摩诃婆罗多 · 章 4.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.19.1
अकीर्तयत सुश्रोणी धर्मं शक्रं दिवाकरम् ।
मारुतं चाश्विनौ देवौ कुबेरं वरुणं यमम् ॥ ४.१९.१ ॥
这位纤腰美人颂扬了法神、因陀罗、太阳、风神、二位阿输054双神、俱毗罗、伐楼那和阎摩。
4.19.2
रुद्रमग्निं भगं विष्णुं स्कन्दं पूषणमेव च ।
सावित्रीसहितं चापि ब्रह्माणं पर्यकीर्तयत् ॥ ४.१९.२ ॥
她也完整地颂扬了楼陀罗、火神、薄伽、毗湿奴、室建陀、补善,以及与娑维德丽同在的梵天。
4.19.3
इत्येवं मृगशवाक्षी सुश्रोणी धर्मचारिणी ।
उपातिष्ठत सा सूर्यं मुहूर्तमबला तदा ॥ ४.१९.३ ॥
就这样,这位眼如麋鹿、纤腰美丽、行持法义的女子,在那时这软弱的女人,片刻地向太阳站立。
4.19.4
तदस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान् ।
अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् ॥ ४.१९.४ ॥
太阳知道了这位细腰女子的一切;随后为了保护她,他命令一个隐藏的守护者。
4.19.5
तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् ॥ ४.१९.५ ॥
那守护者在任何境况中都没有抛弃这位无可指责的女子。
4.19.6
प्रतस्थे सा सुकेशान्ता त्वरमाणा पुनःपुनः ।
विलम्बमाना विवशा कीचकस्य निवेशनम् ॥ ४.१९.६ ॥
这位秀发美丽的女子,一再急促又无奈地迟疑着,向迦旃迦的住所走去。
4.19.7
तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समागताम् ।
उत्पपातासनात्तूर्णं नावं लब्ध्वेव पारगः ॥ ४.१९.७ ॥
看见受惊如母鹿般走近的黑公主,迦expected迦(Kīcaka)迅速从座位上跳起,如同找到船只渡河的人一般。
4.19.8
श्लक्ष्णं चोवाच वाक्यं स कीचकः काममूर्च्छितः ।
स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम ॥ ४.१९.८ ॥
被欲望迷惑的迦expected迦(Kīcaka)以温柔的言语说道:"美发女子,欢迎你;我的夜晚已经美好地破晓了。"
4.19.9
स्वामिनी त्वमनुप्राप्ता चिरस्य भवनं शुभे ।
कुरुष्व च मयि प्रीतिं वशं चोपानयस्व माम् ॥ ४.१९.९ ॥
"吉祥的女子啊,你在很久以后终于作为女主人来到我的家;请对我表示爱意,让我归你所有。"
4.19.10
प्रतिगृह्णीष्व मे भोगांस्त्वदर्थमुपकल्पितान् ।
सर्वरत्नमयीं मालां कुण्डले च हिरण्मये ॥ ४.१९.१० ॥
"请接受为你而备好的享乐之物:用各种宝石制成的花环,以及金耳环。"
4.19.11
वासांसि चन्दनं माल्यं धूपशुद्धां च वारुणीम् ।
प्रतिगृह्णीष्व भद्रं ते विहर त्वं यथेच्छसि।
प्रीत्या मे कुरु मद्माक्षि प्रसादं प्रियदर्शने ॥ ४.१९.११ ॥
"请接受衣裳、檀香、花环,以及用熏香净化过的美酒;愿你吉祥。随你心意尽情游乐吧。醉眼的美人啊,可爱的女子,请以爱意待我,赐我恩惠。"
4.19.12
स्वास्तीर्णमस्ति शयनं सितसूक्ष्मोत्तरच्छदम् ।
अत्रारुह्य मया सार्धं पिबेमां वरवारुणीम् ॥ ४.१९.१२ ॥
"这里有一张铺得很好的床,上面覆盖着洁白细滑的被单。与我一同登上床,饮下这上好的美酒吧。"
4.19.13
भजस्व मां विशालाक्षि भर्ता ते सदृशोस्म्यहम् ।
उपसर्प वरारोहे मेरुमर्कप्रभा यथा ॥ ४.१९.१३ ॥
广目美人啊,接受我吧,我与你的丈夫不相上下。美腰的女子啊,走近我来,犹如日光靠近须弥山。
