Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.310

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.310.1

एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा ।
सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ ॥ ३.३१०.१ ॥

就在那时,持国王的朋友、御者阿提罗陀与妻子一同前往恒河。

3.310.2

तस्य भार्याऽभवद्राजन्रूपेणासदृशी भुवि ।
राधा नाम महाभागा न सा पुत्रमविन्दत।
अपत्यार्थे परं यत्नमकरोच्च विशेषतः ॥ ३.३१०.२ ॥

大王啊,他的妻子在大地上美貌无双。名叫罗陀的大福之人未能得子,因此她极力求子。

3.310.3

सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया ।
दत्तरक्षाप्रतिसरामन्वालम्भनशोभनाम् ॥ ३.३१०.३ ॥

随后她偶然看见一只顺流漂来的匣子,上面系着护身线,并以提手绳装饰得十分美观。

3.310.4

ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् ।
विवर्तमानां बहुशः पुनःपुनरितस्ततः ॥ ३.३१०.४ ॥

那匣子被恒河的波浪带向岸边,一次又一次地在水中旋转,时而这边,时而那边。

3.310.5

ततः सा वायुना राजन्स्रोतसा च बलीयसा ।
उपानीतो यतः सूतः सभार्यो जलमाश्रितः ॥ ३.३१०.५ ॥

大王啊,于是风与强劲的水流把它带到了与妻子一同立在水边的御者那里。

3.310.6

सा तु कौतूहलात्प्राप्तां ग्राहयामास भामिनी ।
ततो निवेदयामास सूतस्याधिरथस्य वै ॥ ३.३१०.६ ॥

那美丽的女子出于好奇,让人把漂来的匣子捞住,然后告诉了御者阿提罗陀。

3.310.7

स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात् ।
यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्रबालकम् ॥ ३.३१०.७ ॥

他取出那箱子,移离近旁的水,用工具将其打开,在那里看见一个孩子。

3.310.8

मृष्टकुण्डलयुक्तेन वदनेन विराजितम् ।
परिम्लानमुखं बालं रुदन्तं क्षुधितं भृशम् ॥ ३.३१०.८ ॥

那孩子以佩戴着光亮耳环的面容闪耀,面色憔悴,哭泣着,极度饥饿。

3.310.9

स तु तं परया लक्ष्म्या दृष्ट्वा युक्तं वरात्मजम् ।
स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः।
अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् ॥ ३.३१०.९ ॥

他看见那位被至高光辉所围绕的优秀之子,惊讶得睁大双眼,便与妻子一起把孩子抱到膝上,对妻子说了这些话。

3.310.10

इदमत्यद्भुतं भीरु यतो जातोस्मि भामिनि ।
दृष्टवान्देवगर्भोऽयं मन्येऽस्माकमुपागतः ॥ ३.३१०.१० ॥

这真是极为奇异,胆怯的女子啊,因为我生于此,夫人啊;我想这位神胎已经来到我们这里。

3.310.11

अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम ।
इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते ॥ ३.३१०.११ ॥

他说:“诸神必定将此子赐给了我这无子之人。”说完,他便把那儿子交给了罗陀,啊,大地之主。

3.310.12

रप्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम् ।
पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् ॥ ३.३१०.१२ ॥

罗陀依礼收下了那位神形的儿子——光如莲花之胎,乃神胎所生,被光辉所环绕。

3.310.13

स्तन्यं समस्रवच्चास्य दैवादित्थ निश्चयः ।
पुपोष चैनं विधिवद्ववृधे स च वीर्यवान्।
ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ॥ ३.३१०.१३ ॥

依天命,乳汁从她的乳房为他流出,这便是定数。众人依礼抚育他,这位有力的孩子长大了。从那时起,她自己的亲生儿子也陆续出生。

3.310.14

नामकर्म च चक्रुस्ते कुण्डले तस् दृश्यते ।
कर्ण इत्येव तं बालं दृष्ट्वा कर्णं सकुण्डलम् ॥ ३.३१०.१४ ॥

