摩诃婆罗多 · 章 3.210
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.210.1
चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेपतः ।
विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ ॥ ३.२१०.१ ॥
思索那奇事,回想女子所说的一切,这位再生婆罗门自责不已,仿佛犯了过错一般。
3.210.2
चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत् ।
श्रद्दधानेन वै भाव्ये गच्छामि मिथिलामहम् ॥ ३.२१०.२ ॥
他思索法的精微之道,随后说道:怀着对可信之事的信心,我必将前往弥提罗。
3.210.3
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल ।
तं गच्चाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् ॥ ३.२१०.३ ॥
据说那里住着一位自制、通晓法的猎人。为向这位功德圆满的苦行者请教法,我今天就去。
3.210.4
इतिसंचिन्त्य मनसा श्रद्दधानः स्त्रिया वचः ।
बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः ॥ ३.२१०.४ ॥
他心中如此思量,信从女子之言,依据白鹤的证言,以合法而吉祥的话语,便动身了。
3.210.5
संप्रतस्थे स मिथिलां कौतूहलसमन्वितः ।
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च ॥ ३.२१०.५ ॥
怀着好奇之心,他向弥提罗出发,穿过森林、村落和城市。
3.210.6
ततो जगाम मिथिलां जनकेन सुरक्षिताम् ।
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् ॥ ३.२१०.६ ॥
随后他前往弥提罗,此城受遮那卡妥善守护,满布法之桥梁,充满祭祀节庆。
3.210.7
गोपुराट्टालकवतीं हर्म्यप्राकारशोभनाम् ।
प्रविश्य नगरीं रम्यां विमानैर्बहुभिर्युताम् ॥ ३.२१०.७ ॥
进入那座迷人的城市,城门与望楼林立,宫室与城墙增添其美,众多宫殿充盈其中。
3.210.8
पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम् ।
अश्वै रथैस्तथा नागैर्योधैश्च बहुभिर्युताम् ॥ ३.२१०.८ ॥
货物众多,大道划分得井然有序,车马、象群与众多战士充满其中。
3.210.9
हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् ।
सोऽपस्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् ॥ ३.२१०.९ ॥
城中充满欢欣而丰足的民众,常年节庆喧闹,诸多事件层出,婆罗门穿行其间,见到了这一切。
3.210.10
धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः ।
अपश्यत्तत्रगत्वा तं सूनामध्ये व्यवस्थितम् ॥ ३.२१०.१० ॥
他询问猎人达摩,诸再生者告诉了他。他前往那里,看见他坐在屠肆之中。
3.210.11
मार्गमाहिपमांसानि विक्रीणन्तं तपस्विनम् ।
आकुलत्वाच्च क्रेतृणामेकान्ते संस्थितो द्विजः ॥ ३.२१०.११ ॥
他看见那位苦行者在卖鹿肉与水牛肉;因买主众多,这位婆罗门便站在一个僻静之处。
3.210.12
स तु ज्ञाता द्विजं प्राप्तं सहसा संभ्रमोत्थितः ।
आजगाम यतो विप्रः स्थित एकान्तआसने ॥ ३.२१०.१२ ॥
他认出婆罗门已到,便急忙骤然起身,走到那位婆罗门站在僻静座位的地方。
3.210.13
अभिवादये त्वां भगवन्स्वागतं ते द्विजोत्तम ।
अहं व्याधो हि भद्रं ते किं करोमि प्रशाधि माम् ॥ ३.२१०.१३ ॥
尊者,再生者中的最优者,我恭敬地向您致敬,欢迎您。我是猎人,愿您吉祥。我该做什么?请指教我。
3.210.14
एकपत्न्या यदुक्तोसि गच्छ त्वं मिथिलामिति ।
जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः ॥ ३.२१०.१४ ॥
那位一夫之妻对您说“去往弥提罗”,这一切我都知道;您为何事来到这里,我也知道。
3.210.15
श्रुत्वा च तस्य तद्वाक्यं स विप्रो भृशविस्मितः ।
द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः ॥ ३.२१०.१५ ॥
听到他的这番话,那位婆罗门大为惊异,这位再生者心想:“这是第二件奇事。”
3.210.16