4.19.14
स मूढः कीचकस्तत्र प्राप्तां राजीवलोचनाम् ।
अब्रवीद्द्रौपदीं दृष्ट्वा दुरात्मा ह्यात्मसंमतः ॥ ४.१९.१४ ॥
那愚昧的迦旃迦见到前来的莲眼德罗波蒂,这恶毒之人一意孤行,便对她说道。
4.19.15
कीचकेनैवमुक्ता सा द्रौपदी वरवर्णिनी ।
अब्रवीत्तमनाचारं नेदृशं वक्तुमर्हसि ॥ ४.१९.१५ ॥
迦旃迦如此说后,肤色美好的德罗波蒂对那行为不端的人说道:“你不应该说这样的话。”
4.19.16
नाहं शक्या त्वया स्प्रष्टुं श्वपचेनेव ब्राह्मणी ।
गन्तुमिच्छसि दुर्बुद्धे गतिं दुर्गतरान्तराम् ॥ ४.१९.१६ ॥
你不能触碰我,就像贱民屠夫不能触碰婆罗门妇女一样。恶毒之人啊,你想走向比这更悲惨的命运。
4.19.17
यत्र गच्छन्ति बहवः परदाराभिमर्शकाः ।
नराः संभिन्नमर्यादाः कीटवच्चाशुभाश्रयाः ॥ ४.१९.१७ ॥
许多触碰他人妻子、越过礼法界限、像虫子一样栖身于污秽之处的人所去的那个地方。
4.19.18
अप्रैषीन्मां सुराहारीं सुदेष्णा त्वन्निवेशनम् ।
तस्यै नयिष्ये मदिरां भगिनी तृषिता तव ॥ ४.१९.१८ ॥
苏德什娜派我到你的住所取酒。我要为她拿酒去,因为你的姐妹口渴了。
4.19.19
पिपासिता च कैकेयी तूर्णं मामादिशत्ततः ।
दीयतां मे सुरा शीघ्रं सूतपुत्र व्रजाम्यहम् ॥ ४.१९.१९ ॥
口渴的凯凯伊立刻吩咐我:“御者之子,快给我酒,我要走了。”
4.19.20
अन्या भद्रे हरिष्यन्ति राजपुत्र्याः सुरामिमाम् ।
किं त्वं यास्यसि कल्याणि मदर्थं त्वमिहागता ॥ ४.१९.२० ॥
迦湿迦说:“贤淑的女子,这酒会由别的侍女送给公主。美丽的人,你是为我而来的,为何要离开?”
4.19.21
इत्युक्त्वा दक्षिणे पाणौ सूतपुत्रः परामृशत् ।
सा गृहीता विधून्वन्ती भूमौ निक्षिप्य भाजनम् ।
सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ॥ ४.१९.२१ ॥
说完,御者之子抓住了她的右手。她被抓住后挣脱,把器皿放在地上,跑向国王坚战所在的大殿寻求庇护。
4.19.22
तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् ।
पातयित्वा तु तां भूमौ सूतपुत्रः पदाऽवधीत् ॥ ४.१९.२२ ॥
奔跑中的她被迦湿迦抓住了发辫。御者之子把她摔倒在地,又用脚踢她。
4.19.23
सभायां पश्यतो राज्ञो विराटस्य महात्मनः ।
ब्राह्मणानां च वृद्धानां क्षत्रियाणां च पश्यतां ॥ ४.१९.२३ ॥
在大殿之中,当崇高的国王毗罗吒注视着,婆罗门、长者和刹帝利也在观看之时。
4.19.24
तस्याः पादाभितप्ताया मुखाद्रुधिरमास्रवत् ॥ ४.१९.२४ ॥
她被脚踢打得痛苦不堪,口中开始流出鲜血。
4.19.25
ततो दिवाकरेणाशु राक्षसः संनियोजितः ।
स कीचकमपोवाह वातवेगेन भारत ॥ ४.१९.२५ ॥
于是,被太阳迅速派遣的罗刹以风的速度将迦吉迦带走,婆罗多啊。
4.19.26
स पपात तदा भूमौ रक्षोबलसमीरितः ।
विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ॥ ४.१९.२६ ॥
被罗刹之力掷下,他便倒在地上,旋转着,一动不动,如同断根的树。
4.19.27
तां दृष्ट्वा तत्र ते सभ्या हाहाभूताः समन्ततः ।
न युक्तं सूतपुत्रेति कीचकेति च तेऽवदन्।
किमियं वध्यते बाला कृपणा चाप्यबान्धवा ॥ ४.१९.२७ ॥
众人见她在那里,纷纷惊呼。他们说:“御者之子迦吉迦,这不合理。这个弱小无依的少女,为何被打?”
