Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 3.314

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

3.314.1

स ददर्श हतान्भ्रातृँल्लोकपालानिव च्युतान् ।
युगान्ते समनुप्राप्ते शक्रवैश्रवणोपमान् ॥ ३.३१४.१ ॥

彼は、劫の終わりに倒れた世界守護神のように、インドラやヴァイシュラヴァナに等しい、殺された兄弟たちを見た。

3.314.2

विनिकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् ।
भीमसेनं यमौ चैव निर्विचेष्टान्गतायुषः ॥ ३.३१४.२ ॥

弓と矢が散らばり、殺されたアルジュナ、ビーマセーナ、そして双子の兄弟が動かず、命を失っているのを見て。

3.314.3

सदीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः ।
तान्दृष्ट्वा पतितान्भ्रातॄन्सर्वांश्चिन्तासमन्वितः। ॥ ३.३१४.३ ॥

彼は長く熱いため息をつき、悲しみと涙に沈み、倒れた兄弟たちを皆見て、深い憂いに満たされた。

3.314.4

ननु त्वया महाबाहो प्रतिज्ञातं वृकोदर ।
सुयोधनस्य भेत्स्यामि गदया सक्थिनी रणे ॥ ३.३१४.४ ॥

大腕のヴリコーダラよ、お前は戦場で棍棒によってスヨーダナの両腿を砕くと誓わなかったか。

3.314.5

व्यर्थं तदद्य मे सर्वं त्वयि वीरे निपातिते ।
महात्मनि महाबाहो कुरूणां कीर्तिवर्धने ॥ ३.३१४.५ ॥

英雄よ、偉大な魂よ、大腕よ、クル族の栄光を増す者よ、お前が倒れた今、私のすべては今日空しくなった。

3.314.6

मनुष्यसंभवा वाचो विधर्मिण्यः प्रतिश्रुताः ।
भवतां दिव्यवाचस्तु ता भवन्तु कथं मृषा ॥ ३.३१४.६ ॥

人の言葉は法に反して誓われることもあろうが、あなた方の神聖な言葉がどうして偽りとなろうか。

3.314.7

देवाश्चापि यदाऽवोचन्मूतके त्वां धनंजय ।
सहस्राक्षादनवरः कुन्ति पुत्रस्तवेति वै ॥ ३.३१४.७ ॥

誕生の儀式の折、神々もまたおまえについて語った。「ダナンジャヤよ、おまえは千眼の神(インドラ)に劣らぬ、クンティーの子、まさしくおまえのものだ」と。

3.314.8

उत्तरे पारियात्रे च जगुर्भूतानि सर्वशः ।
विप्रनष्टां श्रियं चैषामाहर्ता पुनरोजसा ॥ ३.३१४.८ ॥

北方とパーリヤートラの山々で、あらゆる生き物が歌った。「彼らの失われた栄光を、彼が自らの力で再び取り戻すだろう」と。

3.314.9

नास्य जेता रणे कश्चिदजेता नैष कस्यचित् ।
सोयं मृत्युवशं यातः कथं जिष्णुर्महाबलः ॥ ३.३१४.९ ॥

戦場で彼を征服できる者はおらず、彼もまた誰にも征服されない者ではなかった。この偉大な勝利者ジシュヌが、どうして死の支配下に行ってしまったのか。

3.314.10

अयं ममाशां संहत्य शेते भूमौ धनंजयः ।
आश्रित्ययं वयं नाथं दुःखान्येतानि सेहिम ॥ ३.३१४.१० ॥

私の望みを打ち砕き、ダナンジャヤは地に横たわっている。この主を頼りに、私たちはこれらの苦しみに耐えてきたのだ。

3.314.11

रणे प्रगल्भौ वीरौ च सदा शत्रुनिबर्हणौ ।
कथं रिपुवशं यातौ कुन्तीपुत्रौ महाबलौ।
यौ सर्वास्त्रा प्रतिहतौ भीमसेनधनंजयौ ॥ ३.३१४.११ ॥

戦場で常に勇敢で敵を打ち倒す者、あらゆる武器にも傷つかぬ者、クンティーの二人の偉大な息子、ビーマセーナとダナンジャヤ——どうして敵の支配下に落ちてしまったのか。

3.314.12

अश्मसारमयं नूनं हृदयं मम दुर्हृदः ।
यमौ यदेतौ दृष्ट्वाऽद्य पतितौ नावदीर्यते ॥ ३.३१४.१२ ॥

まことに私の心は鉄と石でできているのだ、硬い心をもつ。今日この双子が倒れているのを見ても、なお張り裂けないのだから。

3.314.13

शास्त्रज्ञा देशकालज्ञास्तपोयुक्ताः क्रियान्विताः ।
अकृत्वा सदृशं कर्म किं शेध्वं पुरुषर्षभाः ॥ ३.३१४.१३ ॥

聖典に通じ、場所と時を知り、苦行を備え、行いに励む人中の牡牛たちよ、ふさわしい行いもせずに、なぜ横たわっているのか。

3.314.14

अविक्षतशरीराश्चाप्यप्रमृष्टशरासनाः ।
असंज्ञा भुवि संगम्य किं शेष्वमपराजिताः ॥ ३.३१४.१४ ॥

身体に傷もなく、弓も拭われぬまま、気を失って地に集まり、無敵の者たちよ、なぜ横たわっているのか。

3.314.15

सानूनि वाद्रेः संसुप्तान्दृष्ट्वा भ्रातृन्महामतिः ।
सुखं प्रसुप्तान्प्रस्विन्नः खिन्नः कष्टां दशां गतः ॥ ३.३१४.१५ ॥

