Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.214

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.214.1

एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर ।
प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप ॥ ३.२१४.१ ॥

婆罗门如此相问,法猎人便回答了他。哦,人主युधिष्ठिर,请听他的回答。

3.214.2

विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते ।
तत्प्राप्य कामं भजतेक्रोधं च द्विजसत्तम ॥ ३.२१४.२ ॥

人的心首先致力于获取知识;得到之后,哦,婆罗门中最优秀者,它便去追逐欲望与愤怒。

3.214.3

ततस्तदर्थं यतते कर्म चारभते महत् ।
इष्टानां रूपगन्धानामभ्यासं च निषेवते ॥ ३.२१४.३ ॥

然后他为此努力,发起巨大的行动,并反复修习、享受那些可爱的形色与香气。

3.214.4

ततो रागः प्रभवति द्वेषश्च तदनन्तरम् ।
ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥ ३.२१४.४ ॥

随后生起贪爱,紧接着生起憎恶;随后生起贪婪,紧接着生起迷惑。

3.214.5

तस् लोभाभिभूतस्य रागद्वेषहतस्य च ।
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ॥ ३.२१४.५ ॥

被贪婪所控制、被贪爱与憎恶所击倒的人,心智不会趋向法;他只是以伪装来行法。

3.214.6

व्याजेन चरते धर्ममर्थं व्याजेन रोचते ।
व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम ॥ ३.२१४.६ ॥

他以伪装行法,以伪装喜爱财富;哦,婆罗门中最优秀者,他在以伪装而得的财富中感到欢喜。

3.214.7

तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति ।
सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम ॥ ३.२१४.७ ॥

他的心恰好沉溺于此,于是便想作恶,尽管朋友与智者加以阻止,二度生者中的最优者啊。

3.214.8

उत्तरं श्रुतिसंबद्धं ब्रवीत्यश्रुतियोजितम् ।
अधर्मस्त्रिविधस्तस्य वर्तते रागदोषजः ॥ ३.२१४.८ ॥

他给出与经典相关的回答,却将其与非经典相连;他的非法有三种,生于贪爱与憎恶。

3.214.9

पापं चिन्तयते चैव ब्रवीति च करोति च ।
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः ॥ ३.२१४.९ ॥

他思念恶,口说恶,身作恶;陷于非法之人,其善德皆会消亡。

3.214.10

एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः ।
स तेन दुःखमाप्नोति परत्र च विपद्यते ॥ ३.२१४.१० ॥

同类性情的作恶者互相结交;因此他招致痛苦,在来世也会毁灭。

3.214.11

पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु ।
यस्त्वेतान्प्रज्ञाया दोषान्पूर्वमेवानुपश्यति ॥ ३.२१४.११ ॥

如此,人便成为恶心之人;但现在请听我说法之利益:预先看清智慧之种种过失的人——

3.214.12

कुशलः सुखदुःखेषु सांधूंश्चाप्युपसेवते ।
तस्य साधुसमारम्भाद्बुद्ध्रिधर्मेषु राजते ॥ ३.२१४.१२ ॥

善于应对苦乐,又侍奉善人的人;因开始行善之事,他在智慧之德中光耀。

3.214.13

ब्रवीषि सूनृतंधर्मं यस्य वक्ता न विद्यते ।
दिव्यप्रभावः सुमहानृषिरेव मतोसि मे ॥ ३.२१४.१३ ॥

你讲说真实而悦耳之言的法,却不见有谁是其宣说者。依我看,你是具有神力的大仙人。

3.214.14

ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा ।
तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा ॥ ३.२१४.१४ ॥

婆罗门极为有福;如同祖先,他们总是最先进食。智者应当全心全意地为他们在世间做他们所喜爱的事。

3.214.15

यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम ।
नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे ॥ ३.२१४.१५ ॥

二生者中的至上者啊,我将告诉你他们所喜爱的。向婆罗门致敬之后,请听我讲梵的知识。

3.214.16

इदं विश्वं जगत्सर्वमजगच्चापि सर्वशः ।
महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत् ॥ ३.२१४.१६ ॥

这整个宇宙,一切动与不动之物,完全由大元素构成,婆罗门啊;不可能有比这更高的了。

3.214.17

महाभूतानि खं वायुरग्निरापस्तथा च भूः ।
शब्दः स्पर्शश्च रूपं च रसो गन्धश् तद्गुणाः ॥ ३.२१४.१७ ॥

大元素是虚空、风、火、水和地;它们的性质是声、触、色、味和香。

3.214.18

तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम् ।
पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु ॥ ३.२१४.१८ ॥

它们的一切性质也依性质之作用而相互运行;每一前一元素的全部性质,依次存在于三个具有性质者之中。

3.214.19

षष्ठी तु चेतना नाम मन इत्यभिधीयते ।
सप्तमी तु भवेद्बुद्धिरहंकारस्ततः परम् ॥ ३.२१४.१९ ॥

第六名为觉知(cetanā),亦称为意(manas)。第七为觉(buddhi),其后为我慢(ahaṃkāra)。

3.214.20

इन्द्रियाणि च पञ्चात्मा रजः सत्वं तमस्तथा ।
इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः ॥ ३.२१४.२० ॥

五根与自我,以及罗阇、萨埵、答摩——这十七类之集合名为未显(avyakta)。

3.214.21

सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतैः ।
चतुर्विंसक इत्येष व्यकत्वाव्यक्तमयो गुणः।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ ३.२१४.२१ ॥

此中一切根境,为显与未显所善覆,此二十四类之德由显与未显所成。此一切已为你宣说;你还想再听什么?