摩诃婆罗多 · 章 3.216
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.216.1
एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत ।
ब्राह्मणः स पुन सूक्ष्मं पप्रच्छ सुसमाहितः ॥ ३.२१६.१ ॥
婆罗多啊,猎人达摩如此讲说精微之义后,那位心神专注的婆罗门又再次询问精微之义。
3.216.2
वृत्त्वस्य रजसश्चैव तमसश्च यथातथम् ।
वृणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः ॥ ३.२१६.२ ॥
请如实地、依真理告诉我,我在此询问:何为转(萨埵)、罗阇与答摩的性质。
3.216.3
दृन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि ।
एतान्गुणान्पृथक्त्वेन निबोध गदतो मम ॥ ३.२१६.३ ॥
你所问的,我将依次告诉你;我说的时候,请分别领会这些性质。
3.216.4
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् ।
प्रकाशबहुलत्वाच्च सत्वं ज्याय इहोच्यते ॥ ३.२१६.४ ॥
其中,答摩具有迷惑之性,罗阇是使其运转之因;但因光明充盛,此处说萨埵为殊胜。
3.216.5
अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः ।
दृर्हृपीकस्तमोध्यस्तः सक्रोधस्तामसोऽलसः ॥ ३.२१६.५ ॥
充满无明、昏迷、好睡、失去知觉、诸根迟钝、为答摩所制、易怒而懒惰——此即答摩之人。
3.216.6
सुवृत्तवाक्यो मन्त्री च यो नराग्र्योऽनमूयकः ।
विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः ॥ ३.२१६.६ ॥
言语合宜的大臣,人中之上者,无嫉妒,求知心切,然而僵硬自负、傲慢——此人,婆罗门中的仙人啊,便是罗阇之人。
3.216.7
प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः ।
अक्रोधनो नरो धीमान्दान्तश्चैवस सात्विकः ॥ ३.२१६.७ ॥
光明充盈、坚定、无欲、不妒、不怒、有智慧且自制的人,正是萨埵(sāttvika)之人。
3.216.8
सात्विकस्त्वथ संबुद्धो लोकवृत्तैर्न लिप्यते ।
यदा बुध्यति बोध्धव्यं लोकवृत्तं जुगुप्सते ॥ ३.२१६.८ ॥
而萨埵之人一旦觉醒,便不为世俗行为所染;当他理解了应当理解的,便厌弃世俗的行为。
3.216.9
वैराग्यस् च रूपं तु पूर्वमेव प्रवर्तते ।
मृदुर्भवत्यहंकारः प्रसीदत्यार्जवं च यत् ॥ ३.२१६.९ ॥
离欲之相首先显现;我慢变得柔和,而因正直,心便趋于澄明。
3.216.10
ततोऽस् सर्वद्वन्द्वानि प्रशाम्यन्ति परस्परम् ।
न चास्यासंयमो नाम क्वचिद्भवति कश्चन ॥ ३.२१६.१० ॥
此时一切对立之偶相互平息,他之中绝不会生起任何不自制。
3.216.11
शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः ।
वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च ॥ ३.२१६.११ ॥
婆罗门啊,出生于首陀罗之胎、亲近善德的人,便可成为吠舍,同样也可成为刹帝利。
3.216.12
आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते ।
गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि ॥ ३.२१६.१२ ॥
安住于正直者,便生起婆罗门性。这些德性已全部为你宣说;你还想听什么?
3.216.13
पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत् ।
अवकाशविशेषेण कथं वर्तयतेऽनिलः ॥ ३.२१६.१३ ॥
既然到达了土之元素,身体之火如何产生?风又借由何种特定的空间如何使其运行?
