Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.261

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.261.1

व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना ।
कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे ॥ ३.२६१.१ ॥

尊者啊,那位大德如何舍弃了稻米量器(vrīhi-droṇa)?它又是依何种规则、施给了谁?请告诉我。

3.261.2

प्रत्यक्षधर्मा भगवान्यस् तुष्टो हि कर्मभिः ।
सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः ॥ ३.२६१.२ ॥

法显然可见、因善行而欢喜的尊者啊:我认为遵行正法之人的生命是有成果的。

3.261.3

शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संयतेन्द्रियः ।
आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः ॥ ३.२६१.३ ॥

大王啊,在俱卢之野住着牟德伽罗,他心性正直,以拾取遗穗为生,克制诸根,言语诚实,没有嫉妒。

3.261.4

अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः ।
सत्रमिष्टीकृतंनाम समुपास्ते महातपाः ॥ ३.२६१.४ ॥

他持守待客之誓,精于仪轨,采取鸽子般的生活方式,这位大苦行者主持名为“伊什提克利塔”的祭礼。

3.261.5

सपुत्रदारो हि मुनिः पक्षाहारो बभूव ह ।
कपोतवृत्त्या पक्षेण व्रीहिद्रोयणमुपार्जयत् ॥ ३.२६१.५ ॥

这位圣人与妻子、儿子一同,成为以半月之粮为食的人;他以鸽子的生活方式,半月中收集到一斗(vrīhi-droṇa)稻米。

3.261.6

दर्शं च पौर्णमासं च कुर्वन्विगतमन्सरः ।
देवतातिथिशेषेण कुरुते देहयापनम् ॥ ३.२६१.६ ॥

他无嫉妒之心,行新月与满月之祭,以供养诸神与宾客之后的剩余食物维持身体。

3.261.7

तत्रेन्द्रः सहितो देवैः साक्षात्रिभुवनेश्वरः ।
प्रत्यृह्णान्महाराज भागं पर्वणिपर्वणि ॥ ३.२६१.७ ॥

三界之主因陀罗与诸天亲自到来,大王啊,每逢每个月节他都接受自己的份额。

3.261.8

स पर्वकाल्यं कृत्वा तु मुनिवृत्त्या समन्वितः ।
अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना ॥ ३.२६१.८ ॥

他完成月节祭仪后,怀着圣者的德行,以喜悦之心把食物施给客人。

3.261.9

व्रीहिद्रोणस्य तत्प्रीत्या ददतोऽन्नं महात्मनः ।
ऋषेर्मात्सर्यहीनस् वर्धत्यतिथिदर्शनात् ॥ ३.२६१.९ ॥

因见到客人,那位大德、无嫉妒的仙人以喜悦之心施舍一德罗那稻米,食物便会增长。

3.261.10

तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम् ।
मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति ॥ ३.२६१.१० ॥

数百位智慧的婆罗门食用这食物,由于仙人舍弃的纯净,这食物便增长。

3.261.11

तं तु रशुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम् ।
दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह ॥ ३.२६१.११ ॥

大王啊,裸衣的杜尔婆娑听闻那位最为正直、持守坚定誓愿的穆德伽拉,于是前去见他。

3.261.12

विभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव ।
विकचः परुषा वाचो व्याहरन्विविधा मुनिः ॥ ३.२६१.१२ ॥

般度之子啊,那位仙人穿着不定的服饰,仿佛疯狂,发乱如蓬,口中说出种种粗厉的话语而来。

3.261.13

अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः ।
अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम ॥ ३.२६१.१३ ॥

于是,最好的圣人走近那位婆罗门说:"最好的圣人啊,请知道我是为求食而来的。"

3.261.14

स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत ।
पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम् ॥ ३.२६१.१४ ॥

"欢迎您",穆德伽罗回答这位圣人;奉上洗足水与漱口水之后,他宣告了上等的食物。

3.261.15

प्रादात्स तपसोपात्तं क्षुधितायातिथिप्रियः ।
उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः ॥ ३.२६१.१५ ॥

爱客的他,把以苦行所得的那份食物,施予饥饿的疯人;怀着至上的信心,坚守誓愿。

3.261.16

ततस्तदन्नं रसवत्स एव क्षुधयाऽन्वितः ।
बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः ॥ ३.२६१.१६ ॥

于是,那饥饿难忍的疯人把那美味的食物全部吃尽;穆德伽罗又给了他。

3.261.17

भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः ।
अथाङ्गं लिलिपेऽन्नेन यथागतमगाच्च सः ॥ ३.२६१.१७ ॥

吃完食物之后,他把剩下的全部抹在自己的身上,然后像来时一样离去了。

3.261.18

तेनैवात्मानमालिप्य हसन्गायन्प्रधावति ।
नृत्यते धावते चैव बुद्ध्या तत्क्रोशते तथा ॥ ३.२६१.१८ ॥

他以那食物涂抹自身,一边笑、一边唱地奔跑;跳舞、奔跑,在疯狂中也如此呼喊。

3.261.19

एवं द्वितीये संप्राप्ते पर्वकाले मनीषिणः ।
आगम्य बुभुजे सर्वमन्नपुञ्छोपजीविनः ॥ ३.२६१.१९ ॥

