摩诃婆罗多 · 章 3.29
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.29.1
द्रौपद्या वचनं श्रुत्वा श्लक्ष्णाक्षरपदं शुभम् ।
उवाच द्रौपदीं राजा स्मयमानो युधिष्ठिरः ॥ ३.२९.१ ॥
般遮罗公主德罗波蒂的话语字句柔和、措辞优美,国王坚战听后微笑着对她说道。
3.29.2
कारणे भवती क्रुद्धा धार्तराष्ट्रस्य दुर्मतेः ।
येन क्रोधं महाप्रज्ञे बहुधा बहुमन्यसे।
क्रोधमूलं हरं शत्रुं कारणैः शृणु तं मम ॥ ३.२९.२ ॥
你之所以愤怒,是因为恶念的持国之子。啊,大智慧的女子,你多方面地看重愤怒,那么请听我陈述,说明那作为愤怒根源的敌人,并列出理由。
3.29.3
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः ।
इति विद्धि महाप्रात्रे क्रोधमूलौ भवाभवौ । ॥ ३.२९.३ ॥
愤怒毁灭人类,愤怒也使人重新生起。啊,伟大的人,要知道,存在与不存在,二者的根源都是愤怒。
3.29.4
यो हि संहरते क्रोधं भावस्तस्य सुशोभने ।
यो न संहरते क्रोधं तस्याभावो भवत्युत।
अभावकारणं तस्मात्क्रोधो भवति शोभने ॥ ३.२९.४ ॥
能克制愤怒的人,啊,光彩照人的女子,会得到兴旺;不能克制愤怒的人,则会遭致毁灭。因此,啊,光彩照人的女子,愤怒正是毁灭的原因。
3.29.5
यः पुनः पुरुषः क्रोधं नित्यं विसृजते शुभे ।
तस्याभावाय भवति क्रोधः परमदारुणः ॥ ३.२९.५ ॥
而那经常放纵愤怒的人,啊,吉祥的女子,他会因此生起极其可怕的愤怒,导致自己的毁灭。
3.29.6
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते ।
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् ॥ ३.२९.६ ॥
在此可见,众生的毁灭以愤怒为根源。那么,像我这样的人,怎能放纵这毁灭世界的愤怒呢?
3.29.7
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि ।
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते ॥ ३.२९.७ ॥
愤怒之人会作恶;在愤怒中,他甚至会杀害尊长。愤怒者以粗暴之言,甚至轻慢那些优秀之人。
3.29.8
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित् ।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा ॥ ३.२९.८ ॥
愤怒之人从不知道什么该说、什么不该说。对于愤怒者而言,无所谓不可做之事,也无所谓不可言之语。
3.29.9
हिंस्यात्क्रोधादवध्यांस्तु वध्यान्संपूजयीत च ।
आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् ॥ ३.२९.९ ॥
因愤怒,他伤害不该伤害之人,却尊敬应当被诛之人。愤怒者甚至会把自己送往阎摩之所。
3.29.10
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः ।
इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् ॥ ३.२९.१० ॥
明察这些过失的智者,在今生与来世都求取至善,因而战胜了愤怒。
3.29.11
तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्ररेत् ।
एतद्द्रौपदि संस्मृत्यन मे मन्युः प्रवर्धते ॥ ३.२९.११ ॥
像我这样的人,怎能去行那被坚定者舍弃的愤怒?德罗波蒂啊,即使想到这些,我的怒气仍在增长。
3.29.12
आत्मानं च परांश्चैव त्रायते महतो भयात् ।
क्रुध्यन्तमप्रतिक्रुध्यन्दूयोरेष चिकित्सकः ॥ ३.२९.१२ ॥
对愤怒之人不以愤怒相报者,既能保护自己,也能保护他人免于大难;他是二者的医者。
3.29.13
मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः ।
बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः ॥ ३.२९.१३ ॥
若愚昧无力之人在困苦中发怒,最终便会在强者面前舍弃自己。
3.29.14
तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः ।