山の斜面で深く眠る兄弟たちを見て、大智のその人は汗にまみれ、憔悴して苦しい状態に陥った。

3.314.16

एवमेवेदमित्युक्त्वा धर्मात्मा स नरेश्वरः ।
शोकसागरमध्यस्थो दध्यौ कारणमाकुलः ॥ ३.३१४.१६ ॥

「まさにこのとおりだ」と言い、義に満ちた人の主は悲しみの海の只中で動揺し、その原因を思い巡らした。

3.314.17

इतिकर्तव्यतां चेति देशकालविभागवित् ।
नाभिपेदे महाबाहुश्चिन्तयानो महामतिः ॥ ३.३१४.१७ ॥

「今どうすべきか」と思い巡らしたが、大臂の大智者は、場所と時の区分を知りながらも、道を見いだせなかった。

3.314.18

अथ संस्तभ्य धर्मात्मा तदाऽऽत्मानं तपःसुतः ।
एवं विलप्य बहुधा धर्मपुत्रो युधिष्ठिरः।
बुद्ध्या विचिन्तयामास वीराः केन निपातिताः ॥ ३.३१४.१८ ॥

そのとき、義に満ちた苦行の子は自らを立て直し、このように様々に嘆いたのち、法の子ユディシュティラは知性で思った。「これらの英雄たちは誰に倒されたのか。」

3.314.19

नैषां शस्त्रप्रहारोस्ति पदं नेहास्ति कस्यचित् ।
भूतं महदेदं मन्ये भ्रातरो येन मे हताः ॥ ३.३१४.१९ ॥

彼らには武器の打撃の跡がなく、ここには誰の足跡もない。私の兄弟を殺したのは何か大きな霊(bhūta)だと思う。

3.314.20

एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ।
भ्रातॄणां न्न्यसनं घोरं सममेव महात्मनाम् ॥ ३.३१४.२० ॥

一心に考えよう、あるいは水を飲んでから知ることになるだろう。偉大な兄弟たちのこの恐ろしい滅亡は、一度に起きたのだ。

3.314.21

स्यात्तु दुर्योधनेनेदमुपांशु परिकल्पितम् ।
गान्धारराजरचितं सततं जिह्मबुद्धिना ॥ ३.३१४.२१ ॥

これはおそらくドゥルヨーダナが密かに企て、ガーンダーラ王(シャクニ)が仕組み、常に心の曲がった者によるものだろう。

3.314.22

यस् कार्यमकार्यं वा सममेव भवत्युत ।
कस्तस्य विश्वसेद्वीरो दुष्कृतेरकृतात्मनः ॥ ३.३१४.२२ ॥

為すべきことも為すべからざることも、同じになってしまう。あの悪行者、未熟な魂の男を、どの勇士が信じるだろうか。

3.314.23

अथवा पुरुषैर्गूढैः प्रयोगोऽयंदुरात्मनः ।
भवेदिति महाबुद्धिर्बहुधा समचिन्तयत् ॥ ३.३१४.२३ ॥

あるいは、それはあの悪人の密偵による策略かもしれない。こうして大智のその者は、さまざまに思いを巡らせた。

3.314.24

आचार्यं किं नु वक्ष्यामि कृपं भीष्ममहं नु किम् ।
विदुरं किं नु वक्ष्यामि बृहस्पतिसमं नये ॥ ३.३१४.२४ ॥

師(ドローナ)に私は何を言おうか。クリパとビーシュマに何を言おうか。策略においてブリハスパティに等しいヴィドゥラに何を言おうか。

3.314.25

अम्बां च किं नु वक्ष्यामि सर्वदा दुःखभागिनीम् ।
दृष्ट्वा मां भ्रातृभिर्हीनं पृच्छन्तीं पुत्रगृद्धिनीम् ॥ ३.३१४.२५ ॥

常に悲しみを分かつ母アンバー(クンティー)に、兄弟を失った私を見て、息子を切望する彼女が尋ねるとき、私は何と言えばよいのか。

3.314.26

यदा त्वं भ्रातृभिः सर्वैः शक्रतुल्यपराक्रमैः ।
सार्धं वनं गतो वीरैः कथमेकस्त्वमागतः ॥ ३.३१४.२६ ॥

帝釈天に並ぶ武勇の兄弟たちすべてと共に森へ行ったあなたが、どうして今ひとりで戻ってきたのか。

3.314.27

कस्य किं नु विषेणेदमुदकं दूषितं यथा ।
मृतानामपि चैतेषां विकृतं नैव जायते।
मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् ॥ ३.३१४.२७ ॥

「誰が、どんな毒でこの水を汚したのか。死んでいるのに、彼らには何の変化も見えない。兄たちの顔色は穏やかなままだ」と彼は思った。

3.314.28

एकैकशश्चौघबलानिमान्पुरुषसत्तमान् ।
कोऽन्यः प्रतिसमासेत कालान्तक यमादृते ॥ ३.३१४.२८ ॥

時間の終わりたるカーラーンタカよ、洪水のような力を持つこれらの最上の人々に、一人ずつ立ち向かえるのはヤマを除いて他に誰がいようか。

3.314.29

एतेन व्यवसायेन तत्तोयं व्यवगाढवान् ।
पातुकामश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ॥ ३.३१४.२९ ॥

この決意のもとに彼はその水に身を沈めた。飲もうとして水に入ったとき、彼は空から声を聞いた。

3.314.30

अहं बकः शैवलमत्स्यभक्षो ।
नीता मया प्रेतवशं तवानुजाः।
त्वं पञ्चमो भविता राजपुत्र ।
न चेत्प्रश्नान्पृच्छतो व्याकरोषि ॥ ३.३१४.३० ॥

私は鶴であり、藻と魚を食べる者だ。お前の弟たちは私が死の支配へ連れて行った。王子よ、もし私の問いに答えなければ、お前が五人目となるだろう。

3.314.31

मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ ३.३१४.३१ ॥

わが子よ、すでに私が所有する水に対して軽率なことをするな。クンティーの子よ、問いに答えてから、飲んで持ち去れ。

3.314.32

रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् ।
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ॥ ३.३१४.३२ ॥

