Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.1.1

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
कथं विराटनगरे मम पूर्वपितामहाः ।
अज्ञातवासमुषिता दुर्योधनभयार्दिताः ॥ ४.१.१ ॥

向那罗延、那罗以及人中最优者那罗致敬,向女神萨罗室伐底和毗耶娑致敬之后,应当宣说胜利之颂。我的先祖们在毗罗吒城中,因惧怕难敌而备受折磨,如何度过了隐匿的流亡生活?

4.1.2

पतिव्रता महाभागा सततं सुखभागिनी ।
द्रौपदी सा कथं ब्रह्मन्नज्ञाता दुःखिताऽवसत् ॥ ४.१.२ ॥

德罗波蒂,忠于丈夫,极有福分,常享安乐,婆罗门啊,她隐匿不被人知,在忧愁中如何度过?

4.1.3

ते च ब्राह्मणमुख्याश्च सूतपौरोगवैः सह ।
अज्ञातवासमुषिताः कथं च परिचारकाः ॥ ४.१.३ ॥

那些婆罗门上首,与御者和厨师一道,在隐匿的流亡中生活,那些侍从又如何?

4.1.4

यथा विराटनगरे तव पूर्वपितामहाः ।
अज्ञातवासमुषितास्तावद्वक्ष्यामि तच्छृणु ॥ ४.१.४ ॥

你的先祖们在毗罗吒城中如何度过隐匿的流亡生活,我现在就讲给你听,你听着。

4.1.5

तथा स तान्वराँल्लब्ध्वा धर्मराजो युधिष्ठिरः ।
गत्वाऽऽश्रमं ब्राह्मणेभ्य आचख्यौ वृत्तमात्मनः ॥ ४.१.५ ॥

如此获得了那些恩赐之后,法王坚战前往修行处,把自己的经历讲给婆罗门们听。

4.1.6

कथयित्वा च तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः ।
अरणीसहितं भाण्डं ब्राह्मणाय न्यवेदयत् ॥ ४.१.६ ॥

把这一切都讲给婆罗门们听之后,坚战将盛器连同钻火木一并献给了一位婆罗门。

4.1.7

ततो युधिष्ठिरो राजा कुन्तीपुत्रो दृढव्रतः ।
समाहूयानुजान्सर्वानिति होवाच भारत ॥ ४.१.७ ॥

于是坚守誓言的贡提之子国王坚战召集所有弟弟,说道:婆罗多啊。

4.1.8

द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम् ।
छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः ॥ ४.१.८ ॥

这十二年来,我们被驱逐出王国;我们的王国被以欺骗夺走,我们屡次被弄得一贫如洗。

4.1.9

उषिताश्च वने वासं यथा द्वादश वत्सरान् ।
अज्ञातचर्यां वत्स्यामश्छन्ना वर्षं त्रयोदशम् ॥ ४.१.९ ॥

正如我们在森林中居住了十二年,第十三年我们将隐藏身份,不为人知地生活。

4.1.10

धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः ।
अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् ॥ ४.१.१० ॥

依照法义获得允许的般度五子,诚实勇武,将在第十三年隐匿身份,不为人知地生活。

4.1.11

उपोपविश्य विद्वांसः स्नातकाः संशितव्रताः ।
ये तत्र ब्राह्मणा आसन्वनवाससहायिनः ।
ये च भक्ता वसन्ति स्म वनवासे तपस्विनः ॥ ४.१.११ ॥

那些有学问、已完成学业、持守严格誓愿的婆罗门,那些在林居流亡中陪伴他们的人,以及居住在林中的虔诚苦行者,都围坐在近旁。

4.1.12

तानब्रुवन्महात्मानो हृष्टाः प्राञ्जलयः स्थिताः । ॥ ४.१.१२ ॥

那些心胸宽广的人欢喜地合掌站立,向他们说道。

4.1.13

विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् ।
छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः ॥ ४.१.१३ ॥

