摩诃婆罗多 · 章 3.31
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.31.1
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः ।
उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे ॥ ३.३१.१ ॥
耶遮娑纳之女啊,你那悦耳、辞藻华美而温和的言辞,我们已经听到;但你却在说无神论。
3.31.2
नाहं धर्मफलाकाङ्क्षी राजपुत्रि चराम्भुत ।
ददामि देयमित्येव यजे यष्टव्यमित्युत ॥ ३.३१.२ ॥
公主啊,奇妙的人啊,我行法并非为了求取法的果报;我施舍,因为应当施舍;我献祭,因为应当献祭。
3.31.3
अस्तु वाऽत्र फलं मा वा कर्तव्यं पुरुषेण यत् ।
गृहे निवसता कृष्णे यथाशक्ति करोमि तत् ॥ ३.३१.३ ॥
无论此处是否有果报,克里希那啊,人所应做之事,我居家而行,尽力去做。
3.31.4
धर्मं चरामि सुश्रोणि न धर्मफलकारणात् ।
आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च ॥ ३.३१.४ ॥
美臀的女子啊,我行法并非为了法的果报;不违背圣典,并观察善人的行为,我才遵行法。
3.31.5
धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् ।
धर्मवाणिज्यको हीनो जघन्यो धर्मवादिनाम् ॥ ३.३१.५ ॥
克里希那啊,我的心只安住于法,而且依本性我也持守它;把法当作买卖的人,在谈论法的人中是最卑贱、最低劣的。
3.31.6
न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति ।
यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः ॥ ३.३१.६ ॥
想要榨取法的人,得不到法的果报;而怀疑它的人,因无神论而心怀邪念。
3.31.7
अतिवादान्मदाच्चैव मा धर्ममभिशङ्कथाः ।
धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः ॥ ३.३१.७ ॥
不要因狂妄自大或骄慢而怀疑法。过度怀疑法的人,会走上歪曲的道路。
3.31.8
धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः ।
वेदाच्छूद्र इवापेयात्स लोकादजरामरात् ॥ ३.३१.८ ॥
对于那个认为法过于可疑,或软弱之人认为仙人之言可疑的人,他就被逐出吠陀,如同首陀罗,如同不可饮之物,也被逐出那不老不死的世界。
3.31.9
वेदाध्यायी धर्मपरः कुले जातो मनस्विनि ।
स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः ॥ ३.३१.९ ॥
研习吠陀、专注于法、出身高贵家族的人,应由奉行法的国王任命于长者之中。
3.31.10
पापीयान्स हि शूद्रेभ्यस्तस्करेभ्यो विशिष्यते ।
शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते ॥ ३.३१.१० ॥
那个违背经典、过度怀疑法的愚钝之人,比首陀罗更为罪恶,甚至超过盗贼。
3.31.11
प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः ।
मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविता ॥ ३.३१.११ ॥
你亲眼见过大苦行者、灵魂不可测量的仙人摩根德耶在行走;他因法而得长寿。
3.31.12
व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः ।
अन्ये च ऋषयः सर्वे धर्मेणैव सुचेतसः ॥ ३.३१.१२ ॥
毗耶娑、伐悉侘、弥勒、那罗陀、罗摩莎、苏迦,以及其他所有心智清明的仙人,都仅因法而成为如此。
3.31.13
प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान् ।
शापानुग्रहणे शक्तान्देवेभ्योऽपि गरीयसः ॥ ३.३१.१३ ॥
你亲眼看见这些人,他们具有神圣的神通,能够降咒也能施恩,比诸神更加尊贵。
3.31.14
एते हि धर्ममेवादौ वर्णयन्ति सदाऽनधे ।
कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः ॥ ३.३१.१४ ॥
无垢者啊,他们总是首先宣说法,教导应当履行的职责;他们如同天神,智慧建立在直接的见证与圣典之上。
