摩诃婆罗多 · 章 3.32
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.32.1
नावमन्ये न गर्हे च धर्मं पार्थ कथंचन ।
ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम् ॥ ३.३२.१ ॥
般度之子啊,我绝不以任何方式轻慢或非议法。我又怎会轻慢主宰者、生主(Prajāpati)呢?
3.32.2
आर्ताऽहं प्रलपामीदमिति मां विद्धि भारत ।
भूयश्च विलपिष्यामि सुमनास्त्वं निबोध मे ॥ ३.३२.२ ॥
婆罗多之子啊,你要知道我因痛苦而如此哀叹。我还会继续哀叹;你要心平气和地听我说。
3.32.3
कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन ।
अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ॥ ३.३२.३ ॥
征服敌人的人啊,生于此世的人必须行动。不行动者才像不动的生物那样生存,其他人则不然。
3.32.4
आमातृस्तन्यपानाच्च यावच्छय्योपसर्पणम् ।
जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर ॥ ३.३२.४ ॥
坚战啊,从吮吸母乳直到在床上爬行,能动的生物都是通过行动获得生计的。
3.32.5
जङ्गमेषु विशेषेण मनुष्या भरतर्षभ ।
इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च ॥ ३.३२.५ ॥
婆罗多族中的雄牛啊,在能动的生物中,尤其是人类,希望通过行动获得生计,无论在今世还是来世。
3.32.6
उत्थानमभिजानन्ति सर्वभूतानि भारत ।
प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् ॥ ३.३२.६ ॥
婆罗多之子啊,一切众生都懂得努力;他们明显地享受自己行为的果报,世间为之作证。
3.32.7
पश्यन्तः स्वं समुत्थानमुपजीवन्ति जन्तरः ।
अपि धाता विधाता च यथाऽयमुदके बकः ॥ ३.३२.७ ॥
众生看见自己的努力而维持生计,犹如这只鹭鸶在水中(觅食)。创造者与安排者也是如此。
3.32.8
अकर्मणां वै भूतानां वृत्तिः स्वान्न हि काचन ।
तदेवाभिप्रपद्येत न विहन्यात्कदाचन ॥ ३.३२.८ ॥
不行动的众生毫无自己的生计。因此应当依从这种行动,且永不放弃。
3.32.9
स्वकर्म कुरु माहासीः कर्मणा भव दंशितः ।
कृत्यं हि योऽभिजानाति सहस्रे सोस्ति नास्ति वां ॥ ३.३२.९ ॥
履行你自己的本分,不要舍弃;以行动披甲而立。千人之中,知其职责者甚少。
3.32.10
तस्य चापि भवेत्कार्वं विवृद्धौ रक्षणे तथा ।
भक्ष्यमाणो द्यनावाषः क्षीयेत हिमवानपि ॥ ३.३२.१० ॥
他的职责也应当是增进与保护(百姓)。若不加照料而被消耗,连喜马拉雅也会耗尽。
3.32.11
उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि ।
तथा ह्येता न वर्धेरन्कर्म चेदफलं भवेत् ॥ ३.३२.११ ॥
若众生皆不行动,他们将灭亡。若行动无果,他们也不会兴盛。
3.32.12
दृष्ट्वाऽपिच फलं कर्म पश्यामः कुर्वतो जनान् ।
नान्यथा ह्यपि जानन्ति वृत्तिं लोकाः कथंचन ॥ ३.३२.१२ ॥
我们亲眼看见行动者所得的果报。人们绝不会以别的方式知道自己的生计。
3.32.13
यश्च दिष्टपरो लोके यश्चापि हठवादकः ।
उभावपि शठावेतौ कर्मबुद्धिः प्रशस्यते ॥ ३.३२.१३ ॥
世间既一味依赖命运者,又固执强辩者,二者皆是欺诈;唯有专注于行动的智慧才受称赞。
3.32.14
यो हि दिष्टमुपासीत निर्विचेष्टः सुखं स्वपन् ।
अवसीदेत्सुदुर्बुद्धिरामो घट इवोदके ॥ ३.३२.१४ ॥
若有人依赖命运而毫不努力,安然高卧,此人极为愚昧,如生陶罐沉入水中。
3.32.15
तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत् ।
आसीत न चिरं जीवेदनाथ इव दुर्बलः ॥ ३.३२.१५ ॥
同样,心意固执、有能力行动却不行动而端坐者,不能长久活着,如同无人庇护的弱者。
3.32.16
अकस्मादिह यः कश्चिदर्थं प्राप्नोति पूरुषः ।
तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ॥ ३.३२.१६ ॥