ルドラ、ヴァス、マルトのうち最も優れた者よ、問う——あなたはどの神か。これはシャクニのしたことではない。

3.314.33

हिमवान्पारियात्रश्च विन्ध्यो मलय एव च ।
चत्वारः पर्वताः केन पातिता भुवि तेजसा ॥ ३.३१४.३३ ॥

ヒマーラヤ、パーリヤートラ、ヴィンディヤ、そしてマラヤ——この四つの山は、誰の威力によって地上に倒されたのか。

3.314.34

त्वयाऽतीव महत्कर्म कृतं च बलिनां वर ।
विनिघ्नता महेष्वासांश्चतुरोपि ममात्मजान् ॥ ३.३१४.३४ ॥

力ある者のうち最上の者よ、あなたは非常に大きな行いをした。私の四人の偉大な弓術の息子たちを殺して。

3.314.35

यान्न देवा न गन्धर्वा नासुराश्च न राक्षसाः ।
विपहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ॥ ३.३१४.३५ ॥

神々もガンダルヴァもアスラもラークシャサも大戦で耐えられなかった者たち——それがあなたの最も驚くべき行いだ。

3.314.36

न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् ।
कौतूहलं महज्जातं साध्वसं चागतं मम ॥ ३.३१४.३६ ॥

あなたの目的も、望むことも私にはわからない。私の中に大きな好奇心が生じ、恐れもやってきた。

3.314.37

येनास्स्युद्विग्नहृदयः समुत्पन्न शिरोज्वरः ।
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ॥ ३.३१४.३७ ॥

心は乱れ、頭には熱が生じた。ゆえに問う、尊き方よ、ここに立つあなたは誰か。

3.314.38

यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः ।
मयैते निहता सर्वे भ्रातरस्ते निवारिताः ॥ ३.३१४.३८ ॥

私は夜叉である、あなたに幸あれ。私は水中に住む鳥ではない。あなたの兄弟たちはみな私によって殺され、引き止められた。

3.314.39

ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् ।
यक्षस्य ब्रुवतो राजन्नाकम्पत तदाऽऽस्थितः ॥ ३.३१४.३९ ॥

王よ、夜叉が語るその不吉で荒々しい言葉を聞いても、彼は震えず、毅然として座っていた。

3.314.40

विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् ।
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ॥ ३.३१४.४० ॥

彼は、目がゆがみ、巨体で、ターラ樹のように背の高い夜叉を見た。燃える火と太陽のようで、打ち破りがたく、山のようであった。

3.314.41

सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः ।
मेघगम्भीरनादेन तर्जयन्तं महास्वनम् ॥ ३.३१४.४१ ॥

バラタの雄牛は、橋に寄りかかって立つ彼を見た。雲のように深い声で大音声をあげ、脅していた。

3.314.42

उवाच यक्षः कौन्तेयं भ्रातृशोकप्रपीडितम् ॥ ३.३१४.४२ ॥

夜叉は、兄弟への悲しみに苦しめられるクンティーの息子に語った。

3.314.43

इमे ते भ्रातरो राजन्वार्यमाणा मयाऽसकृत् ।
बलात्तोयं जिहीर्षन्तस्ततो वै मृदिता मया।
न पेयमुदकं राजन्प्राणानिह परीप्सता ॥ ३.३१४.४३ ॥

王よ、あなたのこれらの兄弟は、私が何度も制止したにもかかわらず、力ずくで水を奪おうとしました。そこで私は彼らを打ち倒したのです。王よ、ここで命を守りたい者は、この水を飲んではなりません。

3.314.44

पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ ३.३१४.४४ ॥

プリター の子よ、私が先に所有を主張したこの水に軽はずみなことをしてはならない。クンティーの子よ、まず私の問いに答えてから、飲んで持ち去るがよい。

3.314.45

न चाहं कामये यक्ष तव पूर्वपरिग्रहम् ॥ ३.३१४.४५ ॥

ヤクシャよ、私はあなたの先取りの権利を望みません。

3.314.46

कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ।
यदात्मना स्वमात्मानं प्रशंसेत्पुरुषर्षभ।
यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ॥ ३.३१४.४६ ॥

まことに善き人々は、人が自分で自分を褒めることを決して称えません。しかし人中の牡牛よ、私は自分の知恵に従ってあなたの問いに答えましょう。私に尋ねなさい。

3.314.47

किंस्विदादित्यमुन्नयति के च तस्याभितश्चराः ।
कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ॥ ३.३१४.४७ ॥

太陽を昇らせるのは誰か。その周りを巡るのは誰か。太陽を沈ませるのは誰か。そして太陽はどこに確立しているのか。

3.314.48

ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः ।
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥ ३.३१४.४८ ॥

ブラフマンが太陽を昇らせ、神々がその周りを巡る。ダルマが太陽を沈ませ、太陽は真理に確立している。

3.314.49

केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् ।
केन स्विद्द्वितीयवान्भवति राजन्केन च बुद्धिमान् ॥ ३.३१४.४९ ॥

何によって人はヴェーダに通じた者となるのか。何によって偉大なものを得るのか。何によって、王よ、伴侶を持つのか。また何によって賢明となるのか。

3.314.50

श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् ।
धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥ ३.३१४.५० ॥

聞くことによってヴェーダに通じた者となり、苦行によって偉大なものを得、堅忍によって伴侶を持ち、老人に仕えることによって賢明となる。

3.314.51

किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव ।
कश्चैषां मानुषो भावः किमेषामसतामिव ॥ ३.३१४.५१ ॥