3.31.15
अतो नार्हसि कल्याणि धातारं धर्ममेव च ।
रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च ॥ ३.३१.१५ ॥
因此,吉祥的女子啊,以被激情所迷惑的心去诽谤或怀疑造物主与法,对你是不相宜的。
3.31.16
उन्मत्तान्मन्यते बालः सर्वानागतनिश्चयान् ।
धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति ॥ ३.३१.१६ ॥
愚人把所有立有定见之人都当作疯子;对法过度怀疑的人,在别处也找不到权威的依据。
3.31.17
इन्द्रियप्रीतिसंबद्धं यदिदं लोकसाक्षिकम् ।
एतावन्मन्यते बालो मोहमन्यत्र गच्छति ॥ ३.३१.१७ ॥
愚人认为,只有这一切——系于感官之乐、为世间所见证——便是全部,于是又陷入另一种迷惑。
3.31.18
प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते ।
ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते ॥ ३.३१.१८ ॥
对法过度怀疑的人,没有赎罪之道;这卑劣而有罪的人,沉思不已,无法到达诸界。
3.31.19
प्रमाणाद्धि निवृत्तो हि वेदशास्त्रार्थनिन्दकः ।
कामलोभानुगो मूढो नरकं प्रतिपद्यते ॥ ३.३१.१९ ॥
背离权威、诽谤吠陀与典籍之义、随从欲望与贪婪的愚人,将堕入地狱。
3.31.20
आर्षं प्रमाणमुत्क्राम्य धर्मं न प्रतिपालयन् ।
सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति ॥ ३.३१.२० ॥
违越仙人权威、不守法(达摩)、超越一切典籍的愚人,在诸生中不得安乐。
3.31.21
यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते ।
अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते ॥ ३.३१.२१ ॥
心志坚定、始终唯依达摩、不生疑惑的人,啊吉祥的女子,在彼世享受无尽的喜乐。
3.31.22
यस्य नार्षं प्रमाणं स्याच्छिष्टाचारश्च भामिनि ।
न वै तस्य परो लोको नायमस्तीति निश्चयः ॥ ३.३१.२२ ॥
无圣仙之权威、无贤者之行止者,啊夫人,对他而言既无彼世,也无此世——此乃定论。
3.31.23
शिष्टैराचरितं धर्मं कृष्णे मास्मातिशङ्कथाः ।
पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः ॥ ३.३१.२३ ॥
克里希纳啊,不要过度怀疑贤者所行之达摩;这是圣仙——全知全见者——所宣说的古传。
3.31.24
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् ।
सैवः नौः सागरस्येव वणिजः पारमिच्छतः ॥ ३.३१.२४ ॥
德罗波蒂啊,对于走向天界者,达摩便是唯一的船,别无他物;如同想要渡过大海的商人之船。
3.31.25
अफलो यदि धर्मः स्याच्चरितो धर्मचारिभिः ।
अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते ॥ ३.३१.२५ ॥
若行法者所行之法无果,此世界便将沉入无根的黑暗之中,无过失者啊。
3.31.26
निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम् ।
विघातेनैव युज्येयुर्न चार्थं कंचिदाप्नुयुः ॥ ३.३१.२६ ॥
他们将不得解脱,过着禽兽般的生活,只与毁灭相连,也得不到任何利益。
3.31.27
तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च ।
दानमार्जवमेतानि यदि स्युरफलानि वै ॥ ३.३१.२७ ॥
若苦行、梵行、祭祀、诵读经典、布施与正直,皆是无果,
3.31.28
नाचरिष्यन्परे धर्मं परे परतरेऽपि च ।
दानमार्जवमेतानि यदि स्युरफलानि वै ॥ ३.३१.२८ ॥
他人、后来者乃至更后来者,都不会行法,若布施与正直皆无果。
3.31.29
ऋषयस्चैव देवाश्च गन्धर्वासुरराक्षसाः ।
ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः ॥ ३.३१.२९ ॥
仙人、天神、乾闼婆、阿修罗与罗刹,这些有力者,为了何故要恭敬地行法呢?