3.216.14
प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर ।
व्याधस्तु कथयामास ब्राह्मणाय महात्मने ॥ ३.२१६.१४ ॥
युधिष्ठिर啊,婆罗门提出了这个问题;猎人则向那位大德的婆罗门作了解释。
3.216.15
मूर्धानमाश्रितो वह्निः शरीरं परिपालयन् ।
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते ॥ ३.२१६.१५ ॥
火依止于头部,守护着身体;气息居于头部与火中,运行而活动。
3.216.16
भूं भव्यं भविष्यं च सर्वं प्राणे प्रतिष्ठितम् ।
श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे ॥ ३.२१६.१६ ॥
过去、现在与未来,一切都立足于气息;它正是众生中最殊胜者,我们崇敬那梵之光明。
3.216.17
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः ।
मनोबुद्धिरहंकारो भूतानां विषयश्च सः ॥ ३.२१६.१७ ॥
此有情即一切众生之自我,乃永恒的补鲁沙;他即是意、觉与我慢,也是众生所缘之境。
3.216.18
अव्यक्तं सस्वसंज्ञं च जीवः कालः स चैव हि ।
प्रकृतिः पुरुषश्चैव प्राण एव द्विजोत्तम ॥ ३.२१६.१८ ॥
未显现者、以自身名号称呼的有情,以及时间——他即是这些;他是原初的自性与补鲁沙,而哦,最殊胜的再生者,他也是气息。
3.216.19
जागर्ति स्वप्नकाले च स्वप्ने स्वप्नायते च सः ।
जाग्रत्सु बलमाधत्ते चेष्टत्सु चेष्टयत्यपि ॥ ३.२१६.१९ ॥
在睡眠时他仍醒着,在梦中他做梦;他赋予醒着者以力量,使行动者行动。
3.216.20
तस्मिन्निरुद्दे विप्रेन्द्र मृत इत्यभिधीयते ।
त्यक्त्वा शरीरं भूतात्मा पुनरन्यत्प्रपद्यते ॥ ३.२१६.२० ॥
婆罗门中的最优者啊,当它停止时,人便被称为死亡;舍弃身体后,有形之我又进入另一个身体。
3.216.21
एष त्वग्निरपानन प्राणेन परिपाल्यते ।
पृष्ठतस्तु समानन स्वांस्वां गतिमुपाश्रितः ॥ ३.२१६.२१ ॥
此火由阿帕那与普拉那所守护;从后面,萨玛那也依其自身的路径守护它。
3.216.22
वस्तुमूले गुदे चैव पावकं समुपाश्रितः ।
वहन्मूत्रं पुरीषंवाऽप्यपानः परिवर्तते ॥ ३.२१६.२२ ॥
依托膀胱根部与肛门中的火,阿帕那移动,运送尿或粪。
3.216.23
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते ।
उदान इति तं प्राहुरध्यात्मविदुषो जनाः ॥ ३.२१६.२३ ॥
在努力、行动与力量这三者中唯独存在者,内修的智者称之为乌达那。
3.216.24
सन्धौसन्धौ संनिविष्टः सर्वेष्वपि तथाऽनिलः ।
शरीरेषु मनुष्याणां व्यान इत्युपदिश्ते ॥ ३.२१६.२४ ॥
安住于人身各个关节中的风,同样也在一切之中——这被教导为毗阿那。
3.216.25
धातुष्वग्निस्तु विततः स तु वायुसमीरितः ।
रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति ॥ ३.२१६.२५ ॥
散布于组织之中的火,被风所推动,四处奔走,使精华、组织与三液持续运行。
3.216.26
प्राणानां संनिपातात्तु सन्निपातः प्रजायते ।
सोष्मा सोग्निरितिज्ञेयो योऽन्नं पचतिदेहिनां ॥ ३.२१६.२६ ॥
由诸气相合而生“聚合”(sannipāta)。应知其为带热之火,能消化有身众生的食物。
3.216.27
अपानोदानयोर्मध्ये प्राणन्यानौ समाहितौ ।
समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः ॥ ३.२१६.२७ ॥
于下行之气与上行之气之间,入气(prāṇa)与遍行气(vyāna)安住。火与之相合,以之为根基,便能善于消化。
3.216.28
अस्यापि पायुपर्यन्तस्तथा स्याद्गुदसंज्ञितः ।
स्रोतांशि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम् ॥ ३.२१६.२८ ॥