バラモンの神性とは何か。善人のような法とは何か。彼らの人間的状態とは何か。悪人のような彼らの性質とは何か。

3.314.52

स्वाध्याय एषां देवत्वं तप एषां सतामिव ।
मरणं मानुषो भावः परिवादोऽसतामिव ॥ ३.३१४.५२ ॥

彼らの神性は吠陀の読誦であり、その苦行は善人のようであり、死は彼らの人間的本性であり、中傷は悪人のようである。

3.314.53

किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव ।
कश्चैषां मानुषो भावः किमेषामसतामिव ॥ ३.३१४.५३ ॥

クシャトリヤの神性とは何か。善人のような法とは何か。彼らの人間的状態とは何か。悪人のような彼らの性質とは何か。

3.314.54

इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव ।
भयं वै मानुषो भावः परित्यागोऽसतामिव ॥ ३.३१४.५४ ॥

彼らの神性は矢と武器であり、その祭祀は善人のようであり、恐れこそ彼らの人間的本性であり、放棄は悪人のようである。

3.314.55

किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः ।
का चैषां वृणुते यज्ञं कां यज्ञो नातिवर्तते ॥ ३.३१४.५५ ॥

祭祀にふさわしい唯一のサーマンとは何か。祭祀にふさわしい唯一のヤジュスとは何か。これらのうちどれが祭祀を選び、祭祀がどれを踏み越えないのか。

3.314.56

प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः ।
ऋगेका वृणुते यज्ञं तां यज्ञो नातिवर्तते ॥ ३.३१४.५६ ॥

息こそ祭祀にふさわしいサーマンであり、心こそ祭祀にふさわしいヤジュスである。唯一のリチュが祭祀を選び、祭祀はそれを踏み越えない。

3.314.57

किंस्विदावपतां श्रेष्ठं किंस्विन्निवपतां वरम् ।
किंस्वित्प्रतिष्ठमानानां किस्वित्प्रसवतां वरम् ॥ ३.३१४.५७ ॥

種をまく者の中で最も優れたものは何か。種を播く者の中で最も良いものは何か。留まって立つ者の中で最も優れたものは何か。生み出す者の中で最も良いものは何か。

3.314.58

वर्षमावपतां श्रेष्ठं बीजं निवपतां वरम् ।
गावः प्रतिष्ठमानानां पुत्रः प्रसवतां वरः ॥ ३.३१४.५८ ॥

種をまく者の中では雨が最も優れ、種を播く者の中では種そのものが最も良い。留まって立つ者の中では牛が最も優れ、生み出す者の中では息子が最も良い。

3.314.59

इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः ।
संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥ ३.३१४.५९ ॥

知恵があり、感覚の対象を享受し、世に尊ばれ、すべての存在に敬われる者であっても、息をしながら生きていない者は誰か。

3.314.60

देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ ३.३१४.६० ॥

神々、客人、従者、祖霊、そして自分自身——この五者に捧げ物をしない者は、息をしていても生きているとは言えない。

3.314.61

किंस्विद्गुरुतरं भूमेः किंस्विदुच्चतरं च खात् ।
किंस्विच्छीघ्रतरं वायोः किंस्विद्बहुतरं तृणात् ॥ ३.३१४.६१ ॥

大地より重いものは何か。空より高いものは何か。風より速いものは何か。草より多いものは何か。

3.314.62

माता गुरुतरा भूमेः खात्पितोच्चतरस्तथा ।
मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात् ॥ ३.३१४.६२ ॥

母は大地より重く、父は空より高い。心は風より速く、憂いは草より多い。

3.314.63

किंस्वित्सुप्तं न निमिषति किंस्विज्जातं न चेङ्गते ।
कस्यस्विद्धृदयं नास्ति का स्विद्वेगेन वर्धते ॥ ३.३१४.६३ ॥

眠っていても瞬きしないものは何か。生まれても動かないものは何か。心臓のないものは誰か。勢いによって増すものは何か。

3.314.64

मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चेङ्गते ।
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ॥ ३.३१४.६४ ॥

眠る魚は瞬きをせず、孵った卵は動かない。石には心がなく、川は勢いによって増す。

3.314.65

किंस्वित्प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः ।
आतुरस् च किं मित्रं किंस्विन्मित्रं मरिष्यतः ॥ ३.३१४.६५ ॥

旅立つ者の友は誰か。家にいる者の友は誰か。病む者の友は誰か。死にゆく者の友は誰か。

3.314.66

विद्या प्रवसतो मित्रं भार्या मित्रं गृहे सतः ।
आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ॥ ३.३१४.६६ ॥

学問は旅する者の友であり、妻は家にいる者の友である。医師は病む者の友であり、布施は死にゆく者の友である。

3.314.67

कोऽतिथिः सर्वभूतानां किं स्विद्धर्मं सनातनम् ।
अमृतं किंस्विद्राजेन्द्रकिंस्वित्सर्वमिदं जगत् ॥ ३.३१४.६७ ॥

すべての存在にとっての客人とは誰か?永遠のダルマとは何か?王の中の王よ、不死とは何か、この全世界とは何か?

3.314.68

अतिथिः सर्वभूतानामग्निः सोमो गवामृतम् ।
सनातनोऽमृतो धर्मो वायुः सर्वमिदं जगत् ॥ ३.३१४.६८ ॥

火こそすべての存在の客人である。ソーマと牛の乳は甘露である。永遠で不死のダルマは風であり、この全世界もまたそれである。

3.314.69

किंस्विदेको विचरते जातः को जायते पुनः ।
किंस्विद्धिमस्य भैषज्यं किंस्विदावपनं महत् ॥ ३.३१४.६९ ॥

ひとり歩き回るものは何か?生まれた者が再び生まれるのは誰か?寒さの薬は何か、大いなる播種の地は何か?