他们举行了命名之礼。他的耳环清晰可见;看到这孩子耳上戴着耳环,便为他取名为迦尔纳。

3.310.15

वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् ।
नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ॥ ३.३१०.१५ ॥

看到这孩子身穿金甲、耳戴金环,婆罗门们为他取名为婆苏舍那。

3.310.16

एवं स सूतपुत्रत्वं जगामामितविक्रमः ।
वसुषेण इतिख्यातो वृष इत्येव च प्रभुः ॥ ३.३१०.१६ ॥

就这样,这位威力无量者成为了御者之子。他以婆苏舍那之名著称,又名牛(Vṛṣa),成为一位强大的人物。

3.310.17

सूतस्य ववृधेऽङ्गेषु ज्येष्ठः पुत्रः स वीर्यवान् ।
चारेण विदितश्चासीत्पृथया दिव्यवर्मभृत् ॥ ३.३१०.१७ ॥

这位有力的御者长子在盎伽国长大。通过探子,普利塔(贡蒂)得知他身穿神甲。

3.310.18

सूतस्त्वधिरथः पुत्रं विवृद्धं समयेन तम् ।
दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् ॥ ३.३१०.१८ ॥

然而御者阿提罗陀见儿子按时长大,便把他送往名为婆罗那婆伽亚的城市。

3.310.19

तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि ।
सख्यं दुर्योधनेनैवमगमत्स च वीर्यवान् ॥ ३.३१०.१९ ॥

他在那里侍奉德罗纳学习箭术与兵器之艺,于是这位勇士与难敌结下了友谊。

3.310.20

द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम् ।
लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः ॥ ३.३१०.२० ॥

他从德罗纳、克里帕和罗摩那里获得了四类兵器之学,于是名扬天下,成为至高的弓箭手。

3.310.21

संधाय धार्तराष्ट्रेण पार्थानां विप्रिये रतः ।
योद्धुमाशंसते नित्यं फल्गुनेन महात्मना ॥ ३.३१०.२१ ॥

他与持国之子结盟,专事与般度之子们作对,总想与大德的法尔古那(阿周那)交战。

3.310.22

सदा हि तस् स्पर्धाऽऽसीदर्जुनन विशांपते ।
अर्जुनस्य च कर्णेन यतो द्वन्द्वं बभूव ह ॥ ३.३१०.२२ ॥

人主啊,他与阿周那一直相互竞争,因此阿周那与迦尔纳之间才发生了一对一的决斗。

3.310.23

एतद्गुह्यं महाराज सूर्यस्यासीन्न संशयः ।
यः सूर्यसंभवः कर्णः कुर्यात्प्रतिकुले रतः ॥ ३.३१०.२३ ॥

大王,这是秘密,毫无疑问他是太阳之子;那位生于太阳的迦尔纳,却专做与己方相悖之事。

3.310.24

तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् ।
अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः ॥ ३.३१०.२४ ॥

见他戴着耳环、披着铠甲,又认定他在战场上不可杀害,坚战便深感忧虑。

3.310.25

यदा च कर्णो राजेन्द्र भानुमन्तं दिवाकरम् ।
स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिलोत्थितः ॥ ३.३१०.२५ ॥

王中之王啊,当正午来临时,迦尔纳从水中站起,合掌赞颂那光辉的太阳,昼之创造者。

3.310.26

तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतुना ।
नादेयं तस्य तत्काले किंचिदस्ति द्विजातिषु ॥ ३.३१०.२६ ॥

婆罗门们为求财富来到他那里;那时,他没有任何东西不肯施予再生者。

3.310.27

तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः ।
स्वागतं चेति राधेयस्तमथ प्रत्यभाषत ॥ ३.३१०.२७ ॥

因陀罗化身婆罗门,站到他面前说:「请施舍。」于是罗陀之子迦尔纳回答他说:「欢迎。」