Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.191

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.191.1

ततः स पुनरेवाथ मार्कण्डेयं तपस्विनम् ।
पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः ॥ ३.१९१.१ ॥

于是,怀着谦逊之心的法王坚战再次向苦行者摩根德耶发问。

3.191.2

नैके युगसहस्रान्तास्त्वया दृष्टा महामुने ।
न चापीह समः कश्चिदायुष्मान्दृश्यते तव ॥ ३.१९१.२ ॥

大仙啊,您所见的劫末不止一两次,而是成千上万次;此处也看不到像您这样长寿的人。

3.191.3

वर्जयित्वा महात्मानं ब्रह्माणं परमेष्ठिनम् ।
न तेऽस्ति सदृशः कश्चिदायुषा ब्रह्मसत्तम ॥ ३.१९१.३ ॥

除了大神梵天这位至尊之主,在寿命上无人能与您相比,婆罗门中的最上者啊。

3.191.4

अथाऽन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते ।
त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसे ॥ ३.१९१.४ ॥

接着,在这无神无魔的虚空世界中,在劫灭之时,唯有您,婆罗门啊,侍奉于梵天之侧。

3.191.5

प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे ।
त्वमेकः सृज्यमानानि भूतानीह प्रपश्यसि ॥ ३.१९१.५ ॥

劫灭既尽,祖父梵天醒来之时,唯有您一人得见此处被创造的众生。

3.191.6

चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना ।
वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः ॥ ३.१९१.६ ॥

婆罗门仙人啊,至尊之主依次创造了四类众生;他化为风,开辟四方,又将水四处散布。

3.191.7

त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः ।
आराधितो द्विजश्रेष्ठ तत्परेण समाधिना ॥ ३.१९१.७ ॥

最优秀的再生者啊,你以专注的入定直接供养了世界之师、一切世界的祖父。

3.191.8

स्वप्रमाणमथो विप्र त्वया कृतमनेकशः ।
घोरेणाविश्य तपसा वेधसो निर्जितास्त्वया ॥ ३.१९१.८ ॥

婆罗门啊,凭你自己的权威,多次进入猛烈的苦行,你征服了造物主。

3.191.9

नारायणाङ्कप्रख्यस्त्वं सांपरायेऽतिपठ्यसे ॥ ३.१९१.९ ॥

你如同那罗延的怀抱;在战斗中,你被大力颂扬。

3.191.10

भगवाननेकशः कृत्वा त्वया विष्णोश्च विश्वकृत् ।
कर्णिकोद्धरणं दिव्यं ब्रह्मणः कामरूपिणः।
रत्नालंकारयोगाभ्यां दृग्भ्यां दृष्टस्त्वया पुरा ॥ ३.१९१.१० ॥

世尊啊,你多次举起了宇宙创造者毗湿奴与随意变化形体的梵天的神圣莲台;借助宝饰的结合,你昔日曾亲眼见到它。

3.191.11

तस्मात्तवान्तको मृत्युर्जरा वा देहनाशिनी ।
न त्वां विशति विप्रर्षे प्रसादात्परमेष्ठिनः ॥ ३.१९१.११ ॥

因此,婆罗门仙人啊,凭至尊的恩典,终结者死亡与毁坏身体的衰老都不能侵入你。

3.191.12

यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः ।
नैवान्तरिक्षं नैवोर्वी शेषं भवति किंचन ॥ ३.१९१.१२ ॥

当太阳不存在,火不存在,风不存在,月亮也不存在;天空不存在,大地也不存在时,便一无所剩。

3.191.13

तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरगणे समुत्सन्नमहोरगे ॥ ३.१९१.१३ ॥

在那化为唯一大海的世界中,静止与运动的万物皆已毁灭,诸神与阿修罗之众皆已消亡,大蛇也已彻底绝灭。

3.191.14

शयानममितात्मानं पद्मे पद्मनिकेतनम् ।
त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि ॥ ३.१९१.१४ ॥

你独自侍奉躺卧于莲花之上、自性无限、以莲花为居所的梵天,他是一切众生之主。

3.191.15

एतत्प्रत्यक्षतः सर्वं पूर्वं वृत्तं द्विजोत्तम ।
तस्मादिच्छाम्यहं श्रोतुं सर्वांहेत्वात्मिकां कथां ॥ ३.१९१.१५ ॥

二生者中最优秀的人啊,往昔发生的一切你都亲眼所见。因此我愿听那作为一切根源的故事。

3.191.16

अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम ।
न तेऽस्त्यविदितं किंचित्सर्वलोकेषु नित्यदा ॥ ३.१९१.१६ ॥

二生者中最优秀的人啊,唯独你多次亲历过这些。在一切世界中,没有任何事物是你始终不知的。

3.191.17

हन्त ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे ।
पुरुषाय पुराणाय शाश्वतायाव्ययाय च।
अव्यक्ताय सुसूक्ष्माय निर्गुणाय गुणात्मने ॥ ३.१९१.१७ ॥

现在我将讲述这个故事,先向自生者致敬,向原人致敬——他古老、永恒、不灭、未显现、极其微妙、无德,又是诸德之自性。

3.191.18

य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः ।
एष कर्ता विकर्ता च भूतात्मा भूतकृत्प्रभुः ॥ ३.१९१.१८ ॥