3.314.70

सूर्य एको विचरते चन्द्रमा जायते पुनः ।
अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत् ॥ ३.३१४.७० ॥

太陽はひとり歩み、月は再び生まれる。火は寒さの薬であり、大地は大いなる播種の地である。

3.314.71

किंस्विदेकपदं धर्म्यं किंस्विदेकपदं यशः ।
किंस्विदेकपदं स्वर्ग्यं किंस्विदेकपदं सुखम् ॥ ३.३१४.७१ ॥

ダルマの一つの足場は何か?名声の一つの足場は何か?天界の一つの足場は何か?幸福の一つの足場は何か?

3.314.72

दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः ।
सत्यमेकपदं स्वर्ग्यं शीलमेकपदंसुखम् ॥ ३.३१४.७२ ॥

巧みさがダルマの一つの足場であり、施しが名声の一つの足場である。真実が天界の一つの足場であり、善い品行が幸福の一つの足場である。

3.314.73

किंस्विदात्मा मनुष्यस्य किंस्विद्दैवकृतः सखा ।
उपजीवनं किस्विदस्य किंस्विदस्य परायणम् ॥ ३.३१४.७३ ॥

人の自己とは何か。運命が与えた友とは誰か。その生計は何か。その最高の拠り所は何か。

3.314.74

पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा ।
उपजीवनं च पर्जन्यो दानमस्य परायणम् ॥ ३.३१४.७४ ॥

息子は人の自己であり、妻は運命が与えた友である。雨雲こそ彼の生計であり、布施こそ彼の最高の拠り所である。

3.314.75

धन्यानामुत्तमं किंस्विद्धनानां स्यात्किमुत्तमम् ।
लाभानामुत्तमं किंस्यात्सुखानां स्यात्किमुत्तमं ॥ ३.३१४.७५ ॥

幸福な者のうち最も優れた者は誰か。富のうち最も優れたものは何か。得るもののうち最も優れたものは何か。喜びのうち最も優れたものは何か。

3.314.76

धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् ।
लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा ॥ ३.३१४.७६ ॥

幸福な者の中で最も優れているのは技量であり、富の中で最も優れているのは学識である。得るものの中で最高の善は健康であり、喜びの中で最も優れているのは満足である。

3.314.77

किंस्विद्धर्मपरं लोके कश्च धर्मः सदाफलः ।
किं नियम्य न शोचन्ति कैश् सन्धिर्न जीर्यते ॥ ३.३१४.७७ ॥

世界で最も至高の法は何か。いつも果実をもたらす法は何か。何を制御すれば人は嘆かないのか。誰との誓約は決して朽ちないのか。

3.314.78

आनृशंस्यं परं धर्मो त्रेताधर्मः सदाफलः ।
मनो यम्य न शोचन्ति सन्धिः सद्भिर्न जीर्यते ॥ ३.३१४.७८ ॥

不残酷(アーニルシャンシヤ)こそ至高の法であり、三ヴェーダの法は常に果実をもたらす。心を制御すれば人は嘆かず、善き人々の誓約は決して朽ちない。

3.314.79

किं नु हित्वा प्रियो भवति किंनु हित्वा न शोचति ।
किंनु हित्वाऽर्थवान्भवति किंनु हित्वा सुखी भवेत् ॥ ३.३१४.७९ ॥

何を捨てれば人は愛されるのか。何を捨てれば嘆かないのか。何を捨てれば富を得るのか。何を捨てれば幸福になれるのか。

3.314.80

मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति ।
कामं हित्वाऽर्थवान्भवति लोभं हित्वा सुखी भवेत् ॥ ३.३१४.८० ॥

慢心を捨てれば人は愛される。怒りを捨てれば嘆かない。欲望を捨てれば富を得る。貪欲を捨てれば幸福になれる。

3.314.81

किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके ।
किमर्थं चैव भृत्येषु किमर्थं चैव राजसु ॥ ३.३१४.८१ ॥

バラモンに布施するのは何のためか。俳優や舞踊家に与えるのは何のためか。召使いや王に与えるのは何のためか。

3.314.82

धर्मार्थं ब्राह्मणे दानं यशोर्थं नटनर्तके ।
भृत्येषु सङ्ग्रहार्थं च भयार्थं चैव राजसु ॥ ३.३१४.८२ ॥

法のためにバラモンへ布施し、名声のために俳優や舞踊家に与える。召使いを繋ぎ止めるために与え、王には恐れのために与える。

3.314.83

अज्ञानेनावृतो लोकस्तमसा न प्रकाशते ।
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥ ३.३१४.८३ ॥

無知に覆われた世界は暗闇の中で輝かない。貪欲のために人は友を捨て、執着のために天界に至らない。

3.314.84

अज्ञानेनावृतो लोकस्तमसा न प्रकाशते ।
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥ ३.३१४.८४ ॥

無知に覆われた世界は暗闇の中で輝かない。貪欲のために人は友を捨て、執着のために天界に至らない。

3.314.85

मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवत् ।
श्राद्धं मृतंकथं वा स्यात्कथं यज्ञा मृतो भवेत् ॥ ३.३१४.८५ ॥

人はどのようにして死者となるのか。国はどのようにして死んだものとなるのか。シュラーッダはどのようにして死んだものとなるのか、あるいは供犠はどのようにして死んだものとなるのか。

3.314.86

मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् ।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥ ३.३१४.८६ ॥

貧しい人は死者である。王のいない国は死んだ国である。学識ある婆羅門のいないシュラーッダは死んだものである。ダクシナーのない供犠は死んだものである。

3.314.87

का दिक्किमुदकं पार्थ किमन्नं किं च वै विषम् ।
श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ॥ ३.३१४.८७ ॥

方角とは何か。水とは何か。パールタよ、食物とは何か、毒とは何か。シュラーッダの時を告げよ。それから飲み、取れ。

3.314.88

सन्तो दिग्जलमाकाशं गौरन्नं ब्राह्मणं विषम् ।
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥ ३.३१४.८८ ॥

