摩诃婆罗多 · 章 3.213
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.213.1
धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर ।
विप्रर्षभमुवाचेदं सर्वधर्मभृतांवर ॥ ३.२१३.१ ॥
法猎人再次巧妙地对那位最优秀的婆罗门说道,俱卢子孙啊:你是一切持法者中最优秀的。
3.213.2
श्रुतिप्रमाणो धर्मोऽयमिति वृद्धानुशासनम् ।
सूक्ष्मा गतिर्हि धर्मस् बहुशाखा ह्यनन्तिका ॥ ३.२१३.२ ॥
此法以天启圣典为依据——这是长者的教导。法的道路微妙,其枝叶众多而无穷。
3.213.3
प्राणान्तिके विवाहे च वक्तव्यमनृतं भवेत् ।
अनृतेन भवेत्सत्यं सत्येनैवानृतं भवेत् ॥ ३.२१३.३ ॥
在危及性命和婚姻之际,或许必须说谎。因谎言可以成为真实,因真实本身也可以成为谎言。
3.213.4
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा ।
विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम् ॥ ३.२१३.४ ॥
对众生最有利的,即是真实——这是信念。反其道而行则是非法。看哪,法之微妙。
3.213.5
यत्करोत्यशुभं कर्म शुभं वा यदि सत्तम ।
अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः ॥ ३.२१३.५ ॥
人所作的无论是不吉之业还是吉祥之业,他必定得到其果报——此事毫无疑问,善人中最优秀者啊。
3.213.6
विषमां च दशां प्राप्तो देवान्गर्हति वै भृशम् ।
आत्मृनः कर्मदोषेण न विजानात्यपण्डितः ॥ ३.२१३.६ ॥
陷入不利境地的无智之人,极力指责诸神;由于自己业行之过,他并不明白这一点。
3.213.7
मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम ।
न शुभं कर्म बध्नाति पुरुषं पाषनिश्चयम् ॥ ३.२१३.७ ॥
二生者之最!愚痴、诡诈、轻浮,且决意作恶之人,善业不能系缚他。
3.213.8
सुखदुःखविपर्यासो यदा समुपपद्यते ।
नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् ॥ ३.२१३.८ ॥
当苦乐颠倒降临时,智慧、善策和人力都不能保护他。
3.213.9
यो यमिच्छेद्यथा कामं तं तं कामं स आप्नुयात् ।
यदि स्यादपराधीनं पौरुषस् क्रियाफलम् ॥ ३.२१३.९ ॥
任何人想要任何愿望,就能获得那个愿望——如果人力的果实不受他人支配的话。
3.213.10
संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः ।
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः ॥ ३.२१३.१० ॥
即使是自制、精明、有智慧的人,也被看到毫无成果,失去了一切所为。
3.213.11
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः ।
वञ्चनायां च लोकस्य स सुखेनैव युज्यते ॥ ३.२१३.११ ॥
众生之中另有一种人,常常热衷于伤害和欺骗世人,这样的人却偏偏与快乐相连。
3.213.12
अचेष्टमपि चासीनं श्रीः कंचिदुपतिष्ठति ।
कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति ॥ ३.२१३.१२ ॥
即使有人安坐不动,财富也会来到他身边;而另一些人虽然行动,却得不到应得之物。
3.213.13
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृध्नुभिः ।
दशमासधृता गर्भा जायन्ते कुलपांसनाः ॥ ३.२१३.१३ ॥
жертвенного供奉诸神并修苦行之后,渴望子嗣的可怜之人所怀十个月的胎儿,生下来却成为家族的败类。
3.213.14
अपरे धनधान्यैश्च भोगैश्च पितृसंचितैः ।
विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥ ३.२१३.१४ ॥
另一些人则因祖先积累的财富、谷物与享乐,以及由此获得的众多吉祥而降生。
3.213.15
न देहजा मनुष्याणां व्याधयो द्विजसत्तम ।
कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः ॥ ३.२१३.१५ ॥
二生者中最优秀的人啊,人的疾病并非生于身体,人的疾病确实生于业行。此中没有疑问。
3.213.16
आधिभिश्चैव बाध्यन्ते व्यालैः क्षुद्रमृगा इव ।
व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज ॥ ३.२१३.१६ ॥
正如小兽被凶猛的食肉动物所伤害,人也被心中的忧苦所折磨;二生者啊,正如猎人拦阻麋鹿,疾病也被阻挡。
3.213.17
येषामस्ति च भोक्तव्यं ग्रहणीरोगपीडिताः ।
न शक्नुवन्ति ते भोक्तुं चेष्टितं पूर्वकर्मया ॥ ३.२१३.१७ ॥
那些有食物可吃,却因消化之病而受苦的人,无法进食;由于前世的业,他们进食的努力也无能为力。
3.213.18
अपरे बाहुबलिनः क्लिश्यन्ति बहवो जनाः ।
दुःखेन चाधिगच्छनति भोजनं द्विजसत्तम ॥ ३.२१३.१८ ॥
另一些人,许多力大的人,在受苦;二生者中最优秀的人啊,他们艰难地才得到食物。
3.213.19
इति लोकमनाक्रन्दं देहशङ्कापरिप्लुतम् ।
स्रोतसाऽसकृदाक्षिप्तं ह्रियमाणं बलीयसा ॥ ३.२१३.१९ ॥
如此,此世界不哀号,被对身体的恐惧所笼罩,一再被强大的洪流冲走。
3.213.20
न म्रियेयुर्न जीर्यैयुः सर्वे स्युः सर्वकामिकाः ।
नाप्रियं प्रतिपश्येयुर्विधिश्च यदि नो भवेत् ॥ ३.२१३.२० ॥
若我们没有定数,众人便不会死亡,不会衰老,所有人都会实现一切愿望,也不会遇到不快之事。
3.213.21
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते ।
यतते च यथाथक्ति न च तद्वर्तते तथा ॥ ३.२१३.२१ ॥
世间人人都想往上升,尽力而为,然而结果并非如此。
3.213.22
बहवः संप्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः ।
महत्तु फलवैषम्यं दृश्यते कर्मसिद्धिषु ॥ ३.२१३.२२ ॥
可见许多人星象与吉兆相同,然而在成就事业上,结果却有很大的差异。
3.213.23
न केचिदीशते ब्रह्मन्स्वयंग्राह्यस्य सत्तम ।
कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते ॥ ३.२१३.२३ ॥
婆罗门啊,善人中最优者,无人能支配那可由自身获取之物;此处所见,只是寻常行为的成就。
3.213.24
तथा श्रुतिरियंब्रह्मञ्जीवः किल सनातनः ।
शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह ॥ ३.२१३.२४ ॥
婆罗门啊,这便是圣典的教导:灵魂确实永恒,而世间一切众生的身体皆不恒常。
3.213.25
वध्यमाने शरीरे तु देहनाशो भवत्युत ।
जीवः संक्रमतेऽन्यत्रकर्मबनधनिबन्धनः ॥ ३.२१३.२५ ॥
身体被击坏时,形体便毁灭;但被业缚束缚的命我则转往别处。
3.213.26
कथं धर्मविदांश्रेष्ठ जीवो भवति शाश्वतः ।
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतांवर ॥ ३.२१३.२६ ॥
精通正法者中的最胜者啊,命我如何成为常住的?我想如实地知道这一点,善辩者中的最胜者啊。
3.213.27
न जीवनाशोस्ति हि देहभेदे ।
मिथ्यैतदाहुर्म्रियतीति मूढाः।
जीवस्तु देहान्तरितः प्रयाति ।
दशार्धतैवास् शरीरभेदः ॥ ३.२१३.२७ ॥
身体破坏时命我并无毁灭。愚者说它死了,那是虚妄;命我转入另一身体而离去,身体的破坏便是如此。
3.213.28
अन्यो हि नाश्नाति कृतं हि कर्म ।
मनुष्यलोके मनुजस् कश्चित्।
यत्तेन किंचिद्धि कृतंहि कर्म ।
तदश्नुते नास्ति कृतस्य नाशः ॥ ३.२१३.२८ ॥
在人间,他人不会承受别人所作的业;人所作的任何业,他便承受那业本身。所作之业没有毁灭。
3.213.29
सुपुण्यशीला हि भवन्ति पुण्या ।
नराधमाः पापकृतो भवन्ति।
नरोऽनुयातस्त्विह कर्मभिः स्वै-