3.31.30
फलदं त्विह विज्ञाय धातारं श्रेयसि स्थितम् ।
धर्मं तेऽव्यचरन्कृष्णे स हि धर्म सनातनः ॥ ३.३१.३० ॥
他们知道此处有赐予果报、安住于善的造物主,于是行法。克里希纳啊,那法便是永恒的。
3.31.31
स चायं सफलो धर्मो न धर्मोऽफल उच्यते ।
दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा ॥ ३.३१.३१ ॥
此法有果;法不被称为无果。学问之果与苦行之果也同样可见。
3.31.32
त्वय्येतद्वै विजानीहि जन्म कृष्णे यथाश्रुतम् ।
वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् ॥ ३.३१.३२ ॥
克利须那,你当知此生如所闻;你也知道威严的德里什塔迪优姆那是如何诞生的。
3.31.33
एतावदेव पर्याप्तमुपमानं शुचिस्मिते ।
कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति ॥ ३.३१.३३ ॥
纯净的微笑者啊,这一个例子已足以说明行为有果报;坚定的人即使得到一点也满足。
3.31.34
बहुनाऽपि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः ।
तेषां न ध्मजं किंचित्प्रेत्य कर्मास्ति शर्म वा ॥ ३.३१.३४ ॥
无知而愚昧之人即使得到很多也不满足;死后,对他们而言,从业中既无所得,也无安乐。
3.31.35
कर्मणामुत पुण्यानां पापानां च फलोदयः ।
प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि ॥ ३.३१.३५ ॥
光彩照人的女子啊,善业与恶业之果的显现,它们的生起与消散,都是诸神的秘密。
3.31.36
नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः ।
अपि कल्पसहस्रेण न च श्रेयोऽधिगच्छति ॥ ३.३१.३६ ॥
凡不知此者,此间众生便陷入迷惑;即使经历千劫,他也不得至善。
3.31.37
रक्ष्याण्येतानि देवानां गूढमाया हि देवताः ।
कृशाङ्गाः सुब्रताश्चैव तपसा दग्धकिल्विषाः।
प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः ॥ ३.३१.३७ ॥
这些受诸神守护,因为神有隐秘的力量。身体瘦削、持守善誓、以苦行烧尽罪恶的再生者,心怀清净,方能真正见到它们。
3.31.38
न फलादर्सनाद्धर्मः शङ्कितव्यो न देवताः ।
यष्टव्यं च प्रयत्नेन दातव्यं चानमूयता ॥ ३.३१.३८ ॥
不可因不见果报而怀疑法,也不可怀疑诸神。应当努力祭祀,并且无嫉妒地布施。
3.31.39
कर्मणां फलमस्तीह तथैतद्धर्मशासनम् ।
ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद काश्यपः ॥ ३.३१.३९ ॥
此世有业报之果,这正是法的教诫。梵天曾向诸子宣说此理,贤者迦叶波亦知之。
3.31.40
तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु ।
विमृश्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज ॥ ३.३१.४० ॥
因此,克里希那啊,愿你的疑惑如雾消散。思量一切确实存在之后,舍弃无神论的态度吧。
3.31.41
ईश्वरं चापि भूतानां धातारं मा च वै क्षिप ।
शिक्षस्वैनं नमस्वैनं मा तेऽभूद्बुद्धिरीदृशी ॥ ३.३१.४१ ॥
不要诋毁众生之主与造物主。应努力认识他,向他礼拜;愿你的心念永不如此。
3.31.42
यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम् ।
उत्तमां देवतां कृष्णे मातिवोचः कथंचन ॥ ३.३१.४२ ॥
凭借他的恩典,其虔信者虽为凡人,亦得不死。对于至高之神克里希那,你绝不可有任何诋毁之言。