善人は方角である。空は水である。牛は食物である。婆羅門は毒である。婆羅門こそシュラーッダの時である——ヤクシャよ、お前はこれをどう考えるか。

3.314.89

तपः किं लक्षणं प्रोक्तं को दमश्च प्रकीर्तितः ।
क्षमा च का परा प्रोक्ता का च ह्रीः परिकीर्तिता ॥ ३.३१४.८९ ॥

苦行の特徴は何と説かれたか。克己とは何と讃えられたか。忍耐の最上のものは何と説かれ、慚愧(ヒリー)は何と説かれたか。

3.314.90

तपः स्वधर्मवर्तित्वं मनसो दमनं दमः ।
क्षमा द्वन्द्वसहिष्णुत्वं ह्रीरकार्यनिवर्तनम् ॥ ३.३१४.९० ॥

苦行とは自らの法(ダルマ)に留まることであり、克己とは心を抑制することであり、忍耐とは対立する二つのものに耐えることであり、慚愧(ヒリー)とは不適切な行為から身を引くことである。

3.314.91

किं ज्ञानं प्रोच्यते राजन्कः शमश्च प्रकीर्तितः ।
दया च का परा प्रोक्ता किं चार्जवमुदाहृतम् ॥ ३.३१४.९१ ॥

王よ、知とは何と言われ、寂静(シャマ)とは何と説かれるのか。至高の慈悲とは何と説かれ、正直(アールジャヴァ)とは何と説かれるのか。

3.314.92

ज्ञानं तत्त्वार्थसम्बोधः शमश्चित्तप्रशान्तता ।
दया सर्वसुखैषित्वमार्जवं समचित्तता ॥ ३.३१४.९२ ॥

知とは真理の意味を正しく悟ることである。寂静とは心が安らかであることである。慈悲とはすべての者の幸福を願うことである。正直とは心が平等であることである。

3.314.93

कः शत्रुर्दुर्जयः पुंसां कश्च व्याधिरनन्तकः ।
कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः ॥ ३.३१४.९३ ॥

人々にとって打ち勝ちがたい敵は誰か。終わりなき病とは何か。善人はどのようであると見なされ、不善の人はどのようであると見なされるか。

3.314.94

क्रोधः सुदुर्जयः शत्रुर्लोभो व्याधिरनन्तकः ।
सर्वभूतहितः साधुरसाधुर्निर्दयः स्मृतः ॥ ३.३१४.९४ ॥

怒りは打ち勝ちがたい敵であり、貪欲は終わりなき病である。すべての生き物に利益をもたらす者は善人と見なされ、無慈悲な者は不善と見なされる。

3.314.95

को मोहः प्रोच्यते राजन्कश्च मानः प्रकीर्तितः ।
किमालस्यं च विज्ञेयं कश्च शोकः प्रकीर्तितः ॥ ३.३१४.९५ ॥

王よ、迷い(モーハ)とは何と言われ、慢心(マーナ)とは何と説かれるのか。怠惰とは何と知るべきか。悲しみ(ショーカ)とは何と説かれるのか。

3.314.96

मोहो हि धर्ममूढत्वं मानस्त्वात्माभिमानिता ।
धर्मनिष्क्रियताऽऽलस्यं शोकस्त्वज्ञानमुच्यते ॥ ३.३१४.९६ ॥

迷いとは、まことにダルマに対する混乱である。慢心とは、自己を高く見なすことである。怠惰とは、ダルマにおける無為である。そして悲しみは無知と言われる。

3.314.97

किं स्थैर्यमृषिभिः प्रोक्तं किं च धैर्यमुदाहृतम् ।
स्नानं च किं परं प्रोक्तं दानं च किमिहोच्यते ॥ ३.३१४.९७ ॥

聖仙たちは堅固さを何と説き、堅忍とは何と呼ばれるか。最上の沐浴とは何と説かれ、ここで布施とは何と言われるのか。

3.314.98

स्वधर्मे स्थिरता स्थैर्यं धैर्यमिन्द्रियनिग्रहः ।
स्नानं मनोमलत्यागो दानं वै भूतरक्षणम् ॥ ३.३१४.९८ ॥

自分の義務に確固たることが堅固さであり、感官を制することが堅忍である。心の垢を捨てることが沐浴であり、生きものを守ることこそ布施である。

3.314.99

कः पण्डितः पुमान्ज्ञेयो नास्तिकः कश्च उच्यते ।
को मूर्खः कश्च कामः स्यात्को मत्सर इति स्मृतः ॥ ३.३१४.९९ ॥

誰を賢者と知るべきか。誰を無神論者と呼ぶのか。愚者は誰か、欲望とは何か、嫉妬とは何と伝えられるか。

3.314.100

धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते ।
कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः ॥ ३.३१४.१०० ॥

法を知る者こそ賢者と知るべきである。無信者と愚者はそう呼ばれる。欲望は輪廻の因であり、心の苦悩こそ嫉妬と記憶される。

3.314.101

कोऽहंकार इति प्रोक्तः कश्च दम्भः प्रकीर्तितः ।
किं तद्दैवं परं प्रोक्तं किं तत्पैशुन्यमुच्यते ॥ ३.३१४.१०१ ॥

我慢とは何と説かれ、偽善とは何と宣言されるのか。至上の運命とは何と説かれ、中傷とは何と呼ばれるのか。

3.314.102

महाऽज्ञानमहंकारो दम्भो धर्मो ध्वजोच्छ्रयः ।
दैवं दानफलं प्रोक्तं पैशुन्यं परदूषणम् ॥ ३.३१४.१०२ ॥