स्ततः समुत्पद्यति भावितस्तैः ॥ ३.२१३.२९ ॥
德行极善者成为有福德的人,而卑下的人成为作恶者。人在此世被自己的业所跟随;被那些业所熏习,他便在彼处出生。
3.213.30
कथं संभवते योनौ कथं वा पुण्यपापयोः ।
जातीः पुण्या ह्यपुण्याश् कथं गच्छति सत्तम ॥ ३.२१३.३० ॥
命我如何在胎中生起?如何因福德与罪过而生?如何往有福德与无福德之生中去?善人中的最胜者啊。
3.213.31
गर्भाधानसमायुक्तं कर्मेदं संप्रदृश्यते ।
समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम ॥ ३.२१३.३१ ॥
此业与胎中受孕相关,可见。最上等的再生者啊,我将简要而迅速地告诉你。
3.213.32
यथा संभृतसंभारः पुनरेव प्रजायते ।
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ॥ ३.२१३.३२ ॥
如同积聚了资粮者再度投生,行善者生于善的胎中,作恶者生于恶的胎中。
3.213.33
शुभैः प्रयोगैर्देवत्वंव्यामिश्रैर्मानुषो भवेत् ।
मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः ॥ ३.२१३.३३ ॥
以善行得天界,以混杂之行得人身;以迷惑之罪则堕入下劣之胎。
3.213.34
जातिमृत्युजरादुःखैः सततं समभिद्रुतः ।
संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः ॥ ३.२१३.३४ ॥
人常为生、死、老之苦所逼迫,在轮回中因自作之过而受煎熬。
3.213.35
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च ।
जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः ॥ ३.२१३.३५ ॥
众生历经千万种畜生之胎乃至地狱,仍因业缚而辗转轮回。
3.213.36
जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः ।
तद्दुःखप्रतिघातार्थमपुण्यां योनिमाप्नुते ॥ ३.२१३.३६ ॥
众生因自作的种种业而死后受苦,为了对治此苦,便又得到不善之胎。
3.213.37
ततः कर्म समादत्ते पुनरन्यन्नवं बहु ।
पच्यते तु पुनस्तेन भुक्त्वाऽपथ्यमिवातुरः ॥ ३.२१३.३७ ॥
此后他又造作许多其他新业,由此又再成熟,如同病人吃了不宜之食。
3.213.38
अजस्रमेव दुःखार्तोऽदुःखितः सुखिसंज्ञितः ।
ततो निवृत्तबन्धत्वात्कर्मणामुदयादपि ॥ ३.२१३.३८ ॥
他不断被苦所折磨,却因不觉苦而被称为"乐者";此后,因缚已断,也因业的成熟。
3.213.39
परिक्रामति संसारे चक्रवद्बहुवेदनः ।
स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः ॥ ३.२१३.३९ ॥
他如轮子般在轮回中流转,充满诸多痛苦。若他的束缚已断,且也因业而得清净。
3.213.40
तपोयोगसमारम्भं कुरुते द्विजसत्तम ।
कर्मभिर्बहुभिश्चापि लोकानश्नाति कर्मभिः ॥ ३.२१३.४० ॥
啊,最优秀的再生者!他开始苦行与瑜伽;以众多业,且以业,他获得诸世界。
3.213.41
स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः ।
प्राप्नोति सुकृताँल्लोकान्यत्रगत्वा न शोचति ॥ ३.२१३.४१ ॥
若他的束缚已断,且也因业而得清净,他便得到善业之诸世界;到达那里后,他不再悲伤。
3.213.42
पापं कुर्वनपुण्यवृत्तः पुण्यस्यान्तं न गच्छति ।
पुण्यं कुर्वन्पुण्यवृत्तः पुण्यस्यान्तं न गच्छति।
तस्मात्पुण्यं यतेत्कर्तुं वर्जयीत च पापकम् ॥ ३.२१३.४२ ॥
作恶且行为无功德者,达不到功德的尽头。行善且行为有功德者,也达不到功德的尽头。所以应当努力行善,远离恶行。
3.213.43
अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते ।
सुखानि धर्ममर्थं च स्वर्गं च लभते नरः ॥ ३.२१३.४३ ॥
无嫉妒且感恩的人只行善事,从而获得幸福、法、财富与天界。
3.213.44