此火亦有一部分延伸至肛门,名为直肠(guda)。由此在一切有身众生的诸气中生出诸道(srotas)。
3.216.29
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते ।
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥ ३.२१६.२९ ॥
携带火之力的生气在直肠末端受阻;它又上升,再度将火向上抛起。
3.216.30
पक्वाशयस्त्वधोनाभ्या ऊर्ध्वमामाशयः स्थितः ।
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः ॥ ३.२१६.३० ॥
熟藏(pakvāśaya,大肠)在脐下,生藏(āmāśaya,胃)位于脐上。身体的脐中央,诸生气皆安立。
3.216.31
प्रवृत्ता हृदयात्सर्वे तिर्यगूर्ध्वमधस्तथा ।
वहन्त्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः ॥ ३.२१६.३१ ॥
所有脉管从心中发出,横向、向上与向下延伸,承载食物之精华,受十种生气推动。
3.216.32
योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम् ।
जितक्लमासनो धीरो मूर्धन्यात्मानमादत् ॥ ३.२१६.३२ ॥
这是瑜伽行者通往至高境界的道路。战胜疲惫、坐姿稳固的坚定者,应将自我安置于头顶。
3.216.33
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु ।
तौ तावदग्निसहितौ विद्धि वै प्राणमात्मनि ॥ ३.२१६.३३ ॥
如此,在一切有身众生中,入息与出息遍布;应知此二者与火相连,应知生气安住于自我之中。
3.216.34
एकादशविकारात्मा कलासंभारसंभृतः ।
मूर्तिमन्तं हि तं विद्धि नित्यं योगजितात्मकम्।
तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः ॥ ३.२१६.३४ ॥
应知那以十一种变化为本性、由诸多部分聚合而成者,是永恒而具形的,其自我由瑜伽所征服;而安住于其中的火,常如置于锅中的火。
3.216.35
आत्मानं तं विजानीहि नित्यं त्यागजितात्मकं ॥ ३.२१६.३५ ॥
应知此自我永恒,其本性由舍离所征服。
3.216.36
देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे ।
क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकं ॥ ३.२१६.३६ ॥
应知安住于其中的神,如莲叶上的水滴,是知场者,永恒,其本性由舍离所征服。
3.216.37
जीवात्मकं विजानीहि रजः सत्वं तमस्तथा ।
जीवमात्मगुणं विद्धि तथाऽऽत्मानं परात्मकं ॥ ३.२१६.३७ ॥
当知有生之我,以及激情、善性与暗性。当知有情是自我的属性,当知自我具有至上自我的本性。
3.216.38
अचेतनं जीवगुणं वदन्ति ।
सचेष्टते चेष्टयते च सर्वम्।
ततः परं क्षेत्रविदो वदन्ति ।
प्राकल्पयद्यो भुवनानि सप्त ॥ ३.२१६.३८ ॥
人们说无觉之物是有生者的属性。它驱动一切,自身也运行。超越此者,知田者称之为创立七界者。
3.216.39
एष सर्वेषु भूतेषु भूतात्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः ॥ ३.२१६.३९ ॥
此众生之我不显现于一切众生中;然而知识之知者以殊胜而微妙的智慧见之。
3.216.40
चित्तस्य हि प्रसादेन हनति कर्म शुभाशुभम् ।
प्रसन्नात्मात्मनि स्थित्वा सुखमनन्त्यमश्नुते ॥ ३.२१६.४० ॥
凭借心之清明,善与恶业皆被消除。自我澄明者安住于自我,便获得无尽的安乐。
3.216.41
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ।
सुखदुःखे हि संत्यज्य निर्द्वन्द्वो निष्परिग्रहः।
निवाते वा यथा दीपो दीप्येत्कुशलदीपितः ॥ ३.२१६.४१ ॥
清明的标志是如满足者般安然入睡。舍弃苦乐,超越对立,无所执取,便如在无风之处由巧手点燃的灯火一般光明。
3.216.42
पूर्वरात्रेऽपरे चैव युञ्जानः सततं मनः ।