你们都知道,持国的儿子们以诡计夺走了我们的王国,并多次使我们陷入贫困。

4.1.14

उषिताश्च वने वासं यथा द्वादशवत्सरान् ।
भवद्भिरेव सहिता वन्याहारा द्विजोत्तमाः ॥ ४.१.१४ ॥

诸位最好的再生者,我们与你们一同在森林中居住了十二年,靠林中食物为生。

4.1.15

अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् ।
तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ ॥ ४.१.१५ ॥

未知生活的时期与第十三年尚余;我们也将隐秘地生活,你们应当允许我们这样做。

4.1.16

सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः ।
जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः ॥ ४.१.१६ ॥

心怀恶念的苏约陀那与迦尔纳,连同萨乌跋罗(沙恭尼),是我们的极大仇敌,他们若知晓,必会加害于我们。

4.1.17

युक्तचाराश्च यत्ताश्च दाये स्वस्य जनस्य च ।
दुरात्मनां हि कस्तेषां विश्वासं गन्तुमर्हति ॥ ४.१.१७ ॥

那些在自己亲族与百姓中布置密探、时刻戒备的恶人,谁能赢得他们的信任?

4.1.18

अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह ।
समस्तेषु च राष्ट्रेषु स्वराज्यस्था भवेम हि ॥ ४.१.१८ ॥

或许这将再次发生:我们与婆罗门一道,在所有国度中,重新在自己的王国中安立。

4.1.19

इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा ।
संमूर्च्छितोऽभवद्राजा सास्रकण्ठो युधिष्ठिरः ॥ ४.१.१९ ॥

说完这些,清净的法之子国王坚战因悲痛和忧伤而昏厥过去,喉咙被泪水哽咽。

4.1.20

तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह ॥ ४.१.२० ॥

于是所有婆罗门与兄弟们一同安慰他。

4.1.21

प्रबुध्य दुःखमोहार्तो धौम्यं धर्मभृतांवरम् ।
प्रावैक्षत तदा राजा साश्रुकण्ठो युधिष्ठिरः ॥ ४.१.२१ ॥

从悲痛与迷惘中醒来,国王坚战哽咽着,望向奉持法之中最为殊胜的持国仙人(Dhaumya)。

4.1.22

अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा ।
आश्वासयंस्तं स नृपं भ्रातॄंश्च ब्राह्मणैः सह ॥ ४.१.२२ ॥

于是仙人(Dhaumya)对国王说出意义深远的话语,与婆罗门一同安慰国王与诸兄弟。

4.1.23

राजन्विद्वान्भवान्दान्तः सत्यसन्धो जितेन्द्रियः ।
नैवंविधाः प्रमुह्यन्ति धीराः कस्यांचिदापदि ॥ ४.१.२३ ॥

大王啊!您博学、自制、守信、制伏诸根;这样坚定的人在任何灾难中都不会迷惑。

4.1.24

देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुभिस्तदा ।
तत्रतत्र सपत्नानां निग्रहार्थं महात्मभिः ॥ ४.१.२४ ॥

即使诸神也遭遇过灾难,那时也有许多隐伏的灾祸;为了制服敌人,伟大的灵魂们处处忍受了这些。

4.1.25

दितिपुत्रैर्हृते राज्ये देवराजः सुदुःखितः ।
ब्रह्माणं तोषयिष्यंश्च ब्रह्मरूपं विधाय च ॥ ४.१.२५ ॥

当提提之子夺走王国时,众神之王因陀罗极为悲痛。为了取悦梵天,他化作婆罗门的形象。

4.1.26

इन्द्रेण निषधं प्राप्य गिरिप्रस्थाह्वये पुरे ।
छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे ॥ ४.१.२६ ॥

