Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.209

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.209.1

कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः ।
तपस्वी धर्मशीलश्च कौशिको नाम भारत ॥ ३.२०९.१ ॥

婆罗多啊,有一位名叫憍尸迦的再生者中的上首,诵读吠陀,以苦行为财富,是修苦行、守法的人。

3.209.2

साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः ।
सवृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः ॥ ३.२०९.२ ॥

这位再生者中的上首研习吠陀及其支分与奥义书;他在某处一棵树下站立,高声诵读吠陀。

3.209.3

उपरिष्टाच्च वृक्षस्य बलाका संन्यलीयत ।
तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि ॥ ३.२०९.३ ॥

树上方有一只鹤飞来栖息,它便将粪便排泄在那婆罗门身上。

3.209.4

समवेक्ष्यततः क्रुद्धः सममध्यायत द्विजः ।
तां बलकां महाराज निलीनां नगमूर्धनि ॥ ३.२०९.४ ॥

那婆罗门看见后立刻愤怒,便将心念集中于那只隐藏在树梢的鹤,大王啊。

3.209.5

भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता ।
अपध्याता च विप्रेण न्यपतद्धरणीतले ॥ ३.२०९.५ ॥

婆罗门被极大的愤怒所笼罩,看着那只鹤;那鹤被婆罗门诅咒,坠落到地面上。

3.209.6

बलाकां पतितां दृष्ट्वा गतसत्वामचेतनाम् ।
कारुण्यादभिसंतप्तः पर्यशोचत तां द्विजः।
अकार्यं कृतवानस्मि द्वेषरागबलात्कृतः ॥ ३.२०९.६ ॥

看见那只鹤倒地,失去生命与知觉,婆罗门出于怜悯而深感痛心,为它哀叹道:“我因憎恨与贪爱之力所驱使,做了不当之事。”

3.209.7

इत्युक्ताव बहुशो विद्वान्ग्रामं भैक्षाय संश्रितः ।
ग्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ ॥ ३.२०९.७ ॥

如此多次说后,这位智者便入村乞食,在村中走访清净的人家,婆罗多中的雄牛啊。

3.209.8

देहीति याचमानोऽसौ तिष्ठेत्युक्तः स्त्रिया ततः ।
शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिवी ॥ ३.२०९.८ ॥

那人乞求说"给我",那女子说"请等一下"。于是,当这位主妇清洗器皿时,

3.209.9

एतस्मिन्नन्तरे राजन्क्षुधासंपीडितो भृशम् ।
भर्ता प्रविष्टः सहसा तस्या भरतसत्तम ॥ ३.२०९.९ ॥

此时,大王啊,她的丈夫因饥饿而极为痛苦,忽然走进屋内,婆罗多中最优秀的人啊。

3.209.10

सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम् ।
पाद्यमाचमनीयं वै ददौ भर्तुस्तथाऽऽसनम् ॥ ३.२०९.१० ॥

那位贤淑的女子见到丈夫,便撇下那位婆罗门,给丈夫奉上洗足水、漱口水和座位。

3.209.11

प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा ।
आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा ॥ ३.२०९.११ ॥

这位黑眼睛的女子低首侍奉丈夫,以食物、美味和极甜美的话语相待。

3.209.12

उच्छिष्टं भाविता भर्तुर्भुङ्क्ते नित्यं युधिष्ठिर ।
दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी ॥ ३.२०९.१२ ॥

犹地施提啊,她对丈夫忠诚专一,总是只吃丈夫剩下的食物;她视丈夫为神明,顺从他的心意。

3.209.13

कर्मणा मनसा वाचा नात्यश्नान्नापि चापिवत् ।
तं सर्वभावोपगता पतिशुश्रूषणे रता ॥ ३.२०९.१३ ॥

她以行为、心意和言语,既不过食,也不过饮;全心奉献,乐于侍奉丈夫。

3.209.14

साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी ।
भर्तुश्चापि हितं यत्तत्सततं साऽनुवर्तते ॥ ३.२०९.१४ ॥