这位双目宽长、身着黄衣的 Janārdana,即是创造者与毁灭者,众生之自我,众生的造作者,主宰。

3.191.19

अचिन्त्यं महदाश्चर्यं पवित्रमिति चोच्यते ।
अनादिनिधनं भूतं विश्वमव्ययमक्षयम् ॥ ३.१९१.१९ ॥

他被称为不可思议、伟大的奇迹、清净;无始无终,是存在,是宇宙,不朽不灭。

3.191.20

एष कर्ता न क्रियते कारणं चापि पौरुषे ।
को ह्येनं परुषं वेत्ति देवा अपि न तं पौरषे ॥ ३.१९१.२० ॥

他是作者,并非被造;即便在人的努力中,他也无因。谁能认识这位补鲁沙?连诸神也不认识他。

3.191.21

सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम ।
आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये ॥ ३.१९१.२१ ॥

王中最上者啊,这一切确实是奇迹,从开始便已成就;人中之虎啊,整个世界毁灭时也是如此。

3.191.22

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ ३.१९१.२२ ॥

据说克利塔纪元为四千年;其黄昏为同样数目的百年,其黄昏之分也是如此。

3.191.23

वीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परं ॥ ३.१९१.२३ ॥

此处称特列塔纪元为三千年;其黄昏为同样数目的百年,此后则是其黄昏之分。

3.191.24

तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः ।
तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ ३.१९१.२४ ॥

同样,德瓦帕拉纪元长二千年;其黄昏为二百年,其黄昏之分也是如此。

3.191.25

सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम् ।
तस्य वर्षशतं सन्ध्या सन्ध्यांशश्च ततः परम् ॥ ३.१९१.२५ ॥

此后,迦利时代被认为为一千年。其黄昏(sandhyā)为一百年,其黄昏之分(sandhyāṃśa)亦如此,在其后。

3.191.26

सन्ध्यासंध्यांशयोस्तुल्यं प्रमाणमुपधारय ।
क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् ॥ ३.१९१.२६ ॥

应知黄昏(sandhyā)与其分(sandhyāṃśa)的量相等。迦利时代终尽时,克里塔时代便开始。

3.191.27

एषा द्वादशसाहस्री युगाख्या परिकीर्तिता ।
एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम् ॥ ३.१९१.२७ ॥

此被宣称为一万二千年之瑜伽(yuga)。持续千次,啊,宣称为梵天之一日。

3.191.28

विश्वं हि ब्रह्मभवने सर्वतः परिवर्तते ।
लोकानां मनुजवन्याघ्र प्रलयं तं विदुर्बुधाः ॥ ३.१९१.२८ ॥

整个宇宙在梵天之居处四面旋转。人中之虎,智者称此为诸世界的毁灭(pralaya)。

3.191.29

अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ ।
सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः ॥ ३.१९१.२९ ॥

婆罗多之牛,当时代末尾只剩少许时,千年末尾,几乎所有人都会成为说谎者。

3.191.30

यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा ।
व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते ॥ ३.१९१.३० ॥

普利塔之子啊,那时流行的只是祭祀的替代、布施的替代,以及誓愿的替代。

3.191.31

ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः ।
क्षत्रधर्मेण वाऽप्यत्र वर्तयन्ति युगक्षये ॥ ३.१९१.३१ ॥

在劫末之时,婆罗门将从事首陀罗的职业,首陀罗将变成谋取财富的人;甚至依靠刹帝利之法谋生。

3.191.32

निवृत्तयज्ञस्वाध्याया दण्डाजिनविवर्जिताः ।
ब्राह्मणा सर्वभक्षाश्च भविष्यन्ति कलौ युगे ॥ ३.१९१.३२ ॥

在迦利时代,婆罗门将舍弃祭祀与诵习吠陀,无杖无鹿皮,并且什么都吃。

3.191.33

अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः ।
विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् ॥ ३.१९१.३३ ॥

亲爱的,那时婆罗门将不诵咒,首陀罗却专注于诵咒;世界如此颠倒,正是衰败的先兆。

3.191.34

बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप ।
मृषानुशासिनः पापा मृषावादपरायणाः ॥ ३.१९१.३४ ॥

人主啊,大地上将有许多蛮族之王,他们颁布虚假的命令,作恶多端,专事妄语。

3.191.35

आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः ।
काम्भोजा बाह्लिकाः शूराऽऽ भीरस्तथा नरोत्तमा ॥ ३.१९१.३५ ॥

安陀罗、塞种、普林达、希腊王、甘博阇、巴赫利卡、勇士与阿比罗,以及人中之最者。

3.191.36

न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति ।
क्षत्रियाश्चापि वैश्याश्च विकर्मस्था नराधिप ॥ ३.१९१.३६ ॥

那时,没有婆罗门依自身之法谋生;人主啊,刹帝利与吠舍也将陷于非法之业。

3.191.37

अल्पायुषः स्वल्पबलाः स्वल्पवीर्यपराक्रमाः ।
अल्पसाराल्पदेहाश्च तथा सत्याल्पभाषिणः ॥ ३.१९१.३७ ॥