4.19.28
तस्यामासन्हि ते पार्थाः सभायां भ्रातरस्तथा ।
अमृष्यमाणाः कृष्णायाः कीचकेन पदा वधं ॥ ४.१९.२८ ॥
在那集会中,普利塔的诸子及其兄弟们,无法忍受迦吉迦用脚踢击黑天女的行为。
4.19.29
तां दृष्ट्वा भीमसेनस्य क्रोधादास्रमवर्तत ।
धूमोच्छ्वासः समभवन्नेत्रे चोच्छ्रितपक्ष्मणी ।
सस्वेदा भ्रुकुटी चोग्रा ललाटे समवर्तत ॥ ४.१९.२९ ॥
看见她,毗摩娑那因愤怒而泪涌;他的呼吸仿佛冒出烟雾,双眼睁大,睫毛竖起;额头上汗水淋漓,怒目紧锁,显得十分凶猛。
4.19.30
तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः ।
दन्तैर्दन्तांस्तदा रोपान्निष्पिपेष महामनाः ॥ ४.१९.३० ॥
那心胸广大的毗摩,想要杀死那恶毒的迦吉迦,于是在愤怒中咬牙切齿。
4.19.31
भूयः संचरितः क्रुद्धः सहसोत्थाय चासनात् ।
निरैक्षत द्रुमं दीर्घं राजानं चाप्यवैक्षत ॥ ४.१९.३१ ॥
他再次愤怒,突然从座位上站起,看向那棵高大的树,也看向了国王。
4.19.32
वधमाकाङ्क्षमाणं तं कीचकस्य दुरात्मनः ।
आकारेणैव भीमं स प्रत्यपेधद्युधिष्ठिरः ॥ ४.१९.३२ ॥
坚战仅以一个手势便制止了渴望杀死恶人迦旃迦的怖军。
4.19.33
तस्य राजा शनैः संज्ञां कुन्तीपुत्रो युधिष्ठिरः ।
चकार भीमसेनस्य रोषाविष्टस्य धीमतः ॥ ४.१९.३३ ॥
国王,昆蒂之子坚战,缓缓地将充满愤怒的智者怖军的注意力吸引到自己身上。
4.19.34
प्रत्याख्यानं तदा चाह कङ्को नाम युधिष्ठिरः ॥ ४.१९.३४ ॥
于是名为刚迦的坚战拒绝并说道。
4.19.35
सूद मा साहसं कार्षीः फलितोऽयं वनस्पतिः ।
नात्र शुष्काणि काष्ठानि सन्ति यानि च कानि च ॥ ४.१९.३५ ॥
厨子,不要做如此鲁莽之事;这棵树结满了果实。这里没有任何干柴。
4.19.36
यदि ते दारुकृत्यं स्यान्निष्क्रम्य नगराद्बहिः ।
समूलं शातयेर्वृक्षं श्रमस्ते न भविष्यति ॥ ४.१९.३६ ॥
如果你要砍柴,就出城去,把这棵树连根砍倒;你的辛劳不会白费。
4.19.37
यस्य चार्द्रस्य वृक्षस्य शीतच्छायां समाश्रयेत् ।
न तस्य पर्णे द्रुह्येत पूर्ववृत्तमनुस्मरन् ॥ ४.१९.३७ ॥
在一棵绿树的凉荫下寻求庇护的人,连它的一片叶子也不应伤害,应铭记它往日的恩惠。
4.19.38
न क्रोधकालसमयः सूद मा चापलं कृथाः ।
अपूर्णोऽयं द्विपक्षोनो नेदं बलवतां बहु ॥ ४.१९.३८ ॥
厨子啊!这不是发怒的时候,不要轻率行事。这份食物不完整,两边都有所欠缺;对强者来说,这并不算多。
4.19.39
अथाङ्गुष्ठेनावमृद्गादङ्गुष्ठं तत्र धर्मराट् ।