如此,第二个月分之时到来,智者前来,靠拾取残穗为生,吃掉了一切。

3.261.20

निराहारस्तु स मुनिरुञ्छमार्जये पुनः ।
न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा ॥ ३.२६१.२० ॥

那位禁食的仙人再次拾取残穗;然而饥饿无法使穆德伽拉产生丝毫动摇。

3.261.21

न क्रोधो न च मात्सर्यं नावमानो न संभ्रमः ।
सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम् ॥ ३.२६१.२१ ॥

愤怒、嫉妒、轻慢、慌乱,都未曾进入那与儿子妻子一同拾穗的最上等再生者之中。

3.261.22

तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम् ।
उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः ॥ ३.२६१.२२ ॥

如此,对于那位奉行拾穗之法的最上圣人,杜尔婆萨在适当的时候、怀着坚定的决心,前来拜访了六次。

3.261.23

न चास् मनसः कश्चिद्विकारो दृश्यते मुनेः ।
शुद्धसत्वस्य शुद्धं स ददृशे निर्मलं मनः ॥ ३.२६१.२३ ॥

那位仙人的心中看不到丝毫动摇;对于本性纯净的他而言,那位仙人的心显得纯洁无瑕。

3.261.24

तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा ।
त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः ॥ ३.२६१.२४ ॥

于是那位仙人欢喜地对穆德伽拉说:“在这个世界上,没有像你这样不嫉妒的施主。”

3.261.25

क्षुद्धर्मसंज्ञां प्रणुदत्यादत्ते धैर्यमेव च ।
विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति ॥ ३.२६१.२५ ॥

饥饿驱散了法的名声,也夺走了坚定;随着感官对象而动的舌头,只把人拉向各种滋味。

3.261.26

आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम् ।
मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः ॥ ३.२६१.२६ ॥

生命之气从食物而生;心难以制伏且躁动。心与诸根的专一,才是确定的苦行。

3.261.27

श्रमेणोपार्जितं त्यक्तं न च दुःखेन चेतसा ।
तत्सर्वं भवता साधो यथावदुपपादितम् ॥ ३.२६१.२७ ॥

你舍弃了辛苦所得,不是带着痛苦的心;善人啊,这一切你都如法地完成了。

3.261.28

प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह ।
इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः।
दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् ॥ ३.२६१.२८ ॥

与你相遇,我们感到欢喜并蒙受恩惠。诸根的制伏、坚定、分享、自制、寂静、慈悲、真实与法,皆安立于你之中。

3.261.29

लोकाः समस्ता धर्मेण धार्यन्ते सचराचराः ।
धर्मोपि धार्यते येन धृतियुक्त त्वयाऽऽत्मना ॥ ३.२६१.२९ ॥

一切有动与不动的世界皆由法所持;而法也由那位持守坚定的你以自身所持。

3.261.30

विशुद्धसत्वसंपन्नो न त्वदन्योस्ति कश्चन ।
जितास्ते कर्मभिर्लोकाः प्राप्तोसि परमां गतिम् ॥ ३.२६१.३० ॥

具足清净的善性,世间无人能与你相比。你以行为赢得了诸世界,已达至最高之境。

3.261.31

अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः ।
सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत ॥ ३.२६१.३१ ॥

啊!天界的居民宣扬了你极大的布施。善持誓愿者啊,你将带着身体升往天界。

3.261.32

इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः ।
देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः ॥ ३.२६१.३२ ॥

当仙人杜尔婆萨这样说的时候,一位天神使者乘着天车来到了木德伽拉面前。

3.261.33

हंससारसयुक्तेन किङ्किणीजालमालिना ।
कामगेन विचित्रेण दिव्यगन्धवता तथा ॥ ३.२६१.३३ ॥

车上套着天鹅与鹤,装饰着小铃的网络,可随意而行,奇妙且散发着天界的香气。

3.261.34

उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम् ।
समुपारोह संसिद्धिं प्राप्तोसि परमां मुने ॥ ३.२६१.३४ ॥

他对那位婆罗门仙人说:“这辆天车是由你的行为所赢得的。登上来吧,仙人;你已经获得了最高的成就。”

3.261.35

तमेवंवादिनमृषिर्देवदूतमुवाच ह ।
इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनां ॥ ३.२६१.३५ ॥

对那位如此说话的天神使者,仙人说:“我希望听你讲述天界居民的美德。”

3.261.36

के गुणास्तत्रवसतां किं तपः कश्च निश्चयः ।
स्वर्गे तत्रसुखं किं च दोषो वा देवदूतक ॥ ३.२६१.३६ ॥

住在那里的人有什么美德?有什么苦行,什么坚定的决心?天界之中有什么快乐,又有什么过失,天神使者啊?

3.261.37

सतां साप्तपदं मित्रमाहुः सन्तः कुलोचिताः ।
मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो ॥ ३.२६१.३७ ॥

合乎家族之道的贤者说,七步相随而结成的友谊才是真正的友谊。念及我们的友情,啊,强大的人,我向你发问。

3.261.38

यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन् ।
श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव ॥ ३.२६१.३८ ॥

此事中何者真实且有益,便不加思索地说出来。听了你的话,我便照此定夺。