तस्माद्द्रौपद्यशक्तस् मन्योर्नियमनं स्मृतम् ॥ ३.२९.१४ ॥
舍弃自己、没有自制的人,其世界便会毁灭。因此,德劳帕蒂啊,对无力者而言,克制愤怒被认为是规范。
3.29.15
विद्वांस्तथैव यः शक्तः क्लिश्यमानः प्रकुप्यति ।
स नाशयित्वा द्वेष्टारं परलोके न नन्दति ॥ ३.२९.१५ ॥
同样,有智慧且有能力的人若在困苦中发怒,即便毁灭了敌人,在来世也不会欢喜。
3.29.16
तस्माद्बलवता चैव दुर्बलेन च नित्यदा ।
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता ॥ ३.२९.१६ ॥
因此,人们说,无论强者还是弱者都应当常常忍耐;即便在灾难中,明智之人也应如此忍受。
3.29.17
मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः ।
क्षमावतो जयो नित्यं साधोरिह सतां मतम् ॥ ३.२९.१७ ॥
克里希纳啊,此处善人确实称赞战胜愤怒;宽恕者常有胜利;在善人看来,这便是此世善人的胜利。
3.29.18
सत्यंचानृततः श्रेयो नृशंसाच्चानृशंसता ।
तमेवं बहुदोषं त क्रोधं सद्भिर्विवर्जितम्।
मादृशो विसृजेत्तस्मात्सर्वलोकविनाशनम् ॥ ३.२९.१८ ॥
真实胜过虚妄,慈悲胜过残忍。因此,像我这样的人应当舍弃那充满诸多过失、为善人所远离、毁灭一切世界的愤怒。
3.29.19
तेजस्वीति यमाहुर्वै पण्डिता दीर्गदर्शिनः ।
न क्रोधोऽभ्यन्तरस्तस् भवतीति विनिश्चेतम् ॥ ३.२९.१९ ॥
那些有远见的智者称为光明者之人,其内心必定没有愤怒,这是确定的。
3.29.20
वस्तु क्रोधं समुत्पन्नं प्रज्ञया परिबाधते ।
तेजस्विनं तं विदुषो मन्यन्ते तत्त्वदर्शिनः ॥ ३.२९.२० ॥
以智慧驱散已生起的愤怒之人,见真理的智者认为他才是光明者。
3.29.21
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति ।
नाकार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति ॥ ३.२९.२१ ॥
美腰的女子啊,愤怒之人无法正确地看见其应尽的职责;愤怒之人也看不到不应为之事,也看不到礼法的界限。
3.29.22
हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि ।
तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः ॥ ३.२९.२२ ॥
愤怒之人连不可杀的人也会杀,连长辈也会以刺耳的话语伤害。因此,在应当显现光明之德时,应将愤怒远远地放在一边。
3.29.23
दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः ।
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ॥ ३.२९.२३ ॥
机敏、不容忍之心(阿玛沙)、勇武与敏捷——这些是光明之德的品质;被愤怒所支配的人不能轻易获得它们。
3.29.24
क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते ।
कालयुक्तं महाप्राज्ञैः क्रुद्धैस्तेजः सुदुर्लभम् ॥ ३.२९.२४ ॥
唯有舍弃愤怒,人才能真正获得光明之德;与时机相应的光明,为大智者所得,对于愤怒之人而言极其难得。
3.29.25
क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिनिश्चितम् ।
रजस्तु लोकनाशाय विहितं मानुषान्प्रति ॥ ३.२९.२५ ॥
愚人坚信,愤怒始终是光辉;然而,罗阇(激情)被规定用于毁灭人类之世界。
3.29.26
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् ।
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ॥ ३.२९.२६ ॥
因此,人应当永远舍弃愤怒,行为端正;不偏离自己的本分,不发怒,这才是更好的,此点确定无疑。
3.29.27
यदि सर्वमबुद्धीनामतिक्रान्तमचेतसाम् ।
अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते ॥ ३.२९.२७ ॥
若愚昧无知者的一切过错都得以宽恕,那么对于像我这样的人,又怎会有过错呢?哦,无可指摘者?