人们将寿命短促,力量弱小,勇气与威力微薄,身体矮小、缺乏精华,且说真话甚少。

3.191.38

बहुशून्या जनपदा मृगव्यालावृता दिशः ।
युगान्ते समनुप्राप्ते वृथा च ब्रह्मवादिनः ॥ ३.१९१.३८ ॥

当时代末日来临时,各地多半空无人烟,四方被鹿和猛兽所覆盖,而梵的宣说者也将白白言说。

3.191.39

भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः ।
युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः ॥ ३.१९१.३९ ॥

人中之虎啊,至末世时,首陀罗将以“婆”相称而言,婆罗门将以“圣者”相称而言;众生将会很多。

3.191.40

न तथा घ्राणयुक्ताश्च सर्वगन्धा विशांपते ।
रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः ॥ ३.१९१.४० ॥

众生之主啊,那时诸香不再如此为鼻所嗅;人中之虎啊,诸味也不再如此甘美。

3.191.41

बहुप्रजा ह्रस्वदेहा शीलाचारविवर्जिताः ।
मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥ ३.१९१.४१ ॥

国王啊,在时代毁灭之时,女子将多子,身材矮小,缺乏品行与礼仪,面部与私处暴露。

3.191.42

अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥ ३.१९१.४२ ॥

国王啊,在时代毁灭之时,各地将有高塔如尖桩,十字路口有湿婆之桩,女子则以发为桩。

3.191.43

अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप ।
अल्पपुष्पफलाश्चापि पादपा बहुवायसाः ॥ ३.१९१.४३ ॥

人主啊,牛也将少乳,树木少花少果,且多乌鸦。

3.191.44

ब्रह्मवध्यानुलिप्तानां तथा मिथ्याभिशंसिनाम् ।
नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः ॥ ३.१९१.४४ ॥

地保啊,婆罗门将接受那些沾染杀害婆罗门之罪、又诬告他人的国王的布施。

3.191.45

लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः ।
भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः ॥ ३.१९१.४५ ॥

地保啊,二生者被贪欲与迷妄所困,以伪善的法幢自蔽,将为乞食而奔走四方。

3.191.46

कराभारभयाद्भीता गृहस्थाः परिमोषकाः ।
मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपभुञ्जते ॥ ३.१९१.४६ ॥

因畏惧赋税重担而惊惶的居家者与盗贼,假扮成苦行者而隐藏起来,从事买卖。

3.191.47

मित्या च नखरोमाणि धारयन्ति तदा द्विजाः ।
अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः ॥ ३.१९१.४७ ॥

人中之虎啊,那时二生者蓄留指甲与毛发;因贪图财利,徒然假扮梵行者。

3.191.48

आश्रमेषु वृथाचार पारपा गुरुतल्पगाः ।
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् ॥ ३.१९१.४८ ॥

在修行林中,行为虚浮、与师母同寝者,所求的是增长血肉的世俗欲乐。

3.191.49

पारलौकिककार्येषु प्रमत्ता भृशनास्तिकाः ।
बहुपाषण्डसंकीर्णाः परान्नगुणवादिनः।
आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये ॥ ३.१९१.४९ ॥

疏忽于彼世之事,极为无信,混杂众多异端,称赞他人食物之美——人中之虎啊,在劫末,四行期不复存在。

3.191.50

यथर्तुवर्षी भगवान्न तथा पाकशासनः ।
न चापि सर्वभीजानि सम्यग्रोहन्ति भारत ॥ ३.१९१.५० ॥

不像世尊帝释(因陀罗)按时降雨,所有种子也不能好好发芽,婆罗多啊。

3.191.51

फलं धर्मस्य राजेन्द्र सर्वत्र परिहीयते ।
हिंसाभिरामश्च जनस्तथा संपद्यतेऽशुचिः।
अधर्मफलमत्यर्थं तदा भवति चानघ ॥ ३.१९१.५१ ॥

法之果报,王中之王啊,到处都在减少;人们以暴力为乐而变得不洁;然后,无垢者啊,非法之果极度增长。

3.191.52

तदा च पृथिवीपाल यो भवेद्धर्मसंयुतः ।
अल्पायुः स हि मन्तव्यो न हि धर्मोस्ति कश्चन ॥ ३.१९१.५२ ॥

那时,大地的守护者啊,凡具足法者应被视为短命;实则已无任何法存在。

3.191.53

भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः ।
वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत ॥ ३.१९१.५३ ॥

人们大多以假秤售卖货物,人中之虎啊,商贾也变得十分欺诈。

3.191.54

धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः ।
धर्मस्य बलहानिः स्यादधर्मश्च बलायते ॥ ३.१९१.५४ ॥

正直者日渐衰减,罪人日渐增多;法之力量衰弱,非法日益强盛。

3.191.55

अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तथा ।
दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये ॥ ३.१९१.५५ ॥

在时代末期,行法的人将寿短而贫穷,违法的人将长寿而富裕。

3.191.56

नगराणआं विहारेषु विधर्माणो युगक्षये ।
अधर्मिष्ठैरुपायैश् प्रजा व्यवहरन्त्युत ॥ ३.१९१.५६ ॥