प्रबोधनभयाद्राज्ञो भीमं तं प्रत्यषेधयत् ॥ ४.१९.३९ ॥
于是法王用自己的拇指压住了怖军的拇指,因恐惧国王醒来,便制止了他。
4.19.40
भीमसेनस्तु तद्वाक्यं श्रुत्वा परपुरञ्जयः ।
सहसोत्पतितं क्रोधं न्ययच्छद्धृतिमान्बलात् ।
इङ्गितज्ञः स तु भ्रातुस्तूष्णीमासीद्वृकोदरः ॥ ४.१९.४० ॥
征服敌城的怖军听了这话,便坚定地强行压下了突然升起的怒火;通晓兄长暗示的狼腹默然端坐。
4.19.41
भीमस्य च समारम्भं दृष्ट्वा राज्ञोऽस्य चेष्टितम् ।
द्रौपदी चाधिकं क्रोधात्प्रारुदत्सा पुनःपुनः ॥ ४.१९.४१ ॥
德罗巴蒂见怖军的举动和那位国王的行为,因愤怒而大哭,一次又一次地哭泣。
4.19.42
कीचकेनानुगमनात्कृष्णा ताम्रायतेक्षणा ।
सभाद्वारमुपगम्य रुदन्ती वाक्यमब्रवीत् ॥ ४.१९.४२ ॥
因为迦旃迦跟随在后,那双眼睛长而泛红的黑公主来到议会厅门口,边哭边说了这些话。
4.19.43
अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः ।
आकारं परिरक्षन्ती प्रतिज्ञां धर्मसंयुताम्।
दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ॥ ४.१९.४३ ॥
凝视着那些心志沮丧的丈夫,守护着与法相应的誓言之形,美腰的德鲁帕达之女仿佛以狂烈的目光燃烧着。
4.19.44
प्रजारक्षणशीलानां राज्ञां ह्यमिततेजसाम् ।
कार्याऽनुपालनं नित्यं धर्मे सत्ये च तिष्ठताम् ॥ ४.१९.४४ ॥
对于那些以保护臣民为本性、光辉无量的国王而言,履行职责始终属于那些坚守法与真理的人。
4.19.45
स्वप्रजायां प्रजायां च विशेषं नाधिगच्छताम् ।
प्रियेष्वपि च वध्येषु समत्वं ये समाश्रिताः ॥ ४.१९.४५ ॥
那些不在自己的臣民与他人的臣民之间作出区别,并且对所爱之人和应受惩罚之人都秉持平等之心的人。
4.19.46
विवादेषु प्रवृत्तेषु समं कार्यानुदर्शिना ।
राज्ञा धर्मासनस्थेन जितौ लोकावुभावपि ॥ ४.१९.४६ ॥
争讼兴起之时,坐于法座之上、公正地洞察事理而裁决的国王,能够赢得两个世界。
4.19.47
राजन्धर्मासनस्थो हि रक्ष मां त्वमनागसम् ॥ ४.१९.४७ ॥
国王啊,你坐在法座之上,请保护我这个无辜之人。
4.19.48
अहं त्वनपराध्यन्ती कीचकेन दुरात्मना ।
पश्यतस्ते महाराज हता पादेन दासिवात् ॥ ४.१९.४८ ॥
我本无过错,却在大王您眼前,被心怀恶念的吉查卡用脚踢打,如同奴婢一般。
4.19.49
त्वत्समक्षं नृपश्रेष्ठ निष्पिष्टा वसुधातले ।
अनागसं कृपार्हां मां स्त्रियं त्वं परिपालय ॥ ४.१९.४९ ॥
王中之最,在您面前我已被踩碎在大地上。我无辜,值得怜悯,是一个女人;您应当保护我。