她品行端正、清净能干,一心为家庭谋福;凡对丈夫有益之事,她始终遵从。

3.209.15

देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा ।
शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया ॥ ३.२०९.१५ ॥

她始终致力于侍奉诸神、宾客、仆人,以及公婆,常常约束自己的感官。

3.209.16

सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् ।
कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा ॥ ३.२०९.१६ ॥

那时,这位美目女子看见一位婆罗门站在那里希望得到布施;她正在侍奉丈夫,于是想起了他。

3.209.17

व्रीडिता साऽभवत्साध्वी तदा भरतसत्तम ।
भिक्षामादाय विप्राय निर्जगाम यशस्विनी ॥ ३.२०९.१७ ॥

婆罗多族中最优秀的人啊!那时这位贤德的女子感到羞愧;她取了布施,那位有名望的女子走出去到婆罗门那里。

3.209.18

किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने ।
उपरोधं कृतवती न विसर्जितवत्यसि ॥ ३.२०९.१८ ॥

啊,卓越的女子!你说了“站住”,这是什么意思?你拦住了我,却没有让我离开。

3.209.19

ब्राह्मणं क्रोधसंतप्तं ज्वलन्तमिव तेजसा ।
दृष्ट्वा साध्वी मनुष्येन्द्रसान्त्वपूर्वं वचोऽब्रवीत् ॥ ३.२०९.१९ ॥

那贤淑的女子见婆罗门因愤怒而焦灼,光焰如火,便先以安慰的话语对他说道,人主啊。

3.209.20

क्षमस्वविप्रप्रवर क्षमस्व स्त्रीजडात्मताम् ।
प्रसीद भगवन्मह्यं कृपां कुरु मयि द्विज ॥ ३.२०९.२० ॥

请宽恕我吧,婆罗门中最优秀的人;请宽恕女子天性的愚钝。尊者啊,请对我心生欢喜,施我以慈悲,再生者啊。

3.209.21

क्षन्तुमर्हसि मे विद्वन्भर्ता मे दैवतं महत् ।
स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितोमया ॥ ३.२०९.२१ ॥

学者啊,你应当宽恕我;我的丈夫是我的至高神明。他也饥饿疲惫地归来,我便伺候了他。

3.209.22

ब्राह्मणआ न गरीयांसो गरीयांस्ते पतिः कृतः ।
गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे ॥ ३.२०९.२२ ॥

婆罗门难道不更尊贵吗?你却把你的丈夫视为更尊贵。你身处家主之法,却轻慢婆罗门。

3.209.23

इन्द्रोऽप्येषां प्रणमते किं पुनर्मानवो भुवि ।
अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया ॥ ३.२०९.२३ ॥

即便因陀罗也向他们行礼,何况大地上的凡人!骄傲的女人啊,你不知道吗?你没有听过长者的教诲吗?

3.209.24

ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि ।
सपर्वतवनद्वीपां क्षिप्रमेवावमानिताः ॥ ३.२०९.२४ ॥

婆罗门如同火焰,一旦受到轻慢,便能迅速焚烧大地,连同山岳、森林与岛屿。

3.209.25

नाहं बलाका विप्रर्षे त्यज क्रोधं तपोधन ।
अनया क्रुद्धया दृष्ट्या क्रुद्धः किं मां करिष्यसि ॥ ३.२०९.२५ ॥

我不是白鹭,婆罗门中的圣仙啊。苦行者,请息怒。你以这愤怒的目光发怒,又能把我怎样?

