Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.211

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.211.1

स तु विप्रो महाप्राज्ञ धर्मव्याधमपृच्छत ।
शिष्टाचारं कथमहं विद्यामिति नरोत्तम ॥ ३.२११.१ ॥

那位大智慧的婆罗门问达摩猎人道:"人中至尊啊,我该如何知道贤士的行为?"

3.211.2

पञ्च कानि पवित्राणि शिष्टाचारेषु नित्यदा ।
एतदिच्छामि भद्रं ते श्रोतुं धर्मभृतांवर।
त्वत्तो महामते व्याध तद्ब्रवीहि यथातथम् ॥ ३.२११.२ ॥

摩根德耶说:"在贤士的行为中,哪五样东西常常能使人清净?我愿从你这里听闻,持法者中最杰出的人啊,愿你吉祥。大智慧的猎人啊,请你照实说来。"

3.211.3

यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम ।
पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा ॥ ३.२११.३ ॥

猎人说:"祭祀、布施、苦行、吠陀与真实——这五者,二生者中最杰出的人啊,在贤士的行为中常常使人清净。"

3.211.4

कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम् ।
धर्ममित्येवं संतुष्टास्ते शिष्टाः शिष्टसंमताः ॥ ३.२११.४ ॥

猎人说:"能够制伏欲望与愤怒,舍弃虚伪、贪婪与邪曲,并满足于“这就是法”的人,他们便是贤士,为贤士所认可。"

3.211.5

न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायशीलिनाम् ।
आचारपालनं चैव द्वितीयं शिष्टलक्षणम् ॥ ३.२११.५ ॥

猎人说:"专心于祭祀与诵习者,其行为从不败坏;遵守规范的行为,便是贤士的第二个特征。"

3.211.6

गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च ।
एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा ॥ ३.२११.६ ॥

猎人说:"侍奉师长、真实、不生嗔怒与布施——这四者,婆罗门啊,在贤士的行为中常常具备。"

3.211.7

शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः ।
यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा ॥ ३.२११.७ ॥

若将心意专注于善人的行为并使之完全安定,所获得的满足,除此之外别无他法可得。

3.211.8

वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः ।
दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा ॥ ३.२११.८ ॥

吠陀的精髓是真理;真理的精髓是克制;克制的精髓是舍弃。在善人的行为中,这些常常存在。

3.211.9

ये तु धर्मानसूयन्ते बुद्धिमोहान्विता नराः ।
अपथा गच्छतां तेषामनुयाता च पीड्यते ॥ ३.२११.९ ॥

然而那些被迷惑之心所困、非议法的人,走上了歧途;追随他们的人也受苦。

3.211.10

ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः ।
धर्मपन्थानमारूढाः सत्यधर्मपरायणाः ॥ ३.२११.१० ॥

而那些有德、善于自制、专心于超越经典文字、已登上法之道并专注于真理与法的人——

3.211.11

नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता जनाः ।
उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः ॥ ३.२११.११ ॥

具备善人之行的人,克制至上的智慧;他们依从师长的教导,坚定不移,洞见法与利。

3.211.12

नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान् ।
त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च ॥ ३.२११.१२ ॥

舍弃无神论者、越出礼法之人、残忍之人以及安住于罪恶之念的人;依靠智慧,侍奉有德之人。

3.211.13

कामलोभग्रहाकीर्णं पञ्चेन्द्रियजलां नदीम् ।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥ ३.२११.१३ ॥

以欲望与贪婪之鳄充满、以五根为水的河流,你当以坚定之心造舟渡过;也要渡过生死的堡垒。

3.211.14

क्रमेण संचितो धर्मो बुद्धियोगमयो महान् ।
शिष्टाचारे भवेत्साधू रागः शुक्ले व वाससि ॥ ३.२११.१४ ॥

渐次积累的法,由慧之瑜伽所成,是伟大的;应在贤者的行为中成为善人,如颜色染上白衣。

3.211.15

अहिंसा सत्यवचनं सर्वभूतहितं परम् ।
अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः।
सत्यं कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ॥ ३.२११.१५ ॥

不害与真实之言,是对一切众生最高的利益。不害是最高的法,而它立足于真实。以真实为根基,诸般行为由此而生。

3.211.16

सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम् ।
आचारश्च सतां धर्मः सन्तो ह्याचारलक्षणाः ॥ ३.२११.१६ ॥

真实更为珍贵,为贤者在行为中所遵行。善人的操行即是法,善人以其操行为标志。

3.211.17

यो यथा प्रकृतिर्जन्तुः स स्वां प्रकृतिमश्नुते ।
पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् ॥ ३.२११.१७ ॥

众生各以其性,便得其自性。心存罪恶、无自制者,便染上愤怒、欲望等过失。

3.211.18

आरम्भो न्याययुक्तो यः स हि धऱ्म इति स्मृतः ।
अनाचारस्त्वध्रमेति एतच्छिष्टानुशासनम् ॥ ३.२११.१८ ॥

合乎正义的开始,被称为法;而不正的行为即是非法。这是贤者的教诲。

3.211.19

अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः ।
ऋजवः शमसंपन्नाः शिष्टाचारा भवन्ति ते ॥ ३.२११.१९ ॥

不发怒、不挑剔、无傲慢与嫉妒、正直而心境平和的人,便是具有贤者行为(śiṣṭa-ācāra)的人。

3.211.20

त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः ।
गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत ॥ ३.२११.२० ॥

精通三吠陀的长者、清净者、德行优良者、有智慧者、侍奉师长者、能自制者,他们确是具有贤者行为(śiṣṭa-ācāra)的人。

3.211.21

तेषामहीनसत्वानां दुष्कराचारकर्मणाम् ।
स्वैः कर्मभिः सत्कृतानां घोरत्वं संप्रणश्यति ॥ ३.२११.२१ ॥