अदेशस्थं हि ते स्तानमिति व्याघोऽब्रवीद्द्विजम् ।
गृहं गच्छाव भगवन्यदि ते रोचतेऽनघ ॥ ३.२१०.१६ ॥
猎人对那位再生者说:“您在此沐浴不合适。尊者,无罪的人,若您愿意,我们就回家吧。”
3.210.17
बाढमित्येव तं विप्रो हृष्टो वचनमब्रवीत् ।
अग्रतस्तु द्विजं कृत्वा स जगाम गृहं प्रति ॥ ३.२१०.१७ ॥
那位婆罗门欣喜地回答:“好。”于是他让这位再生者走在前面,朝家的方向走去。
3.210.18
प्रविश्य च गृहंरम्यमासनेनाभिपूजितः ।
अर्ध्येण च स वै तेन व्याधेन द्विजसत्तमः ॥ ३.२१०.१८ ॥
这位再生者中的最优者进入这所可爱的房子,被那猎人以座位和净水供养所尊敬……
3.210.19
पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः ।
ततः सुखोपविष्स्तं व्याधं वचनमब्रवीत् ॥ ३.२१०.१९ ॥
这位最优秀的再生者接受了洗足水和漱口水,舒适地坐着,对猎人说了这些话。
3.210.20
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे ।
अनुतप्ये भृशं तात तव घोरेण कर्मणा ॥ ३.२१०.२० ॥
这件事在我看来与你不相称。亲爱的,我因你这可怕的行为而深感痛悔。
3.210.21
कुलोचितमिदं कर्म पितृपैतामहं परम् ।
वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज ॥ ३.२१०.२१ ॥
这一职业适合我的家族,是从父辈和祖辈传下来的最高之业。再生者啊,我坚守自己的本分,请不要对我生气。
3.210.22
विधात्रा विहितं पूर्वं कर्म स्वमनुपालयन् ।
प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम ॥ ३.२१०.२२ ॥
我遵循造物主很早以前所定的本分,细心侍奉年迈的父母,最优秀的再生者啊。
3.210.23
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च ।
देवतातिथिभृत्यानामवशिष्टेन वर्तये ॥ ३.२१०.२३ ॥
我说真话,不嫉妒任何人,量力施舍。我靠神明、客人和仆人之后所余而生活。
3.210.24
न कुत्सयाम्यहं किंचिन्न गर्हे बलवत्तरम् ।
कृतमन्वेति कर्तारं पुरा कर्म द्विजेत्तम ॥ ३.२१०.२४ ॥
我不责怪任何人,也不非难更强大的人。最优秀的再生者啊,前世所作之业会跟随作业者。
3.210.25
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम् ।
दण्डनीतिस्त्रयो विद्या तेन लोको भवत्युत ॥ ३.२१०.२५ ॥
农耕、畜牧与贸易,是此世间的生计。刑罚之治(daṇḍanīti):这三者是三门学问,世界因此而成。
3.210.26
कर्म शूद्रे कृषिर्वैश्ये संग्रामः क्षत्रिये स्मृतः ।
ब्रह्मचर्यतपोमन्त्राः सत्यं च ब्राह्मणे सदा ॥ ३.२१०.२६ ॥
侍奉是首陀罗的职责,农耕是吠舍的职责,战斗则规定为刹帝利的职责。婆罗门则以梵行、苦行、咒语,并且永远以真实为本。
3.210.27
राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः ।
विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु ॥ ३.२१०.२७ ॥
君王依法治理,百姓各守本分。凡有违背本分之人,他便使之回归各自的职守。
3.210.28
भेतव्यं हि सदा राज्ञां प्रजानामधिपा हिते ।
मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः ॥ ३.२१०.२८ ॥
为了民众的福祉,诸王作为民之主宰,总是令人敬畏。如同贪婪的猎人以箭射杀鹿,他们杀死行为失当之人。
3.210.29
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते ।
स्वकर्मनिरता वर्णाश्चत्वारोपि द्विजोत्तम ॥ ३.२१०.२९ ॥
婆罗门仙人啊,在遮那迦的国度里,找不到行为违背本分的人;四种姓,最优秀的再生者啊,都专注于各自的职守。
3.210.30
स एष जनको राजा दुर्वृत्तमपि चेत्सुतम् ।
दण्ड्यं दण्डे निक्षिपति यथा न ग्लाति धार्मिकम् ॥ ३.२१०.३० ॥
这位遮那迦王就是如此:即使自己的儿子行为不端,他也会把应受惩罚者交付刑罚,而不会因正直之人而悲伤。
3.210.31
सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति ।
श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम ॥ ३.२१०.३१ ॥