3.209.26

नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः ।
अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ ॥ ३.२०९.२६ ॥

我不轻视与诸神同等、心志高尚的婆罗门。婆罗门啊,无垢者,请你宽恕我这次的过错。

3.209.27

जानामि तेजो विप्राणआं महाभाग्यं च धीमताम् ।
अपेयः सागरः क्रोधात्कृतो हि लवणोदकः ॥ ३.२०९.२७ ॥

我知道婆罗门的威力和智者的大福。确实,大海正是因愤怒而变成了咸水、不可饮用。

3.209.28

तथैव दीप्ततपसां मुनीनां भावितात्मनाम् ।
येषां क्रोधाग्निरद्यापि समुद्रे नोपशाम्यति।
कस्तान्परिभवेन्मूढो ब्राह्मणानमितौजसः ॥ ३.२०९.२८ ॥

同样,苦行炽盛、心志纯净的圣仙之怒火,至今仍未在大海中熄灭。哪个愚人会侮辱这些威力无量的婆罗门?

3.209.29

ब्राह्मणानां परिभवाद्वातापिः सुदुरात्मवान् ।
अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः ॥ ३.२०९.२९ ॥

因为侮辱婆罗门,极其邪恶的伐多毗来到圣仙阿伽斯提亚面前,便被消耗殆尽——那残暴的大阿修罗。

3.209.30

बहुप्रभावाः श्रूयन्ते ब्राह्मणानां महात्मनाम् ।
क्रोधः सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम्।
अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ ॥ ३.२०९.३० ॥

人们常听说大德婆罗门的诸多威力;婆罗门啊,他们的愤怒极为强烈,大德之人的恩宠也同样广大。但在这次冒犯中,婆罗门啊,无垢者,请你宽恕我。

3.209.31

पतिशुश्रूषया धर्मो य स मे रोचते द्विज ।
दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् ॥ ३.२०९.३१ ॥

侍奉丈夫所成就的法,我甚为喜爱,婆罗门啊。在一切天神之中,我的丈夫便是我至高的神。

3.209.32

अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम ।
शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम् ॥ ३.२०९.३२ ॥

最优秀的再生者啊,我对他全心全意地履行法。婆罗门啊,请看侍奉丈夫的果报是怎样的。

3.209.33

बलाका हि त्वया दग्धा रोषात्तद्विदितं मया ।
क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम ॥ ३.२०९.३३ ॥

最优秀的再生者啊,你因愤怒而烧死了白鹤,这我是知道的。愤怒是居于人体之内的仇敌。

3.209.34

मास्म क्रुध्यो बलाकेव न वध्याऽस्मि पतिव्रता ।
यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः ॥ ३.२०९.३४ ॥

不要愤怒。我不应像白鹤那样被杀,因为我是忠于丈夫的妻子。诸神称那舍弃愤怒与迷惑的人为婆罗门。

3.209.35

यो वदेदिह सत्यानि गुरुं संतोषयेत च ।
हिंसितश्च त हिंसेत तं देवा ब्राह्मणं विदुः ॥ ३.२०९.३५ ॥

在此说真话、使师长欢喜、虽被伤害却不伤害他人的人,诸神称他为婆罗门。

3.209.36

जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः ।
कामक्रोधौ वशौ यस्य तं देवा ब्राह्मणं विदुः ॥ ३.२०९.३६ ॥

已克制诸根、专注于法与自修、清净、欲望与愤怒皆受其控制的人,诸神称他为婆罗门。

3.209.37

यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः ।
सर्वधर्मेषु चरतस्तं देवा ब्राह्मणं विदुः ॥ ३.२०९.३७ ॥

对于视世界如同自身、通晓法、心智明达并行持一切法的人,诸神称他为婆罗门。

3.209.38

योऽध्यापयेदधीयीत यजेद्वा याजयीत वा ।
दद्याद्वाऽपि यथाशक्ति तं देवा ब्राह्मणं विदुः ॥ ३.२०९.३८ ॥

教授、学习、祭祀或促使他人祭祀、或量力布施的人,诸神称他为婆罗门。

3.209.39

ब्राह्मचारी वदान्यो योप्यधीयाद्द्विजपुङ्गवः ।
स्वाध्यायवानमत्तो वै तं देवा ब्राह्मणं विदुः ॥ ३.२०९.३९ ॥