对于那些元气不衰、行为与业行艰难、并因自己的业行而受尊敬的人,他们的严酷之性会完全消失。

3.211.22

तं तदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ।
धर्म्यं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः ॥ ३.२११.२२ ॥

智者们以法(dharma)来看待那种奇妙、古老、永恒而坚定的行为,视其为合法合法的,他们便升往天界。

3.211.23

आस्तिका मानहीनाश्च द्विजातिजनपूजकाः ।
श्रुतवृत्तोपसंपन्नास्ते सन्तः स्वर्गगामिनः ॥ ३.२११.२३ ॥

信仰者、无傲慢、尊敬再生族的人、具备学识与善行的人——这些善人将升往天界。

3.211.24

वेदोक्तः प्रथमो धर्मो धर्मशास्त्रेषु चापरः ।
शिष्टाचीर्णश् शिष्टानां त्रिविधं धर्मलक्षणम् ॥ ३.२११.२४ ॥

吠陀所宣示的法为第一;法论中所说的为第二;善人所实行的为第三——这便是法的三种标志。

3.211.25

धारणं चापि वेदानां तीर्थानामवगाहनम् ।
क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् ॥ ३.२११.२५ ॥

记诵吠陀,沐浴圣渡口,忍耐,真实与正直,清净——这些便是贤人行为的明证。

3.211.26

सर्वभूतदयावन्तो ह्यहिंसानिरताः सदा ।
परुषं च न भाषन्ते सदा सन्तो द्विजप्रियाः ॥ ३.२११.२६ ॥

对一切众生怀有慈悲,常行不害,从不出粗暴之言——善人为再生者所喜爱。

3.211.27

शुभानामशुभानां च कर्मणां सबलाश्रयम् ।
विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः ॥ ३.२११.२७ ॥

能够完全知晓善恶业的成熟,连同其力量与根基的人——他们便是贤人,为贤人所推崇。

3.211.28

न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः ।
सन्तः स्वर्गजितः शक्त्या सन्निविष्टाश्च सत्पथे।
दातारः संविभक्तारो दीनानुग्रहकारिणः ॥ ३.२११.२८ ॥

具备正义与美德,心怀众世间之利益,以其力量征服天界的善人,稳居善道。他们慷慨施予,乐于分享,并对困苦之人施以恩惠。

3.211.29

सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः ।
सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः ॥ ३.२११.२९ ॥

为众人所尊敬,以学识为财富的人,同样是苦行者,对一切众生怀有慈悲——他们便是贤人,为贤人所推崇。

3.211.30

दाननित्याः सुखान्याशु प्राप्नुवन्त्यपि च श्रियम् ।
पीडया च कलत्रस्य भृत्यानां च समाहिताः ॥ ३.२११.३० ॥

常行布施之人,很快便能获得幸福与繁荣;他们也留心妻子与仆人的困苦。

3.211.31

अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः ।
लोकयात्रां च पशय्न्तो धर्ममात्महितानि च।
एवं सन्तोवर्तमानास्त्वेधन्ते शाश्वतीः समाः ॥ ३.२११.३१ ॥

善人以极大的力量施舍,与善人相聚;观察世间的进程、法以及对自己有益之事,如此行事的善人将长久兴盛。

3.211.32

अहिंसा सत्यवचनमानृशंस्यवथार्जवम् ।
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः ॥ ३.२११.३२ ॥

不杀生,说真话,仁慈,正直,不怀恶意,不过度傲慢,知耻,忍耐,克制与平静。

3.211.33

धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः ।
अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः ॥ ३.२११.३३ ॥

智慧、坚定、怜悯众生、远离贪欲与憎恨的善人,受到世间的尊敬。

3.211.34

त्रीण्येव तु पदान्याहुः सतां वृत्तमनुस्मरन् ।
न चैव द्रुह्येद्दद्याच्च सत्यं चैव सदा वदेत् ॥ ३.२११.३४ ॥

追念善人的行为,他们只说三步:不害人,要布施,要常说真话。

3.211.35

सर्वत्र च दयावन्तः सन्तः करुणवेदिनः ।
गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानमुत्तमम् ॥ ३.२११.३५ ॥

善人处处慈悲,懂得怜悯,在此十分知足,走上最高的正法之道。

3.211.36

शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः ।
अनसूया क्षमा शान्तिः संतोषः प्रियवादिता ॥ ३.२११.३६ ॥

行为端正的大德之人,其法已坚定确立:不嫉妒,宽恕,平静,知足,言辞和悦。

3.211.37

कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् ।
कर्म च श्रुतसंपन्नं सतां मार्गमनुत्तमम् ॥ ३.२११.३७ ॥

舍弃欲望与愤怒,遵行贤者的行为,以所闻的学问成就其业——这是善人最上的道路。

3.211.38

शिष्टाचारं निषेवन्ते नित्यं ध्रममनुव्रताः ।
प्रज्ञाप्रासादमारूह्य मुह्यतो महतो जनान् ॥ ३.२११.३८ ॥

持守誓愿者常行贤者之道与法;登上智慧之殿,便俯瞰那些陷于迷惑的大人物。

3.211.39

प्रेक्षन्ते लोकवृत्तानि विविधानि द्विजोत्तमाः ।
अतिषुण्यानि दानानि तानि द्विजवरोत्तम ॥ ३.२११.३९ ॥

诸位最上的再生者啊,他们观察世间种种行为;而布施也极为殊胜——再生者中最优秀者啊,那些也是如此。

3.211.40

एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम् ।
शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ ॥ ३.२११.४० ॥

婆罗门啊,再生者中的雄牛啊,我依我的理解和所闻,将这一切都告诉了你,并以贤者行为的德性为先。