在此,若有人忽然得到财富,人们认为是他以固执努力得来;然而那其实不是任何人的努力。
3.32.17
वश्चापि कश्रित्पुरुषो दिष्टं नाम भजत्युत ।
दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् ॥ ३.३२.१७ ॥
又有人以“命运”之名获得成果;那是由天意与定数所致。阿周那,已确定那就是天命。
3.32.18
यत्तावस्कर्मणा किंचित्फलमाप्नोति पूरुषः ।
प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति श्रुतम् ॥ ३.३२.१८ ॥
人以自身行为所获得的任何果实,皆可亲眼看见;这便被称为人的努力(丈夫之力)。
3.32.19
स्वभावतः प्रवृत्तो यः प्राप्नोत्यर्थं न कारणात् ।
तत्स्वभावात्प्रकं विद्धि फलं पुरुषसत्तम ॥ ३.३२.१९ ॥
人若依其自性而行,所得之果并非由于某种原因;应知此果显现于自性,哦,人中之最。
3.32.20
एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा ।
यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणाम् ॥ ३.३२.२० ॥
如此,人以力、以命、以性、以业所得之果,乃是前世之业所致。
3.32.21
धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः ।
विदधाति विभज्येह फलं पूर्वकतं नृणाम् ॥ ३.३२.२१ ॥
造物主自在者,亦以自身之业,依种种因缘,于此分配,安排世人前世所作之果。
3.32.22
यद्धि यः पुरुषः किंचित्कुरुते वै शुभाशुभम् ।
तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम् ॥ ३.३२.२२ ॥
人所作善恶,皆应知为造物主所定,乃前业之果显现。
3.32.23
कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि ।
स यथा प्रेरयत्येनं तथाऽयं कुरुतेऽवशः ॥ ३.३२.२३ ॥
此身乃造物主于每一业中之因;彼如何驱使它,它便无能为力地如此行事。
3.32.24
तेषुतेषु हि कृत्येषु विनियोक्ता महेश्वरः ।
सर्वभूतानि कौन्तेय कारयत्यवशान्यपि ॥ ३.३२.२४ ॥
孔雀之子啊,大自在神于种种业事中派遣众生;虽众生无能为力,他仍使一切有情行事。
3.32.25
मनसाऽर्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा ।
बुद्धिपूर्वं स्वयं वीर पुरुषस्तत्र कारणम् ॥ ३.३२.२५ ॥
人以心意先确定目标,随后借行动而得之。英雄啊,在此,人自己以有意的智慧行动,乃是其因。
3.32.26
संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ ।
अगारनगराणां हि सिद्धिः पुरुषहैतुकी ॥ ३.३२.२६ ॥
人中之牛啊,行为甚至无法计算。房屋与城市的成就确实由人所致。
3.32.27
तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः ।
एवं धीरो विजानीयादुपायं चास्य सिद्धये ॥ ३.३२.२७ ॥
油在芝麻中,乳在牛中,火在木中;如此,坚定的人应知其成就之方法。
3.32.28
ततः प्रवर्तते पश्चात्कारणेष्वस्व सिद्धये ।
तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः ॥ ३.३२.२८ ॥
随后,人便致力于促成其成就的诸因;此世众生正依靠行为的那种成就而生存。
3.32.29
कुशलेन कृतं कर्म कर्त्रा साधु स्वनुष्ठितम् ।
इदं त्वकुशलेनेति विशेषादुपलभ्यते ॥ ३.३२.२९ ॥
由善巧者所作之业,作者善加完成;此由不善巧者所为——如此特别可以察知。
3.32.30
इष्टापूर्त्तफलं न स्यान्न शिष्यो न गुरुर्भवेत् ।
पुरुषः कर्मसाध्येषु स्वाच्चेदयमकारणम् ॥ ३.३२.३० ॥
若在行为所成之事中,人自身无因,则祭祀与功德之果不存在,无弟子,亦无师父。
3.32.31
कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते ।
असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह ॥ ३.३२.३१ ॥
正因为人是行动者,事业成功时他受到称赞,失败时他受到指责。那么在此,行动如何会毁灭呢?