因陀罗来到尼沙陀国,在名为吉里普拉斯塔的城中隐居,并在那里完成了压制敌人力量的事业。

4.1.27

प्रसादाद्ब्रह्मणो राजन्दितेः पुत्रान्महाबलान् ।
निर्जित्य तरसा शत्रून्पुनर्लोकाञ्जुगोप च ॥ ४.१.२७ ॥

大王啊,因梵天的恩典,他迅速战胜了提提的强大诸子,击败敌人,再次守护了诸世界。

4.1.28

विष्णुनाऽश्मगिरिं प्राप्य तदा दित्यां निवत्स्यता ।
गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् ॥ ४.१.२८ ॥

那时,毗湿奴来到阿什玛吉利,为了杀灭阿修罗,他在提提的胎中未被察觉地居住了很久。

4.1.29

प्रोष्य वामनरूपेण च्छन्नेन ब्रह्मचारिणा ।
बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् ॥ ४.१.२९ ॥

他化作侏儒之形,以隐秘的梵行者身份居住,你已听说他以勇猛的业绩夺取了钵利的王国。

4.1.30

और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा ।
यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया ॥ ४.१.३० ॥

亲爱的孩子,当婆罗门仙人阿尔瓦藏身于大腿之中时,他在世间所做的一切,你都已听闻。

4.1.31

प्रच्छन्नेनापि सर्वत्र हरिणा वृत्रनिग्रहे ।
वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् ॥ ४.१.३१ ॥

在杀死弗栗多时,哈里隐匿于各处,进入帝释的金刚杵中所做之事,你也已听闻。

4.1.32

हुताशनेन यच्चापः प्रविश्य च्छन्नमूषितम् ।
विबुधानां हि यत्कर्म कृतं तच्चापि ते श्रुतम् ॥ ४.१.३२ ॥

火神入水隐匿所做之事,以及诸神所成之业,你也已听闻。

4.1.33

यथा विवस्वता तात छन्नेनोत्तमतेजसा ।
निर्दग्धाः शत्रवः सर्वे वसता गवि वर्षशः ॥ ४.१.३३ ॥

犹如以至上光辉的毗婆娑(太阳),隐匿于牛群之中多年,焚尽了所有敌人,我的孩子。

4.1.34

विष्णुना वसता चात्र गृहे दशरथस्य वै ।
दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा ॥ ४.१.३४ ॥

此处亦有:毗湿奴居于十车王之家,以可怖之业隐匿于战中杀死了十首(罗波那)。

4.1.35

एवमेते महात्मानः प्रच्छन्नास्तत्रतत्र हि ।
अजयञ्छात्रवान्मुख्यांस्तथा त्वमपि जेष्यसि ॥ ४.१.३५ ॥

如此,这些大德隐匿于各处,战胜了主要的敌人;你也同样会获胜。

4.1.36

इति धौम्येन धर्मज्ञो वाक्यैः स परिहर्षितः ।
शान्तबुद्धिः पुनर्भूत्वा व्यष्टम्भत युधिष्ठिरः ॥ ४.१.३६ ॥

法智者坚战因仗摩之言而大为欣喜,心境平静,重新坚定起来。

4.1.37

अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः ।
राजानं बलिनां श्रेष्ठो गिरा संपरिहर्षयन् ॥ ४.१.३७ ॥

于是大臂、力大无穷的诸强者之首婆罗多维摩西纳以言语使国王大为欢喜,说道。

4.1.38

अवेक्षय महाराज तव गाण्डीवधन्वना ।
धर्मार्थपरया बुद्ध्या न किंचित्साहसं कृतम् ॥ ४.१.३८ ॥

大王请看,您以专注于法与利的智慧来看,持甘提弓者未曾做过任何轻率之事。

4.1.39

सहदेवो मया नित्यं नकुलश्च निवारितौ ।
शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ ॥ ४.१.३९ ॥