在时代末期,无德之人将居于城市的游园之中,百姓将以不义之法营生。

3.191.57

संचयेन तथाऽल्पेन भवन्त्याढ्यमदान्विताः ।
धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः ॥ ३.१९१.५७ ॥

即使积蓄不多,人们也会因财富而骄傲;多数人会侵吞彼此托付的财物。

3.191.58

हर्तुं व्यवसिता राजन्पापाचारसमनविताः ।
नैतदस्तीति मनुजा वर्तन्ते निरपत्रपाः ॥ ३.१९१.५८ ॥

君王啊,行为邪恶之人将决意夺取财物,他们无耻地说:“这里根本没有。”

3.191.59

पुरुषादानि सत्वानि पक्षिणोऽथ मृगास्तथा ।
नगराणां विहारेषु चैत्येष्वपि च शेरते ॥ ३.१९१.५९ ॥

食人的生灵、飞鸟与鹿群,甚至会在城市的游园和神庙中栖息躺卧。

3.191.60

सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप ।
दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते ॥ ३.१९१.६० ॥

君王啊,七八岁的女子将怀孕,十来二十岁的男子也将生子。

3.191.61

भवन्ति षोडशे वर्षे नराः पलितिनस्तथा ।
आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते ॥ ३.१९१.६१ ॥

十六岁时人们便头发斑白,人的寿命迅速衰竭。

3.191.62

क्षीणायुषो महाराज तरुणा वृद्धशीलिनः ।
तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते ॥ ३.१९१.६२ ॥

大王啊,寿命已减的人,虽年轻也具有老人的习性;年轻人的品行则出现在老人身上。

3.191.63

विपरीतास्तदा नार्यो वञ्चयित्वाऽर्हतः पतीन् ।
व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च ॥ ३.१९१.६३ ॥

那时女子将变得悖逆;她们欺骗了值得尊敬的丈夫,品行不端的妇人甚至与奴仆和牲畜私通游荡。

3.191.64

वीरपत्न्यस्तथा नार्यः संश्रयन्ति नरान्नृप ।
भर्तारमपि जीवन्तमन्यान्व्यभिचरन्त्युत ॥ ३.१९१.६४ ॥

大王啊,同样,英雄的妻子也会亲近男子;即使丈夫仍在世,她们也会与他人通奸。

3.191.65

तस्मिन्युगसहस्रान्ते संप्राप्ते चायुषः क्षये ।
अनावृष्टिर्महाराज जायते बहुवार्षिकी ॥ ३.१९१.६५ ॥

大王啊,在那千个大时代的末了,寿命衰竭的时候到来,便会发生持续多年的大旱灾。

3.191.66

ततस्तान्यल्पसाराणि सत्वानि क्षुधितानि वै ।
प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते ॥ ३.१९१.६६ ॥

那时,那些力量微弱的众生饱受饥饿之苦,大地之主啊,它们大多在大地上走向毁灭。

3.191.67

ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप ।
पीयते सलिलं सर्वं समुद्रेषु सरित्सु च ॥ ३.१९१.६७ ॥

人主啊,那时七个炽热的太阳吸干了海洋与河流中的全部水。

3.191.68

यच्च रकाष्ठं तृणं चापि शुष्कं चार्द्रं च भारत ।
सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ ॥ ३.१९१.६८ ॥

婆罗多啊,凡是木材、草叶,无论干湿,都可见化为灰烬,婆罗多族的雄牛啊。

3.191.69

ततः संवर्तको वह्निर्वायुना सह भारत ।
लोकमाविशते पूर्वमादित्यैरुपशोषितम् ॥ ३.१९१.६९ ॥

婆罗多啊,then,毁灭之火与风一同进入那早已被太阳烤干的世界。

3.191.70

ततः स पृथिवीं भित्त्वा प्रविश्य च रसातलम् ।
रदेवदानवयक्षाणां भयं जनयते महत् ॥ ३.१९१.७० ॥

于是它劈开大地,进入下界的罗沙多罗,使诸天、檀那婆与夜叉生起极大的恐惧。

3.191.71

निरदहन्नागलोकं च यच्च किंचित्क्षिताविह ।
अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् ॥ ३.१९१.७१ ॥

它烧尽龙族的世界,以及大地上下的一切;大地的守护者啊,它在一瞬间毁灭一切。

3.191.72

ततो योजनविंशानां सहस्राणि शतानि च ।
निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः ॥ ३.१९१.७२ ॥

于是,在二十由旬的成千上百之地,凶恶的风与那毁灭之火将一切焚尽。

3.191.73

सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् ।
ततो दहति दीप्तः स सर्वमेव जगद्विभुः ॥ ३.१९१.७३ ॥

连同诸天、阿修罗、乾闼婆、夜叉、龙蛇与罗刹,那光耀的主宰便焚烧整个世界。

3.191.74

ततो गजकुलप्रख्यास्तजिन्मालाविभूषिताः ।
उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः ॥ ३.१९१.७४ ॥

于是天空中升起巨大的云团,如象群一般,以闪电之鬘庄严,形貌奇异。

3.191.75

केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः ।
केचित्किञ्जल्कसंकाशाः केचित्पीताः पयोधराः ॥ ३.१९१.७५ ॥