若为梵行者、慷慨、勤学的再生者中之上首,专心诵习而不放纵,诸神确实称他为婆罗门。

3.209.40

यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत् ।
सत्यं तथा व्याहरतां नानृते रमते मनः ॥ ३.२०९.४० ॥

凡有益于婆罗门之事,应当为他们宣扬。说真话之人的心,不会乐于虚妄。

3.209.41

धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम् ।
इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ॥ ३.२०९.४१ ॥

人们说,婆罗门的财富是诵习、克己与正直;而制伏诸根,则是永恒的财富,啊,再生者中最优秀者。

3.209.42

सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः ।
दुर्ज्ञेयः शाश्वतो धर्मः स च सत्ये प्रतिष्ठितः ॥ ३.२०९.४२ ॥

知法之人说,最高的法在于真实与正直。永恒的法难以知晓,而它立足于真实之中。

3.209.43

श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम् ।
बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम ॥ ३.२०९.४३ ॥

法应以天启圣典为依据,此乃长者之教。法以多种方式显现,而且,最优秀的再生者啊,它确实是微妙的。

3.209.44

भगवानपि धर्मज्ञः स्वाद्यायनिरतः शुचिः ।
न तु तत्त्वेन भगवन्दर्मं वेत्सीति मे मतिः ॥ ३.२०९.४४ ॥

您虽为尊贵之人,通晓法,专心诵习吠陀,且清净,然而尊者啊,依我之见,您其实并不真正知道法。

3.209.45

यदि विप्र न जानीषे धर्मं परमकं द्विज ।
धर्मव्याधं तत पृच्छ गत्वा तु मिथिलां पुरीम् ॥ ३.२०९.४५ ॥

婆罗门啊,再生者啊,若你不知至上的法,便前往弥提罗城,去问法猎人本人。

3.209.46

मातापितृभ्यां शुश्रूपुः सत्यवादी जितेन्द्रियः ।
मिथिलायां वसेद्व्याधः स ते धर्मान्प्रवक्ष्यति ॥ ३.२०९.४६ ॥

那位侍奉父母、言语真实、克制诸根的猎人,居住在弥提罗;他将为你讲说诸法。

3.209.47

तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम ।
व्याधः परमधर्मात्मा स ते छेत्स्यति संशयम् ॥ ३.२०९.४७ ॥

前往那里吧,愿你吉祥;随你心意而行,再生者中最优秀者啊。那位以至上法为自性的猎人,将斩断你的疑惑。

3.209.48

अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित ।
स्त्रियो ह्यवध्याः सर्वेषां ये धर्ममभिविन्दते ॥ ३.२०९.४८ ॥

无可指摘的女子啊,我所说的一切,即便说得过分,你也应当宽恕。女子不可被任何人杀害,尤其是那些获得法的女子。

3.209.49

प्रीतोस्मि तव भद्रं ते गतः क्रोधश्च शोभने ।
उपालम्भस्त्वया प्रोक्तो मम निश्रेयसं परम् ॥ ३.२०९.४९ ॥

我很欢喜,愿你吉祥。光彩照人的女子啊,我的怒气也已消散。你所说的责备,对我而言是至高的福益。

3.209.50

स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने ।
धन्या त्वमसि कल्याणि यस्याः स्याद्वृत्तमीदृशम्। ॥ ३.२०९.५० ॥

愿你平安。光彩照人的女子啊,我将前去完成我的事。吉祥的女子啊,你这样的品行,真是有福之人。

3.209.51

तया विसृष्टो निर्गत्य स्वमेव भवनं ययौ ।
विनिन्दन्स स्वमात्मानं कौशिको द्विजसत्तमः
वस्त्रिणो वस्त्रदा यान्ति अवस्त्रा यान्त्यवस्त्रदाः ॥ ३.२०९.५१ ॥

他被她遣送,走出去回到自己的家中。二生者中最优秀的憍尸迦一边责备自己。施予衣物的人以衣着而去,不施予衣物的人则赤身而去。