我一向约束着萨哈德瓦与那库拉,尽管这两位诛灭敌人、威力可怖的勇士有能力消灭他们。

4.1.40

न वयं वर्त्म हास्यामो यस्मिन्योक्ष्यति नो भवान् ।
तद्विधत्तां भवान्सर्वं क्षिप्रं जेष्यामहे परान् ॥ ४.१.४० ॥

我们不会放弃您所引导我们走的道路。请您安排一切,我们将很快战胜敌人。

4.1.41

इत्युक्तो भीमसेनेन धर्मराजो युधिष्ठिरः ।
सुखोपविष्टो विद्वद्भिस्तापसैः संशितव्रतैः ॥ ४.१.४१ ॥

婆罗多维摩西纳如此说完,法王坚战安坐于博学之士和持守坚定誓愿的苦行者之间。

4.1.42

ये तद्भक्त्याऽभवंस्तस्मिन्वनवासे तपस्विनः ।
तानब्रवीन्महाप्राज्ञः शिष्टान्राजा कृताञ्जलिः ।
अभ्यनुज्ञापयिष्यन्वै तस्मिन्वासे धृतव्रतः ॥ ४.१.४२ ॥

对于那些因敬爱他而留在林中流放之地的苦行者,极具智慧的国王合掌对他们说道;他正准备向那住处辞行,持守誓愿坚定不移。

4.1.43

विदितं भवतां सर्वे र्धार्तराष्ट्रैर्यथा वयम् ।
संमन्त्राहृतराज्याश्च निस्स्वाश्च बहुशः कृताः ।
उषिताः स्मो वने कृच्छ्रं तथा वर्षाणि द्वादश ॥ ४.१.४३ ॥

你们都知道德利塔拉施特拉之子如何对待我们:我们的王国因一场诡计的商议而被夺走,我们多次被弄得一无所有。我们在森林中艰难地度过了十二年。

4.1.44

अज्ञातचर्यासमयं शेषं वर्षं त्रयोदशम् ।
तद्वत्स्यामः क्वचिच्छन्नास्तदनुज्ञातुमर्हथ ॥ ४.१.४४ ॥

剩下的第十三年,是隐姓埋名的时期。我们将如此在某处隐藏生活;请你们准许我们这样做。

4.1.45

इत्युक्ता धर्मराजेन ब्राह्मणाः परमाशिषः ।
प्रयुज्यापृच्छ्य भरतान्यथास्वं प्रययुर्गृहान् ॥ ४.१.४५ ॥

法王如此说罢,婆罗门们致以最高的祝福,向婆罗多诸人告辞,各自返回家中。

4.1.46

सर्वे वेदविदो मुख्या यतयो मुनयस्तदा ।
आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः ॥ ४.१.४६ ॥

于是,所有精通吠陀的长者、苦行者与仙人,依礼致以祝福后,怀着再次相见的心愿离去了。

4.1.47

ते तु भृत्याश्च दूताश्च शिल्पिनः परिचारकाः ।
अनुज्ञाप्य यथान्यायं पुनर्दर्शनकाङ्क्षिणः ॥ ४.१.४७ ॥

那些仆人、使者、工匠与侍从,也依礼告辞,怀着再次相见的心愿离去了。

4.1.48

सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः ।
उत्थाय प्रययुर्वीराः कृष्णामादाय भारत ॥ ४.१.४८ ॥

与达乌米亚同行,那些学者与五位般度之子也起身离去。婆罗多啊,英勇的般度诸子带着黑公主一同出发了。

4.1.49

क्रोशमात्रमतिक्रम्य तस्माद्वासान्निमित्ततः ।
श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः ॥ ४.१.४९ ॥

离开那住所一克罗沙之远,因某种缘故,次日,这些人中的虎豹准备隐居生活。

4.1.50

पृथक् शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः ।
सन्धिविग्रहतत्वज्ञा मन्त्राय समुपाविशन् ॥ ४.१.५० ॥

各自精通典籍,个个善于谋略,通晓和战之道,他们便坐下商议。