमं सुखार्थम् ॥ ३.१८६.४३ ॥
你将依次凭自己的业行获得天界,那是行善者的至上居所。考夫罗婆之主啊,看到你为了幸福而承受的这份苦难,愿你心中不要生起疑惑。