संस्कृतस्य च दान्तस् नियतस्य यतात्मनः ।
प्राज्ञास्यानन्तरा वृत्तिरिहि लोके परत्र च ॥ ३.२१३.४४ ॥
对于有教养、克制、守规且自我收敛的人,智者的行为在此世与来世都是持续不断的。
3.213.45
सतां धऱ्मेण वर्तेत क्रियां शिष्टवदाचरेत् ।
असंक्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विजः ॥ ३.२१३.४५ ॥
再生族应依善人之法而生活,像贤者那样行事,并在不给世界带来困扰的前提下谋求生计。
3.213.46
सन्ति ह्यागमविज्ञानाः शिष्टाः शास्त्रे विचक्षणाः ।
स्वधर्मेण क्रिया लोके कुर्वाणास्ते ह्यसंकराः ॥ ३.२१३.४६ ॥
世上确有精通阿伽马传统、擅长经典的贤者;他们依自身之法行事,因此保持纯净而不混杂。
3.213.47
प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति ।
तस्माद्धर्मादवाप्तेन धनन द्विजसत्तम ॥ ३.२१३.४७ ॥
智者以法为乐,也依法而生;因此,再生族中的最优者啊,应当以依法所得之财生活。
3.213.48
तस्यैव सिंचते मूलं गुणान्पश्यति यत्र वै ।
धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति।
स मित्रजनसंतुष्ट इह प्रेत्य च नन्दति ॥ ३.२१३.४८ ॥
凡见有德之处,便灌溉其根本;如此他成为法心之人,其心欢悦。与朋友和众人相处而心满意足,他在此世与死后都感到喜乐。
3.213.49
शब्दं स्पर्शं तथा रूपं गन्धानिष्टांस्च सत्तम ।
प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः ॥ ३.२१३.४९ ॥
善人中的最上者啊,人亦得以主宰声、触、色及可爱的香气;智者说,这便是法的果报。
3.213.50
धरमस्य च पलं लब्ध्वा न तुष्यति महाद्विज ।
अतुष्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ॥ ३.२१३.५० ॥
大婆罗门啊,人虽得法之果报,却仍不知满足;不满足者便以智慧之眼生起厌离。
3.213.51
प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते ।
विरज्ये यथाकामं न च धर्मं विमुञ्चति ॥ ३.२१३.५१ ॥
以慧眼为目的人,在此不执著于过失;他可随意生起离欲,也不舍弃法。
3.213.52
फलत्यागे च यतते दृष्ट्वा लोकं क्रियात्मकम् ।
ततो मोक्षे प्रयतते नानुपायादुपायतः ॥ ३.२१३.५२ ॥
他在舍弃果报上亦努力;见世间皆由作业构成,然后为解脱而努力——以正确的方法,而非不当的方法。
3.213.53
एवं निर्वेदमादत्ते पापं कर्म जहाति च ।
धार्मिकश्चापि भवति मोक्षं च लभते परम् ॥ ३.२१३.५३ ॥
如此他生起离欲,舍弃恶业;他成为有法之人,并得到至上的解脱。
3.213.54
तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः ।
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ॥ ३.२१३.५४ ॥
苦行是众生的至上福祉,其根本是寂静与自制;借此,他便能获得心中所愿的一切欲望。
3.213.55
इन्द्रियाणां निरोधेन सत्येन च दमेन च ।
ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम ॥ ३.२१३.५५ ॥
通过制伏诸根、真实与自制,人便能证得那至高的梵之境界,哦,再生者中最优秀的人。
3.213.56
इन्द्रियाणीति यान्याहुः कानि तानि यतव्रत ।
निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम् ॥ ३.२१३.५६ ॥
那些被称为诸根的究竟是什么?哦,持守誓愿者,应当如何修习制伏,制伏的果报又是什么?
3.213.57
कथं च फलमाप्नोति तेषां धर्मभृतांवर ।
एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक ॥ ३.२१३.५७ ॥
人又如何获得它们的果报?哦,承载法者中的最优秀者,哦,最正直的人,我希望真实地了解法,这正是我所愿。