3.29.28
यदि न स्युर्मानुषेषु क्षमिणः पृथिवीसमाः ।
न स्यात्सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः ॥ ३.२९.२८ ॥
若人中没有如大地般宽容的人,人与人之间就不会有和平,因为争斗的根源正是愤怒。
3.29.29
अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः ।
एवं विनाशो भूतानाममधर्मः प्रथितो भवेत् ॥ ३.२९.२९ ॥
受到攻击的人会攻击其攻击者,被长者打的人也会还击;如此,众生的毁灭与不义便会广为流行。
3.29.30
आक्रुष्ट पुरुषः सर्वं प्रत्याक्रोशेदनन्तरम् ।
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः ॥ ३.२९.३० ॥
被辱骂的人立即会以辱骂回应;被打的人会打回去,被伤害的人也会伤害对方。
3.29.31
हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन् ।
हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च ॥ ३.२९.३१ ॥
父亲可以杀死儿子,儿子也同样可以杀死父亲。丈夫可以杀死妻子,妻子也同样可以杀死丈夫。
3.29.32
एवं संकुपिते लोके जन्म कृष्णो न विद्यते ।
प्रजानां सन्धिमूलं हि जन्म विद्धिशुभानने ॥ ३.२९.३२ ॥
当世界如此动荡时,便找不到(善的)诞生;要知道,美丽的女子啊,诞生正是众生和谐的根源。
3.29.33
ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशाः ।
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च ॥ ३.२९.३३ ॥
德罗波蒂啊,所有这样的众生很快都会灭亡。因此,愤怒带来众生的毁灭与衰败。
3.29.34
यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः ।
तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते ॥ ३.२९.३४ ॥
因为在世上,忍耐者被看作如同大地;因此众生的诞生与存在得以确立。
3.29.35
क्षन्तव्यं पुरुषेणेह सर्वापत्सु सुशोभने ।
क्षमावतो हि भूतानां जन्म चैव प्रकीर्तितम् ॥ ३.२९.३५ ॥
人在此世的一切灾难中都应当忍耐,美丽的人啊;因为有忍耐之德的众生的诞生,确实被称颂。
3.29.36
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बवीयसा ।
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः।
प्रभाववानपि नरस्तस्य लोकाः सनातनाः ॥ ३.२९.३६ ॥
受辱、受打、被激怒,仍在长者面前忍耐;常胜于愤怒、有智慧的上等人——即使他有权势,他的世界也是永恒的。
3.29.37
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति ॥ ३.२९.३७ ॥
易怒而见识浅薄的人,死后和今生都会毁灭。
3.29.38
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् ।
गीताः क्षमावतां कृष्णे काश्यपेन महात्मना ॥ ३.२९.३८ ॥
此处也常诵这些关于忍耐者的偈颂,它们是大德迦叶所唱。
3.29.39
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् ।
यस्तमेवं विजानाति स सर्वं क्षन्तुर्महति ॥ ३.२९.३९ ॥
忍耐即是法,忍耐即是祭祀,忍耐即是吠陀,忍耐即是所闻;如此知之者,便能充分获得忍耐者所应得的一切。
3.29.40
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च ।
क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् ॥ ३.२९.४० ॥
忍耐即梵,忍耐即真实,忍耐即过去与未来;忍耐即苦行,忍耐即清净;此世界正是借忍耐而得以维持。
3.29.41
अति यज्ञविदां लोकान्क्षमिणः प्राप्नुवन्ति च ।
अति ब्रह्मविदां लोकानति चापि तपस्विनाम् ॥ ३.२९.४१ ॥