3.32.32
सर्वमेव हठेनैके दैवेनैके वदन्त्युत ।
पुंसः प्रयत्नजं केचिद्दैवमेतद्विशिष्यते ॥ ३.३२.३२ ॥
有人说一切都靠努力,有人说一切都靠天命。也有人认为存在由人的努力所生之物,而这胜过天命。
3.32.33
न चैवैतावता कार्यं मन्यन्त इति चापरे ।
अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः ॥ ३.३२.३३ ॥
另有人认为,事情不能仅凭这些完成。一切都是不可见的;有天命,也有人的努力。
3.32.34
दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य संततिः ।
किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मतः ॥ ३.३२.३४ ॥
事实上,结果的延续既可见于努力,也可见于天命:有的来自天命,有的来自努力,有的则来自自己的行为。
3.32.35
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम् ।
कुशलाः प्रतिजानन्ति ये वै तत्त्वविदोजनाः ॥ ३.३२.३५ ॥
人得到果报;此处并没有第四种原因。那些精通之人、真正知晓真理的人,都如此断言。
3.32.36
तथैव धाता भूतानामिष्टानिष्टफलप्रदः ।
यदि न स्वानन भूतानां कृपणो नाम कश्चन ॥ ३.३२.३६ ॥
同样,造物主赋予众生所欲与不所欲的果报。若众生没有自己的面目,即没有自身的力量,那么就没有任何人会是可怜的。
3.32.37
यंयमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः ।
तत्तत्सफलमेव स्याद्यदि न स्यात्पुरा कृतम् ॥ ३.३२.३७ ॥
人所欲求何种目的而行事,若非前世所作,此行必定有果。
3.32.38
त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः ।
तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते ॥ ३.३२.३८ ॥
凡人不见三门的义成就,亦不见非义的成就;世间如何,他们亦如何。
3.32.39
कर्तव्यमेव कर्मेति मनोरेष विनिश्चयः ।
एकान्तेन ह्यनीहोऽयं वर्ततेऽस्मासु संप्रति ॥ ३.३२.३९ ॥
行动本是应当的,这是摩奴的定论;然而此刻,我们之中却完全无所作为。
3.32.40
कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर ।
एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित् ॥ ३.३२.४० ॥
युधिष्ठिर啊,此世行事者大多确有所得;而懒惰者则从不能获得必定的果报成就。
3.32.41
असंभवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते ।
कृतेकर्मणि राजेन्द्र तथाऽनृण्यमवाप्नुते ॥ ३.३२.४१ ॥
然若不可得,则其因可见于赎罪;帝王之主啊,事已作,则如是得免于债。
3.32.42
अलक्ष्मीराविशत्येनं शयानमलसं नरम् ।
निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते ॥ ३.३२.४२ ॥
懒惰而卧的人,不祥(阿拉克什米)便会入其身;而精明的人,无疑获得果报,便得享兴盛。
3.32.43
अनर्थं संशयावस्थं गृणन्त्यामुक्तसशंयाः ।
धीरा नराः कर्मरता न तु निःसंशयाः क्वचित् ॥ ३.३२.४३ ॥
那些谈论处于疑惑状态中的灾祸的人,是在谈论疑惑;而专注于行动的坚定之人,从来不会没有疑惑。
3.32.44
एकान्ते नह्यनर्थोऽयं वर्ततेऽस्मासु सांप्रतम् ।
स तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते ॥ ३.३२.४४ ॥
这灾祸不在独处之时,现在已降临在我们身上。但若你安住于行动之中,它就不会是毫无疑问的。
3.32.45
अथवाऽसिद्धिरेव स्यान्महिमा तु तदेव ते ।
वृकोदरस्य बीभत्सोर्भात्रोश्च यमयोरपि ॥ ३.३२.४५ ॥
或许就是失败;但这失败本身正是你的荣耀,也是狼腹(Vṛkodara)、勇猛者(Bībhatsu)、两位兄弟以及双生子的荣耀。
3.32.46
अन्येषां कर्म सफलमस्माकमपि वा पुनः ।
विप्रकर्षेण बुद्ध्येत कृतकर्मा यथा फलम् ॥ ३.३२.४६ ॥
别人的行动会有结果,或者我们的也会;只是要经过很长的时间,就像行动者才知道其果实。
3.32.47
पृथिवीं लाङ्गलेनेह कृष्ट्वा बीजं वपत्युत ।
आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम् ॥ ३.३२.४७ ॥
这里农夫用犁耕地播种;然后他静静地等待,那里的原因是雨云。
3.32.48
वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः ।
यदन्यः पुरुषः कुर्यात्तत्कृतं सफलं मया ॥ ३.३२.४८ ॥
若雨水不眷顾这位农夫,那么农夫在那里的行动便无结果;而别人所做的事,则如同我所做一般有结果。
3.32.49
तच्चेदं फलमस्माकमपराधो न मे क्वचित् ।
इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्रगर्हयेत् ॥ ३.३२.४९ ॥
此果属于我们,我从未有过过错。智者如此思量之后,不应在此事上自责。
3.32.50
कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत ।
निर्वेदो नात्र गन्तव्यो द्वावन्तौ यस्य कर्मणः ॥ ३.३२.५० ॥
婆罗多之子啊,即便我行动,所求之事也未必成就;但不应因此陷入沮丧,因为任何行动都有两种结果。
3.32.51
सिद्धिर्वाऽप्यथवाऽसिद्धिरप्रवृत्तिरतोऽन्यथा ।
बहूनां समवाये हि भावानां कर्म सिध्यति ॥ ३.३२.५१ ॥
成功或失败,或根本不行动——除此之外别无他物;因为只有众多因缘聚合,行为才能成就。
3.32.52
गुणाभावे फलं न्यूनं भवत्यफलमेव च ।
अनारम्भे हि न फलं न गुणो दृश्यते क्वचित् ॥ ३.३२.५२ ॥
若无功德,果报便会减少,甚至毫无果报;若不开始,则无论何处都见不到果报与功德。
3.32.53
देशकालावुपायांश्च मङ्गलं स्वस्तिसिद्धये ।
युनक्ति मेधया धीरो यथायोगं यथाबलम् ॥ ३.३२.५३ ॥
智者以其智慧,依据适宜与自己的力量,将地点、时间、方法与吉祥之事相结合,以成就安康。
3.32.54
अप्युपायेन तत्कार्यमुपदेष्टा पराक्रमः ।
भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः ॥ ३.३२.५४ ॥
即便以权宜之计,那件事也能成就;勇气便是引导者。在行动之道中,大多数情形下一切皆是勇气。
3.32.55
यत्रधीमानवेक्षेत श्रेयासं बहुभिर्गुणैः ।
साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत् ॥ ३.३२.५५ ॥
智者若见到在众多德性上胜过自己的人,应先以和解之道求取所欲之利,然后再为他而行动。
3.32.56
व्यसनं नाभिकाङ्क्षेत्त विनाशं वा युधिष्ठिर ।
अपि सिन्धोर्गिरेर्वाऽपि किं पुनर्मर्त्यधर्मिणः ॥ ३.३२.५६ ॥
俟瑜提希腊啊,不应希望灾难或毁灭;连海洋与山岳尚且会消亡,何况是会死的凡人呢?
3.32.57
उत्थानयुक्तः सततं परेषामन्तरैषणे ।
आनृण्यमाप्नोति नरः परस्यात्मन एव च ॥ ३.३२.५७ ॥
常以努力为务、善于寻找他人破绽的人,便能摆脱对他人及对自己的亏欠。
3.32.58
न त्वेवात्माऽवमन्तव्यः पुरुषेण कदाचन ।
न ह्यात्मपरिभूतस् भूतिर्भवति शोभना ॥ ३.३२.५८ ॥
然而人绝不可轻视自己,因为自我贬抑之人不会得到吉祥的兴盛。
3.32.59
एवं संस्थितिका सिद्धिरियं लोकस्य भारत ।
चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागशः ॥ ३.३२.५९ ॥
婆罗多之后裔啊,世间成功的常规便是如此;成就之道据说依时机与境况的不同而变化多端。
3.32.60
ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम् ।
सर्वं चार्थमिमं प्राह पित्रे मे भरतर्षभ ॥ ३.३२.६० ॥
婆罗多族的雄牛啊,往昔我父亲曾让一位学识渊博的婆罗门住在他身边,那位婆罗门把这整件事都告诉了我的父亲。
3.32.61
नीतिं बृहस्पतिप्रोक्तां भ्रातृन्मेऽग्राहयन्पुरा ।
तेषां सकाशादश्रौषमहमेतां तदा गृहे ॥ ३.३२.६१ ॥
我的兄长们往昔让我学习了布利哈斯帕蒂所讲的治国之道;我当时在家中从他们那里听到了这些。
3.32.62
स मां राजन्कर्मवतीमागतामाह सान्त्वयन् ।
शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर ॥ ३.३२.६२ ॥
大王啊,我忙于事务而来时,他安慰着对我说;尤提西提拉啊,我当时正坐在父亲的膝上侍奉他。