善于布置密探的君王以法观察一切。婆罗门中最优秀者啊,对刹帝利而言,有吉祥、王国与刑罚之杖。
3.210.32
राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम् ।
सर्वेषामेव वर्णानां त्राता राजा भवत्युत ॥ ३.२१०.३२ ॥
诸王以自身之法寻求大吉祥;君王确实成为一切种姓的守护者。
3.210.33
परेण हि हतान्ब्रह्मन्वराहमहिषानहम् ।
न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् ॥ ३.२१०.३३ ॥
婆罗门啊,我购买他人所杀的野猪和水牛。婆罗门仙人啊,我自己不杀,只是经常售卖。
3.210.34
न भक्षयामि मांसानि ऋतुगामी तथाह्यहम् ।
सदोपवासी च तथा नक्तभोजी सदा द्विज ॥ ३.२१०.३४ ॥
我不食肉,因为我只在时节中行房。再生者啊,我常常斋戒,也常常夜间进食。
3.210.35
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान् ।
प्राणिहिंसारतिश्चापि भवते धार्मिकः पुनः ॥ ३.२१०.३५ ॥
无德之人也会成为有德之人;以伤害众生为乐的人,又可再成为有法之人。
3.210.36
व्यभिचाराननरेन्द्राणां धर्मः संकीर्यते महान् ।
अधर्मो वर्तते चापि संकीर्यन्ते ततः प्रजाः ॥ ३.२१०.३६ ॥
因诸王的越轨,大法便混乱;非法盛行,于是众生也随之混乱。
3.210.37
भेरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च ।
क्लीबाश्चान्धाश्च बधिरा जायन्तेऽत्युच्चलोचनाः ॥ ३.२१०.३७ ॥
生出怪异之人、侏儒、驼背者、大头者、阉人、盲人、聋人,以及双眼极度突出者。
3.210.38
पार्थिवानामधर्मत्वात्प्रजानामभवः सदा ।
स एष राजा जनकः प्रजा धर्मेण पश्यति ॥ ३.२१०.३८ ॥
因为诸王的不义,臣民总是遭受毁灭;而这位国王遮那伽则以正法照顾臣民。
3.210.39
अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा ।
पात्येष राजा जनकः पितृवद्द्विजसत्तम ॥ ३.२१०.३९ ॥
这位遮那伽王恩惠于所有恒守本分的臣民,如父亲一般养育他们,啊,婆罗门中的最优者。
3.210.40
येचैव मां प्रशंसन्ति येच निन्दन्ति मानवाः ।
सर्वान्सुपरिणीतेन कर्माणा तोषयाम्यहम् ॥ ३.२१०.४० ॥
无论称赞我的人还是指责我的人,我都以完善的行为使他们全部满意。
3.210.41
ये जीवन्ति स्वधर्मेण संयुञ्जन्ति च पार्थिवाः ।
न किंचिदुपजीवनति दान्ता उत्थानसीलिनः ॥ ३.२१०.४१ ॥
那些依自身本分而生活、并专心于此的国王,克己而勤勉,不依赖任何他物。
3.210.42
शक्त्याऽन्नदानं सततं तितिक्षा धर्मनित्यता ।
यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया ॥ ३.२१०.४२ ॥
依自身能力常施食物,忍耐,恒守正法,依其应得而回敬,并对一切众生怀有慈悲。
3.210.43
त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठान्ति पूरुषे ।
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः ॥ ३.२१०.४३ ॥
除了舍弃,凡人身上的德性不会长存。应当避免虚妄之言,不待请求而做令人欣悦之事。
3.210.44
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ।
प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत् ॥ ३.२१०.४४ ॥
不应因贪欲、愤怒或憎恨而舍弃法。对于可意之事不应过度欢喜,对于不可意之事不应烦恼。
3.210.45
न मुह्येदर्थकृच्छ्रेषु न च धऱ्मं परित्यजेत् ।
कर्म चेत्किंचिदन्यत्स्यादितरन्न तदाचरेत् ॥ ३.२१०.४५ ॥
在财富的困境中不应迷惑,也不应舍弃法。若另有他事,则不应去做与之相违之事。
3.210.46
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ।
न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् ॥ ३.२१०.४६ ॥
应当思念善好之事,并使自己专注于其中。不应对恶人以恶相报,而应始终保持善良。
3.210.47
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ।
कर्म चैतदसाधूनां वृजिनानामसाधुकम् ॥ ३.२१०.४७ ॥