有的黝黑如青莲,有的如白睡莲,有的如莲花花粉,有的则是黄色的蓄水云。

3.191.76

केचिद्धारिद्रसंकाशाः कारण्डवनिभास्तथा ।
केचित्कमलपत्राभाः केचिद्धिङ्गुलसप्रभाः ॥ ३.१९१.७६ ॥

有的如姜黄之色,有的如乌鸭,有的带莲叶之光,有的光彩如朱砂。

3.191.77

केचित्पुरवराकाराः केचिद्गजकुलोपमाः ।
केचिदञ्जनसंकाशाः केचिन्मकरसन्निभाः ॥ ३.१९१.७७ ॥

有的形如殊胜的城池,有的如象群,有的如眼膏,有的如摩羯鱼。

3.191.78

विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः ।
घोररूपा महाराज घोरस्वननिनादिताः ॥ ३.१९१.७८ ॥

浓密的云团缠绕着闪电之鬘升起。大王啊,它们形貌可怖,以恐怖的轰鸣咆哮。

3.191.79

ततो जलघराः सर्वं व्याप्नुवनति नभस्तलम् ।
गर्जन्तः पृथिवीपाल पृथिवीधरसन्निभाः ॥ ३.१९१.७९ ॥

于是载水的云朵遍布整个天空,轰鸣着,哦,大地的守护者,宛如支撑大地的山岳。

3.191.80

तैरियं पृथिवी सर्वा सपर्वतवनाकरा ।
आपूर्यते महाराज सलिलौघपरिप्लुता ॥ ३.१९१.८० ॥

大王啊,这整个大地,连同山岳、森林和矿藏,都被这些水流注满并淹没了。

3.191.81

ततस्ते जलदा घोरा राविणः पुरुषर्षभ ।
पर्वतान्प्लावयन्त्याशु चोदिताः परमेष्ठिना ॥ ३.१९१.८१ ॥

于是那些可怖而咆哮的云,哦,人中之牛,受至上主驱使,迅速开始淹没群山。

3.191.82

वर्षमाणा महत्तोयं पूरयन्तो वसुंधराम् ।
सुघोरमशिवं रौद्रं नाशयनति च पावकम् ॥ ३.१९१.८२ ॥

降下巨大的水流,充满大地,以最可怖、不祥、狂暴的形态,它们甚至熄灭了火焰。

3.191.83

ततो द्वादशवर्षाणि पयोदास्त उपप्लवे ।
धाराभिः पूरयन्तो वै चोद्यमाना महात्मना ॥ ३.१९१.८३ ॥

随后,在那场大劫中,那些云层受大智慧者驱使,十二年间以水流不断充满大地。

3.191.84

ततः समुद्रः स्वां वेलामतिक्रामति भारत ।
पर्वताश्च विदीर्यन्ते मही चापि विदीर्यते ॥ ३.१९१.८४ ॥

婆罗多之子啊,于是大海越过了自己的岸界;山岳崩裂,大地也裂开了。

3.191.85

सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम् ।
संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः ॥ ३.१९१.८५ ॥

那些云朵从四面八方突然迷乱,包围天空,被风的疾速击打而消散。

3.191.86

कततस्तं मारुतं घोरं स्वयंभूर्मनुजाधिप ।
आदिः पद्मालयो देवः पीत्वा स्वपिति भारत ॥ ३.१९१.८६ ॥

人主啊,饮尽那可怕的风之后,居于莲花之上的自生、原初之神沉睡,婆罗多啊。

3.191.87

तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरगणए यक्षराक्षसवर्जिते ॥ ३.१९१.८७ ॥

在那可怕的唯一大海中,静止与运动之物俱灭,天神与阿修罗之众俱灭,夜叉与罗刹也都不存在时。

3.191.88

निर्मनुष्ये महीपाल निःश्वापदमहीरुहे ।
अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमातुरः ॥ ३.१९१.८८ ॥

护地之王啊,在这没有人、没有猛兽与树木、连虚空也没有的世界里,我独自焦灼地流浪。

3.191.89

एकार्णवे जले घोरे विचरन्पार्थिवोत्तम ।
अपश्यन्सर्वभूतानि वैक्लब्यमगमं ततः ॥ ३.१९१.८९ ॥

王中之最啊,我在那可怕的唯一大海水中漂流,看不见任何众生,于是陷入了沮丧。

3.191.90

ततः सुदीर्घं गत्वाऽहं प्लवमानो धराधिप ।
श्रान्तः क्वचिन्न शरणं लब्धवानस्म्यतन्द्रितः ॥ ३.१९१.९० ॥

然后,大地之主啊,我游了很远,疲惫不堪,却到处找不到庇护,虽然我并不懈怠。

3.191.91

ततः कदाचित्पश्यामि तस्मिन्सलिलसंनिघौ ।
न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते ॥ ३.१९१.९१ ॥

此后某时,我在那水边看见一棵极大、极宽广的榕树,大地之主啊。

3.191.92

शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप ।
पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते ॥ ३.१९१.९२ ॥

在那棵树伸展的枝条上,人主啊,大地的守护者,一张铺着天界织物的床榻上。

3.191.93

उपविष्टं महाराज पद्मेन्दुसदृशाननम् ।
फुल्लपद्मविशालाक्षं बालं पश्यामि भारत ॥ ३.१९१.९३ ॥

大王啊,婆罗多之后,我看见一个坐着的孩童,面容如莲花与明月,宽大的眼睛如盛开的莲花。

3.191.94

ततो मे पृतिवीपाल विस्मयः सुमहाभूत् ।
कथं त्वयं शिशुः शेते लोके नाशमुपागते ॥ ३.१९१.९४ ॥

那时,大地的守护者啊,我极为惊讶:世界已走向毁灭,这个孩子怎么还在睡觉?