大いなる無知こそ我慢であり、偽善とは法の旗を掲げることである。天命は布施の果報と説かれ、中傷とは他人を貶めることである。

3.314.103

धर्मश्चार्थश्च कामश्च परस्परविरोधिनः ।
एषां नित्यविरुद्धानां कथमेकत्र संगमः ॥ ३.३१४.१०३ ॥

法・利・欲は互いに対立する。永遠に相反するこれらが、どうして一つの所で合わさるのか。

3.314.104

यदा धर्मश्भार्या च परस्परवशानुगौ ।
तदा धर्मार्थकामानां त्रयाणामपि संगमः ॥ ३.३१४.१०४ ॥

法と妻とが互いに従い、互いの支配に服するとき、法・利・欲の三つも合わさる。

3.314.105

अक्षयो नरकः केन प्राप्यते भरतर्षभ ।
एतन्मे पृच्छतः प्रश्नं तच्छीघ्रं वक्तुमर्हसि ॥ ३.३१४.१०५ ॥

バラタの牡牛よ、不滅の地獄に至るのは誰によってか。私がこの問いを発したのだから、速やかに答えるべきだ。

3.314.106

ब्राह्मणं स्वयमाहूय याचमानमकिंचनम् ।
पश्चान्नास्तीति यो ब्रूयात्सोऽक्षयं नरकं व्रजेत् ॥ ३.३१४.१०६ ॥

自ら婆羅門を呼び寄せておきながら、乞い求める貧しい婆羅門に後で「何もない」と言う者は、不滅の地獄に赴く。

3.314.107

वेदेषु धर्मशास्त्रेषु मिथ्या यो वै द्विजातिषु ।
देवेषु पितृधर्मेषु सोऽक्षयं नरकं व्रजेत् ॥ ३.३१४.१०७ ॥

ヴェーダと法典について、再生族について、神々と祖霊への務めについて虚偽を語る者は、不滅の地獄に赴く。

3.314.108

विद्यमाने धने लोभाद्दानभोगविवर्जितः ।
पश्चान्नास्तीति यो ब्रूयात्सोऽक्षयं नरकं व्रजेत् ॥ ३.३१४.१०८ ॥

財があるのに、貪欲から施しも享受もせず、後で「何もない」と言う者は、不滅の地獄に赴く。

3.314.109

राजन्कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा ।
ब्राह्मण्यं केन भवति प्रब्रूह्येतत्सुनिश्चितम् ॥ ३.३१४.१०९ ॥

王よ、家系、行い、ヴェーダの読誦、あるいは学識によって、何によってバラモンであることが成るのか。確かにそれを語れ。

3.314.110

शृणु यक्ष कुलं तात न स्वाध्यायो न च श्रुतम् ।
कारणं हि द्विजत्वे च वृत्तमेव न संशयः ॥ ३.३१४.११० ॥

聞け、ヤクシャよ、愛しき者。家系でも、ヴェーダの読誦でも、学識でもない——再生者であることの原因はただ行いのみ、疑いはない。

3.314.111

वृत्तं यत्नेन संरक्ष्यं ब्राह्मणेन विशेषतः ।
अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः ॥ ३.३१४.१११ ॥

行いは努力をもって守られるべきである、とりわけバラモンは。行いの衰えない者は衰えない。行いによって堕ちた者は、すでに死んだ者である。

3.314.112

पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः ।
सर्वे व्यसनिनो मूर्खा यः क्रियावान्स पण्डितः ॥ ३.३१४.११२ ॥

唱誦する者、読む者、そして聖典を思惟する他の者たち——彼らがみな悪癖にふけり愚かであるなら、正しく行う者こそ賢者である。

3.314.113

चतुर्वेदोऽपि दुर्वृत्तः स शूद्रादतिरिच्यते ।
योऽग्निहोत्रपरो दान्तः स ब्राह्मण इति स्मृतः ॥ ३.३१४.११३ ॥

四ヴェーダに通じていても行いが悪ければ、シュードラより劣る。アグニホートラに専念し自制する者こそ、バラモンと伝えられる。

3.314.114

प्रियवचनवादी किं लभते ।
विमृशितकार्यकरः किं लभते।
बहुमित्रकरः किं लभते ।
धर्मे रतः किं लभते कथय ॥ ३.३१४.११४ ॥

優しい言葉を語る者は何を得るか。熟慮して行う者は何を得るか。多くの友を作る者は何を得るか。ダルマに喜ぶ者は何を得るか。述べよ。

3.314.115

प्रियवचनवादी प्रियो भवति ।
विमृशितकार्यकरोऽधिकं जयति।
बहुमित्रकरः सुखं वसते ।
यश्च धर्मरतः स गतिं लभते ॥ ३.३१४.११५ ॥

優しい言葉を語る者は愛される。熟慮して行う者は大いに勝利する。多くの友を作る者は幸福に暮らす。そしてダルマに喜びを見いだす者は、目的地に至る。

3.314.116

को मोदते किमाश्चर्यं कः पन्थाः का च वार्तिका ।
वद मे चतुरः प्रश्नान्मृता जीवन्तु बान्धवाः ॥ ३.३१४.११६ ॥

誰が喜ぶのか。何が驚きなのか。道はどれか。そして知らせは何か。私の賢明な問いに答えよ、死んだ親族が生き返るように。

3.314.117

पञ्चमेऽहनि षष्ठे वा शाकं पचति स्वे गृहे ।
अनृणी चाप्रवासी च स वारिचर मोदते ॥ ३.३१४.११७ ॥

五日目か六日目に自分の家で青菜を煮る者、借金がなく、他国に住まない者——ああ水に住む者よ、その者こそ喜ぶのだ。

3.314.118

अहन्यहनि भूतानि गच्छन्तीह यमालयम् ।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥ ३.३१४.११८ ॥