忍耐者所得的世界,超越知祭祀者的世界,超越知梵者的世界,甚至超越苦行者的世界。
3.29.42
अन्ये वै यजुषां लोकाः कर्मिणामपरे तथा ।
क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः ॥ ३.२९.४२ ॥
知夜柔吠陀者的世界另有一处,行祭仪者的世界又是一处;但忍耐者的世界在梵天界,备受至上尊崇。
3.29.43
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् ।
क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शभः ॥ ३.२९.४३ ॥
忍耐是光明者的光辉,忍耐是苦行者的梵。忍耐是诚实者的真实;忍耐是祭祀;忍耐是吉祥。
3.29.44
तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत् ।
यत्रब्रह्म च सत्यं च यज्ञा लोकाश्च धिष्ठिताः ॥ ३.२९.४४ ॥
像我们这样的人,怎能舍弃克里希纳身上那样的忍耐?梵、真理、祭祀与诸世界都建立于其中。
3.29.45
इज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा ।
क्षन्तव्यमेव सततं पुरुषेण विजानता।
यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा ॥ ३.२९.४५ ॥
行祭者的诸世界受到尊崇,忍耐者的诸世界亦然。有智慧的人应当始终忍耐;当他忍受一切时,便得到梵。
3.29.46
क्षमावतामयं लोकः परश्चैव क्षमावताम् ।
इह सन्मानमृच्छन्ति परत्र च परा गतिम् ॥ ३.२९.४६ ॥
此世界属于忍耐者,彼世界也属于忍耐者。在此他们获得尊重,在彼他们达到最高归宿。
3.29.47
येषां मन्युर्मनुष्याणां क्षमयाऽभिहतः सदा ।
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ॥ ३.२९.४७ ॥
对于那些怒气总被忍耐平息的人,有更高的世界;因此忍耐被认为是至高的。
3.29.48
इति गीताः काश्यपेन गाथानित्यं क्षमावताम् ।
श्रुत्वा गाथाः क्षमायास्त्वं तुष्यद्रौपदि मा क्रुधः ॥ ३.२९.४८ ॥
迦叶波一直这样吟唱关于忍耐者的这些偈颂。德罗波蒂啊,听了这些关于忍耐的偈颂,便该欢喜;不要愤怒。
3.29.49
पितामहः शान्तनवः रशमं संपूजयिष्यति ।
कृष्णश्च देवकीपुत्रः शमं संपूजयिष्यति ॥ ३.२९.४९ ॥
祖父、Śāntanu之子将尊重和平,德瓦基之子黑天也将尊重和平。
3.29.50
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः ।
कृपश्च संजयश्चैव शममेव वदिष्यतः ॥ ३.२९.५० ॥
师长与管家维杜拉只会谈论和平;克利巴与桑迦耶也只会谈论和平。
3.29.51
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च ।
पितामहश्च नो व्यासः शमं वदति नित्यशः ॥ ३.२९.५१ ॥
索摩达塔、尤尤茨与德罗纳之子亦然;我们的祖父毗耶娑也时常谈论和平。
3.29.52
एतैर्हि राजा नियतं चोद्यमानः शमं प्रति ।
राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति ॥ ३.२९.५२ ॥
在他们一致促使下,国王必定会向和平让出王国——我的看法是如此,除非贪欲阻止他。
3.29.53
कालोऽयं दारुणः प्राप्तो भरतानामभूतये ।
निश्चितं मे सदैवैतत्पुरस्तादपि भामिति ॥ ३.२९.५३ ॥
夫人啊,毁灭婆罗多族的可怕时刻已经来临;这一直是我坚定的信念,之前亦是如此。
3.29.54
सुयोधनो नार्हतीति क्षमा मामेव विन्दति ।
अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा ॥ ३.२९.५४ ॥
因为苏约陀那不配,忍耐便找上我;在那里我是配得的——因此忍耐找到了我。
3.29.55
एतदात्मवतां वृत्तमेष धर्मः सनातनः ।
क्षमा चैवानृशंस्यं च तत्कर्ताऽस्म्यहमञ्जसा ॥ ३.२९.५५ ॥
这是自制者的行为,这是永恒的法。忍耐与仁慈——我确实实行这些。