欲作恶的恶人,实为自己所杀。这是不善之人、罪人的行为,是邪恶的。
3.210.48
न धर्मोस्तीति मन्वानाः शुचीनवहसन्ति ये ।
अश्रद्दधाना धर्मस् ते नश्यन्ति न संशयः ॥ ३.२१०.४८ ॥
那些以为'没有法'而嘲笑清净者、缺乏信心的人,必定灭亡——对此毫无疑问。
3.210.49
महादृतिरिवाध्मातः पापो भवति नित्यदा ।
साधुः सन्नतिमानेव सर्वत्रद्विजसत्तम ॥ ३.२१०.४९ ॥
如大风箱般鼓胀,罪人总是骄矜自大;而善人到处都谦逊,啊,二生者中最优秀的人。
3.210.50
मूढानामवलिप्तानामसारं भाषितं भवेत् ।
दर्शयन्त्यन्तरात्मानं दिवा रूपमिवांशुमान् ॥ ३.२१०.५० ॥
愚昧者与傲慢者的言语毫无实质;他们暴露自己的内心,正如白日里太阳显露其形。
3.210.51
न लोके राजते मूर्खः केवलात्मप्रशंसया ।
अपिचेह मृजाहीनः कृतविद्यः प्रकाशते ॥ ३.२१०.५१ ॥
在世上,愚人仅靠自我夸耀不会闪耀;即使有学问的人,若缺少修养,在此也不会闪耀。
3.210.52
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् ।
न कश्चिद्गुणसंपन्नः प्रकाशो भुवि दृश्यते ॥ ३.२१०.५२ ॥
有德之人,既不非议他人,也不自我吹捧,在大地上却不见其显赫。
3.210.53
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते ।
न तत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते ॥ ३.२१०.५३ ॥
因恶行而懊悔的人便从罪中解脱;立下“我不会再做”的决心,便从第二次的罪中解脱。
3.210.54
कर्मणा येन केनापि पापात्मा द्विजसत्तम ।
एवं श्रुतिरियं ब्रह्मन्धर्मेषु प्रतिदृश्यते ॥ ३.२१०.५४ ॥
无论以何种行为,罪人之魂都可解脱,啊,二生者中最优秀的人;婆罗门啊,这一教导在法的事务中便是如此显现的。
3.210.55
पापनि बुद्ध्वेह पुरा कृतानि ।
स्वधर्मशीलो विनिहन्ति पश्चात्।
धर्मो ब्रह्मन्नुदते ब्राह्मणानां ।
यत्कुर्वते पापमिह प्रमादात् ॥ ३.२१०.५५ ॥
若于此世知晓往昔所作之罪,安住于自身法者,日后便能消除之。婆罗门啊,法能驱除婆罗门因疏忽而在此所造之罪。
3.210.56
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः ।
तं तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ ३.२१०.५६ ॥
人作恶之后,或许会想:“那不是我。”然而诸神看着他,他自己内在的人也看着他。
3.210.57
चिकीर्षेदेव कल्यायणं श्रद्दधानोऽनसूयकः ॥ ३.२१०.५७ ॥
怀着信心、不嫉妒,人应当只愿行善。
3.210.58
वसनस्येव च्छिद्राणइ साधूनां विवृणोति यः ।
अपश्यन्नात्मनो दोषान्स पापः प्रेत्य नश्यति ॥ ३.२१०.५८ ॥
若如揭露衣服的破洞一般揭发善人的过失,而不见自己的过错,此人便是罪人,死后将毁灭。
3.210.59
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते ।
मुच्यते सर्वपापेभ्यो महाभ्रेणेव चन्द्रमाः ॥ ३.२१०.५९ ॥
人若作了罪,又转向善行,便能从一切罪中解脱,犹如月亮从大云中露出。
3.210.60
यथाऽऽदित्यः समुद्यन्वै तमः सर्वं व्यपोहति ।
एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते ॥ ३.२१०.६० ॥
正如升起的太阳驱散一切黑暗,行持善法者也会完全脱离一切罪过。
3.210.61
पापानां विद्ध्यधिष्ठानं लोभमोहौ द्विजोत्तम ।
तस्मात्तौ विदुषा विप्र वर्जनीयौ विशेषतः ॥ ३.२१०.६१ ॥
两度生者中最优秀的人啊,贪婪与迷惑是诸罪的根基。因此,婆罗门啊,智者尤应远离这两者。
3.210.62
लुबधाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः ।
अधर्म्या धर्मरूपेण तृणैः कूपा इवावृताः ॥ ३.२१०.६२ ॥
贪婪而博学不足的人决意作恶。不义之人以法的外貌伪装自己,隐藏着,如同被草覆盖的井。
3.210.63
येषां पञ् पवित्राणि प्रलापा धर्मसंश्रितः ।
सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः ॥ ३.२१०.६३ ॥
凡具备五种净化且言语依于法者,其中确实具备一切;然而贤善之人的操行极为稀有。