लध्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ ३.२१६.४२ ॥
夜之前后分,常专注其心,少食而自我清净,于自我中见自我。
3.216.43
प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति ।
दृष्ट्वाऽऽत्मानं निरात्मानं स तदा विप्रमुच्यते ॥ ३.२१६.४३ ॥
如同燃烧的明灯,他以心灵之灯观照。见自我为非我之后,他便得以完全解脱。
3.216.44
सर्वोपायैस्तु लोभस् क्रोधस्य च विनिग्रहः ।
एतत्पवित्रं यञ्ज्ञानं तपो वै संक्रमो मतः ॥ ३.२१६.४४ ॥
以一切方法,都应当克制贪婪与愤怒。这是清净的智慧;这被视为苦行,也是超越之道。
3.216.45
नित्यं क्रोधात्तपो रक्षेन्छ्रियं रक्षेच्च मत्सरात् ।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥ ३.२१६.४५ ॥
应当始终以不怒保护苦行,以不妒保护财富;以不因荣辱动心保护学问,以不放逸保护自我。
3.216.46
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।
आत्मज्ञानं परं ज्ञानं परं सत्यव्रतव्रतम् ॥ ३.२१६.४६ ॥
仁慈是至上之法,宽恕是至上之力。自我之知是至上之智;守持真实誓愿的誓言最为至上。
3.216.47
सत्यस् वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् ।
यद्बूतहितमत्यन्तं तद्वै सत्यं परं मतम् ॥ ३.२१६.४७ ॥
真实之言最为善;真实之智应当利益众生。最利益众生者,被认为是至上的真实。
3.216.48
यस् सर्वे समारम्भा निराशीर्बन्धनाः सदा ।
त्यागे यस् हुतं सर्वं स त्यागी स च बुद्धिमान् ॥ ३.२१६.४८ ॥
凡其一切作为常无欲望之缚,凡在舍弃中献出一切者,便是舍离者,他也是有智慧的人。
3.216.49
यदा न गुरुतां चैनं च्यावयेदुपपादयन् ।
तं विद्याद्ब्राह्मणो योगमयोगं योगसंज्ञितम् ॥ ३.२१६.४९ ॥
当执著既不使此人堕落,也不使其生起时,婆罗门应当知道那便是瑜伽——它虽是非瑜伽,却被称为瑜伽。
3.216.50
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् ।
नेदं जीवितमासाद्यवैरं कुर्वीत केनचित् ॥ ३.२१६.५० ॥
不应伤害一切众生,应当以慈心而行;既得此生,不应与任何人结怨。
3.216.51
आकिंचन्यं सुसंतोषो निराशित्वमचापलम् ।
एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम् ॥ ३.२१६.५१ ॥
无所有、大知足、无欲、不躁动——这正是至上的智慧;这永远是最高的自我知识。
3.216.52
परिग्रहं परित्यज्य भवेद्बुद्ध्या यतव्रतः ।
अशोकं स्थानमाश्रित् निश्चलं प्रेत्य चेह च ॥ ३.२१६.५२ ॥
舍弃所有之物,以智慧坚守誓约,依止无忧而不动摇的境界——今生与来世皆然。
3.216.53
तपोनित्येन दान्तेन मुनिना संयतात्मना ।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥ ३.२१६.५३ ॥
常修苦行、调伏自身、心性收摄的苦行者,欲征服那不可征服者,应当在诸执著中无所执著。
3.216.54
गुणागुणमनासङ्गमेककार्यमनन्तरम् ।
एतत्तद्ब्रह्मणो वृत्तमाहुरेकपदं सुखम् ॥ ३.२१६.५४ ॥
于善恶无所执著,专一于一事而不间断——他们说这便是梵的行为,是唯一境界的安乐。
3.216.55
परित्यजति यो दुःखं सुखं चाप्युभयं नरः ।
ब्रह्म प्राप्नोति सोत्यन्तमासङ्गं च न गच्छति ॥ ३.२१६.५५ ॥
舍弃苦与乐二者的人,得到梵,且完全不再执著。
3.216.56
यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम ।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ ३.२१६.५६ ॥
再生者中最殊胜者啊,你所听闻的这一切,已简要地说给你了。所有这些都已为你讲述;你还想听什么?