3.191.95

तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये ।
भूतं भव्यं भविष्यं च जानन्नपि नराधिप ॥ ३.१९१.९५ ॥

我以苦行深思,却仍不能辨识那孩童,人主啊,尽管我知过去、未来与现在。

3.191.96

अतसीपुष्पवर्णाभः श्रीवत्सकृतभूषणः ।
साक्षाल्लक्ष्म्या इवावास स तदा प्रतिभाति मे ॥ ३.१९१.९६ ॥

他身带亚麻花般的光彩,以室利吠托萨之纹为饰;那时他在我看来,就像吉祥天女的真正居所。

3.191.97

ततो मामब्रवीद्बालः स पद्मनिभलोचनः ।
श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम् ॥ ३.१९१.९७ ॥

那时,这位眼如莲瓣、佩戴室利跋差标记、光彩焕发的少年,对我说出了悦耳的话语。

3.191.98

जानामि त्वां परिश्रान्तं तात विश्रामकाङ्क्षिणम् ।
मार्कण्डेय महासत्वं यावदिच्छसि भार्गव ॥ ३.१९१.९८ ॥

孩子,我知道你已疲惫,渴望休息。摩根德耶,大心的婆利古后裔,想休息多久便休息多久。

3.191.99

अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम ।
आस्खेह विहितो वासः प्रसादस्ते कृतो मया ॥ ३.१९१.९९ ॥

最优秀的圣人啊,请进入我的体内;这里已为你安排好了住所。我已赐予你这份恩典。

3.191.100

ततो बालेन तेनैव मुक्तस्यासीत्तदा मम ।
निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत ॥ ३.१९१.१०० ॥

那时,我被那少年释放,婆罗多啊,我对漫长的生命和人类的存在感到厌倦。

3.191.101

ततो बालेन तेनास्यं सहसा विवृतं कृतम् ।
तस्याहमवशो वक्रे दैवयोगात्प्रवेशितः ॥ ३.१९१.१०१ ॥

那时,少年忽然张开了口;因天命所致,我无力自主,被引入了他的口中。

3.191.102

ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप ।
सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् ॥ ३.१९१.१०२ ॥

那时,人主啊,我忽然进入他的腹中,看见了充满国土与城市的整个大地。

3.191.103

गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम् ।
चर्मण्वतींवेत्रवतीं चन्द्रभागां सरस्वतीम् ॥ ३.१९१.१०३ ॥

恒河、设多卢、悉多、阎牟那,又有考希基、旃摩婆提、韦特拉婆提、月河与萨罗私伐底。

3.191.104

सिन्धुं चैव विपाशां च नदीं गोदावरीमपि ।
वस्वोकसारां नलिनीं नर्मदां चैव भारत ॥ ३.१९१.१०४ ॥

信度河与毗波沙河,又有戈达瓦里河、伐斯沃卡萨拉河、那利尼河与那尔摩达河,婆罗多之子啊。

3.191.105

नदीं ताम्रां च वेणां च पुण्यतोयां शुभावहाम् ।
सुवेणां कृष्णवेणां च इरामां च महानदीम् ॥ ३.१९१.१०५ ॥

淡摩河与吠那河,水圣而带来吉祥;又有苏吠那河、黑吠那河,以及大河伊罗摩。

3.191.106

वितस्तां च महाराज कावेरीं च महानदीम् ।
तुङ्गभद्रां कृष्णवेणीं कमलां च महानदीम्।
शोणं च पुरुषव्याघ्र विशल्यां किंपुनामपि ॥ ३.१९१.१०६ ॥

维塔斯塔河,大王啊,大河羯毗利,通加跋陀罗河,黑维尼河,大河迦摩罗,人中虎啊,又有首那河、毗舍利耶河与钦普那河。

3.191.107

एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम ।
परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः ॥ ३.१९१.१०७ ॥

这些以及大地上其他的河流,人中之最啊,我在那大德者的腹中巡行时都看见了。

3.191.108

ततः समुद्रं पश्मामि यादोगणनिषेवितम् ।
रत्नाकरममित्रघ्न पयसोनिधिमुत्तमम् ॥ ३.१९१.१०८ ॥

接着我看见大海,为群群水族所依栖,乃宝藏之库,灭敌者啊,是水中的至上宝库。

3.191.109

ततः पश्यामि गगनं चन्द्रसूर्यविराजितम् ।
जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभम् ॥ ३.१९१.१०९ ॥

随后我看见天空,由月亮和太阳装饰,以其光辉闪耀,光芒如火与太阳一般。

3.191.110

पश्यामि च महीं राजन्काननैरुपशोभिताम् ।
सपर्वतवनद्वीपां निम्नगाशतसंकुलाम् ॥ ३.१९१.११० ॥