日々、ここの生き物たちはヤマの住処へ向かう。それなのに残った者たちは永続を望む。これより大きな驚きが何かあろうか。

3.314.120

तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना ।
नैको मुनिर्यस्य मतं प्रमाणम्।
धर्मस्य तत्त्वं निहितं गुहायां ।
महाजनो येन गतः स पन्था
पृथ्वी विभाण्डं गगनं पिघानं ।
सूर्याग्निना रात्रिदिवेन्धनेन।
मासर्तुदर्वीपरिघट्टनेन ।
भूतानि कालः पचतीति वार्ता ॥ ३.३१४.१२० ॥

論理には確かな根拠がなく、聖典は異なり、どの一人の聖者の意見も権威とはならない。ダルマの真髄は洞窟に隠されている。偉大な人々が歩んだ道こそが道である。大地は器、天は蓋、太陽の火、昼夜が薪、月と季節が杓子の攪拌——時間が万物を煮ている。これが知らせである。

3.314.121

व्याख्याता मे त्वया प्रश्ना यथातत्वं परंतप ।
पुरुषं त्विदानीं व्याख्याहि यश्च सर्वधनी नरः ॥ ३.३१४.१२१ ॥

敵を焼き尽くす者よ、あなたは私の問いを真実のままに説明した。今、プルシャと、すべての富を持つ人について説明せよ。

3.314.122

दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा ।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ ३.३१४.१२२ ॥

功徳ある行いによって名声が天と地に届く者は、その名声が続くかぎり、プルシャと呼ばれる。

3.314.123

तुल्ये प्रियाप्रिये यस् सुखदुःखे तथैव च ।
अतीतानागते चोभे स वै पुरुष उच्येत ॥ ३.३१४.१२३ ॥

好ましいものと好ましくないもの、楽と苦に等しく、過去と未来の両方についても同じである者こそ、まことにプルシャと呼ばれる。

3.314.124

समत्वं यस्य सर्वेषु निस्पृहः शान्तमानसः ।
सुप्रसन्नः सदा योगी स वै सर्वधनी नरः ॥ ३.३१४.१२४ ॥

すべてに対して平等で、欲望を離れ、心が静まり、常に深く安らかなヨーギー—そのような者こそ、まことにすべての富を持つ人である。

3.314.125

व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः ।
तस्मात्त्वमेकं भ्रातृणां यमिच्छसि स जीवतु ॥ ३.३१४.१२५ ॥

王よ、プルシャと、すべての富を持つ人は説明された。ゆえに、兄弟のうち、あなたが望む一人を生き返らせよう。

3.314.126

श्यामो य एष रक्ताक्षो बृहत्साल इवोत्थितः ।
व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु ॥ ३.३१४.१२६ ॥

この黒い肌、赤い目の、大きな沙羅樹のように立つ、広い胸と大きな腕を持つナクラ——ヤクシャよ、彼を生き返らせよ。

3.314.127

प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् ।
त्वं कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ॥ ३.३१४.१२७ ॥

夜叉は言った。このビーマセーナはあなたにとって愛しく、アルジュナはあなたがたの拠り所だ。王よ、なぜあなたは異母兄弟のナクラの命を望むのか。

3.314.128

यस् नागसहस्रेण दशसङ्ख्येन वै बलम् ।
तुल्यंतं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥ ३.३१४.१२८ ॥

夜叉は言った。千頭の象の十倍の力を持つビーマを捨てて、あなたはナクラの命を望むのか。

3.314.129

तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव ।
अथ केनानुभावेन सापत्नं जीवमिच्छसि ॥ ३.३१४.१२९ ॥

夜叉は言った。人々もこのビーマセーナはあなたにとって愛しいと言う。ではどんな力によって、異母兄弟のナクラの命を望むのか。

3.314.130

यस्य बाहुबलं सर्वे पाण्डवाः समुपासते ।
अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ॥ ३.३१४.१३० ॥

夜叉は言った。全てのパーンダヴァが腕力を頼みとするアルジュナを捨てて、あなたはナクラの命を望むのか。

3.314.131

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद्धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत् ॥ ३.३१४.१३१ ॥

ユディシュティラは言った。滅ぼされたダルマは滅ぼす;守られたダルマは守る。ゆえに私はダルマを捨てない。打ち倒されたダルマが我らを滅ぼしませんように。

3.314.132

आनृशंस्यं न परो धर्मः परमार्थाच्च मे मतम् ।
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥ ३.३१४.१३२ ॥

ユディシュティラは言った。私の考えでは、至高の目的(パラマールタ)より高いダルマはない。慈悲こそ最高のダルマである。ヤクシャよ、私は慈悲を行いたい。ナクラよ生きよ。

3.314.133

धर्मशीलः सदा राजा इति मां मानवा विदुः ।
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥ ३.३१४.१३३ ॥

「王は常に法を重んじる者だと、人々は私を知っている。私は自らの法から外れることはない。ヤクシャよ、ナクラを生かしたまえ。」

3.314.134

कुन्ती चैव तु माद्री च द्वे भार्ये तु पितुर्मम ।
उभे सपुत्रे स्यातां वै इति मे धीयते मतिः ॥ ३.३१४.१३४ ॥

「クンティーとマードリー、父の二人の妻は、ともに息子たちと共にあるべきだ、というのが私の考えです。」

3.314.135

यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः ।
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥ ३.३१४.१३५ ॥

「クンティーがそうであるように、マードリーもそうです。二人の間に私は区別を見ません。二人の母に等しくありたいのです。ヤクシャよ、ナクラを生かしたまえ。」

3.314.136

यस् तेऽर्थाच्च कामच्च आनृशंस्यं परं मतम् ।
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥ ३.३१४.१३६ ॥

「あなたの考えでは、慈悲は富や欲望より至高である。ゆえに、バラタの牡牛よ、あなたの兄弟たちは皆生きよ。」