国王啊,我看见大地,被森林装饰,有山岳、树林与岛屿,布满数百条河流。

3.191.111

यजन्ते हि ततो राजन्ब्राह्मणा बहुभिर्मखैः ।
क्षत्रियाश् प्रवर्तन्ते सर्ववर्णानुरञ्जनैः ॥ ३.१९१.१११ ॥

然后,国王啊,婆罗门以多种祭祀行祭,刹帝利则延续其职,使所有种姓都感到欢喜。

3.191.112

वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप ।
शुश्रूषायां च निरता द्विजानां वृषलास्तथा ॥ ३.१९१.११२ ॥

人主啊,吠舍依法令人耕种;首陀罗也同样专心侍奉再生族。

3.191.113

ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः ।
हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् ॥ ३.१९१.११३ ॥

国王啊,我在那位大灵的腹中飘游,看见喜马拉雅,也看见赫玛库达山。

3.191.114

निषधं चापि पश्यामि श्वेतं च रजतान्वितम् ।
पश्यामि च महीपाल पर्वतं गन्धमादनम् ॥ ३.१९१.११४ ॥

我也看见尼沙陀山,以及蕴藏白银的白山;护持大地的国王啊,我看见乾陀摩陀那山。

3.191.115

मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम् ।
पश्यामि च महाराज मेरु कनकपर्वतम् ॥ ३.१९१.११५ ॥

人中之虎啊,我看见曼陀罗山,也看见那座蓝色的大山。大王啊,我看见金山须弥山。

3.191.116

महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम् ।
मलयं चापि पश्यामि पारियात्रं च पर्वतम् ॥ ३.१९१.११६ ॥

我看见摩醯因陀罗山,也看见殊胜的山脉温底耶。我也看见摩罗耶山,以及波利耶特罗山。

3.191.117

एते चान्ये च बहवो यावन्तः पृथिवीधराः ।
तस्योदरे मया दृष्टाः सर्वे रत्नविभूषिताः ॥ ३.१९१.११७ ॥

这些以及其他许多承载大地的山脉,都装饰着宝石,我都在他的腹中看见了。

3.191.118

सिंहान्व्याघ्रान्वराहांश्च पश्यामि मनुजाधिप ।
पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते।
तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा ॥ ३.१९१.११८ ॥

人主啊,我看见狮子、老虎和野猪。世界之主啊,地上的其他一切生灵,我在那里都看见了,我当时便在其中游走。

3.191.119

कुक्षौ तस् नरव्याघ्र प्रविष्टः संचरन्दिशः ।
शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणानहम् ॥ ३.१९१.११९ ॥

人中之虎啊,我进入他的腹中,在四方游走,看见了因陀罗等神,也看见了所有的天神众。

3.191.120

साध्यान्रुद्रांस्तथाऽऽदित्यान्गुह्यकान्पितरस्तथा ।
सर्पान्नागान्सुपर्णांश्च वसूनप्यश्विनावपि ॥ ३.१९१.१२० ॥

萨陀耶神、楼陀罗神、阿提耶神、古耶迦神和祖先们;蛇、龙、金翅鸟、婆苏神,以及二位双马神。

3.191.121

गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते ।
दैत्यदानवसङ्घांश्च नागांश्च मनुजाधिप ॥ ३.१९१.१२१ ॥

大地之主啊,乾闼婆、阿普萨拉斯、夜叉、仙人、提耶与檀那婆的众群,以及那伽,人主啊。

3.191.122

सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः ।
यच्च किंचिन्मया लोके दृष्टं स्थावरजङ्गमम् ॥ ३.१९१.१२२ ॥

辛希卡之子以及诸神的其他敌人,还有我在世间所见的一切静与动之物。

3.191.123

सर्वं पश्याम्यहं राजंस्तस्य कुक्षौ महात्मनः ।
त्वरमाणः फलाहारः कृत्स्नं जगदिदं विभो ॥ ३.१९१.१२३ ॥

大王啊,我在那大灵的腹中看见一切;我急急如食果者,啊大能之主,看见整个这个世界。

3.191.124

अन्तःशरीरे तस्याहं वर्षाणामधिकं शतम् ।
न च पश्यामि यस्याहं देहस्यान्तं कदाचन ॥ ३.१९१.१२४ ॥

在他的身体之内,我停留了一百多年,却从未见到那身体的尽头。

3.191.125

सततं धावमानश्च चिन्तयानो विशांपते ।
भ्रमंस्तत्र महीपाल यदा वर्षगणान्बहून्।
आसादयामि नैवान्तं तस्य राजन्महात्मनः ॥ ३.१९१.१२५ ॥

我不停地奔走、沉思,啊人主,护地之王,我在那里漂泊;虽然经过了许多岁月,大王啊,我仍未能到达那大灵的尽头。

3.191.126

ततस्तमेव शरणं गतोस्मि विधिवत्तदा ।
वरेण्यं वरदं देवं मनसा कर्मणैव च ॥ ३.१९१.१२६ ॥

那时我依照仪轨归依于他,那位最殊胜、施予恩赐的神,以心,也以行。

3.191.127

ततोऽहं सहसा राजन्वायुवेगेन निःसृतः ।
महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम ॥ ३.१९१.१२७ ॥

于是,大王,我忽然以风速从那大心者张开的口中出来,哦人中之最。

3.191.128

ततस्तस्यैव शाखायां न्यग्रोधस्य विशांपते ।
आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत् ॥ ३.१९१.१२८ ॥

然后,在那棵榕树的同一根枝上,哦人民之主,哦人中猛虎,他坐着,托着整个世界。

3.191.129

ते नैव बालवेषेण श्रीवत्सकृतलक्षणम् ।
आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम् ॥ ३.१९१.१२९ ॥

哦人中猛虎,我看见他以孩童之形,带着室利瓦特萨之相,坐着,光辉无量。

3.191.130

ततो मामब्रवीद्बालः स प्रीतः प्रहसन्निव ।
श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः ॥ ३.१९१.१३० ॥

那时,那孩子欢喜地仿佛笑着对我说——他带着室利瓦特萨之相,光彩焕发,身着黄衣,大光明。

3.191.131

अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम ।
उषितस्त्वं परिश्रान्तो मार्कण्डेय ब्रवीहि मे ॥ ३.१९१.१३१ ॥

哦圣者中最殊胜者,你在我这身体中住了这许久,如今是否已经疲倦了?哦摩哂德耶,告诉我。

3.191.132

मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा ।
मायानिर्मुक्तमात्मनमपश्यं लब्धचेतसम् ॥ ३.१९१.१३२ ॥

随后片刻之后,我的视觉重新焕发,我看见自己已脱离幻力,恢复了知觉。

3.191.133

तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ ।
सुजातौ मृदुरक्ताभिरङ्गुलीभिर्विराजितौ ॥ ३.१९१.१३३ ॥

孩子啊,他的铜色脚掌稳稳立着,形态优美,以柔软的赤红脚趾闪耀光华。

3.191.134

प्रयत्नेन मया मूर्ध्ना गृहीत्वा ह्यभिवनदितौ ।
दृष्ट्वाऽपरिमितं तस् प्रभावममितौजसः ॥ ३.१९१.१३४ ॥

我费力以头接住它们并恭敬礼拜,见到了这无限威力者不可量度的神力。

3.191.135

विनयेनाञ्जलिं कृत्वाप्रयत्नेनोपगम्य ह ।
दृष्टो मया स भूतात्मा देवः कमललोचनः ॥ ३.१९१.१३५ ॥

我谦卑合掌,毫不费力地走近,看见了他——众生之灵,莲花眼的神。

3.191.136

तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रवम् ।
ज्ञातुमिच्छामि देव त्वां मायां चैतां तवोत्तमाम् ॥ ३.१९१.१३६ ॥

我合掌向他礼拜,说道:“神啊,我想认识你,也想认识你这至高的幻力。”

3.191.137

आस्येनानुप्रविष्टोऽहं शरीरे भगवंस्तव ।
दृष्टवानखिलाँल्लोकान्समस्तान्जठरे हि ते ॥ ३.१९१.१३७ ॥

世尊啊,我从你的口中进入你的身体,在你的腹中看见了所有的世界。

3.191.138

तव देव शरीरस्था देवदानवराक्षसाः ।
यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम् ॥ ३.१९१.१३८ ॥

神啊,在你的身体中居住着天神、檀那婆、罗刹、夜叉、乾闼婆和龙,以及动与不动的世界。

3.191.139

त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते ।
द्रुतमन्तःशरीरे ते सततं परिवर्तिनः ॥ ३.१९१.१३९ ॥

神啊,因你的恩典,我的记忆不会衰退。在你体内不断运行的众生很快显现了。

3.191.140

निर्गतोऽहमकामस्तु इच्छया ते महाप्रभो ।
यतिष्ये पुण्डरीकाक्ष ज्ञातुं त्वाऽहमनिन्दितं ॥ ३.१९१.१४० ॥

伟大的主啊,依你的意愿,我无欲地出来了。莲花眼者啊,我将努力认识那无瑕之者。

3.191.141

इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते ।
पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि ॥ ३.१९१.१४१ ॥

你为何在此直接化为婴儿停留?吞饮了这整个世界之后,你理应将这一切告诉我。

3.191.142

किमर्थं च जगत्सर्वं शरीरस्थं तवानघ ।
कियन्तं च त्वया कालमिह स्थेयमरिंदम ॥ ३.१९१.१४२ ॥

无罪者啊,这整个世界居于你的身体中是为了什么?降伏敌人者啊,你将在此停留多久?

3.191.143

एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया ।
त्वत्तः कमलपत्राक्षं विस्तरेण यथातथम्।
महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो ॥ ३.१९१.१४३ ॥

诸神之主啊,出于一位婆罗门的愿望,我希望从你这里详细、如实地听闻此事,莲花瓣眼者啊。主啊,我所见之事既伟大又不可思议。

3.191.144

इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः ।
सान्त्वयन्मामिदं वाक्यमुवाच वदतांवरः ॥ ३.१९१.१४४ ॥

我这样说后,那位尊贵的诸神之神、大光明者、言辞最善者,安慰我说出了这番话。