4.19.50
रक्ष मां कीचकाद्भीतां धर्मं रक्ष नरेश्वर ।
मत्स्याधिप प्रजा रक्ष पिता पुत्रानिवौरसान् ॥ ४.१९.५० ॥
人主啊,请保护被迦log吓坏的我,保护法。摩差国之主啊,请保护您的臣民,如父亲保护亲生的儿子。
4.19.51
यस्त्वधर्मेण कार्याणि मोहात्मा कुरुते नृपः ।
अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ ४.१९.५१ ॥
若国王心被迷惑而行非法之事,敌人很快就会将这恶心之人掌控在手中。
4.19.52
मत्स्यानां कुलजस्त्वं हि तेषां सत्यं परायणम् ।
त्वं किलैवंविधो जातः कुले धर्मपरायणे ॥ ४.१९.५२ ॥
你出生于摩差族,对他们而言真理是最高的依靠;你这样的人,生于一个奉行法的家族。
4.19.53
अतस्त्वाहमभिक्रन्दे शरणार्थं नराधिप ।
त्राहि मामद्य राजेन्द्र कीचकात्पापपूरुषात् ॥ ४.१९.५३ ॥
因此,人主啊,我为求庇护而向您呼喊。王中之王啊,今日请从那个罪人迦log手中救我。
4.19.54
अनाथामिह मां ज्ञात्वा कीचकः पुरुषाधमः ।
प्रहरत्येव नीचात्मा न तु धर्ममवेक्षते ॥ ४.१९.५४ ॥
他知道我在此孤立无援,那卑劣之人、心地低下的迦log,便不断殴打我;他根本不顾法。
4.19.55
अकार्याणामनारम्भात्कार्याणामनुपालनात् ।
प्रजासु ये सुवृत्तास्ते स्वर्गमायान्ति भूमिपाः ॥ ४.१९.५५ ॥
那些远离不应做之事、履行应做之事,并善待臣民的君王,将升入天界。
4.19.56
कार्याकार्यविशेषज्ञाः कामकारेण पार्थिवाः ।
प्रजासु किल्बिषं कृत्वा नरकं यान्त्यधोमुखाः ॥ ४.१९.५६ ॥
那些明知何为应为、何为不应为,却出于贪欲而对臣民犯罪的君王,将头朝下堕入地狱。
4.19.57
नैव यज्ञैर्न वा दानैर्न गुरोरुपसेवनात् ।
प्राप्नुवन्ति तथा धर्मं यथा कार्यानुपालनात् ॥ ४.१९.५७ ॥
人们并非通过祭祀、布施或侍奉师长而获得法,而是如同履行应做之事那样才能获得。
4.19.58
अपि चेदं पुरा ब्रह्मा प्रोवाचेन्द्राय पृच्छते ।
द्वन्द्वं कार्यमकार्यं च लोके चासीत्परं यथा ॥ ४.१९.५८ ॥
往昔,梵天也向请教的因陀罗宣说:世间应为与不应为的这对相对,其至高之处正在于此。
4.19.59
धर्माधर्मौ पुनर्द्वन्द्वं विनियुक्तमथापि वा ।
क्रियाणामक्रियाणां च प्रापणे पुण्यपापयोः ॥ ४.१९.५९ ॥
法与非法又是一对,被安排用于通过作为与不作为而获得功德与罪恶。
4.19.60
प्रजायां सृज्यमानायां पुरा ह्येतदुदाहृतम् ।
एतद्वो मानुषाः सम्यक्कार्यं द्वन्द्वत्रयं भुवि ॥ ४.१९.६० ॥
此事在造化众生之初便已宣说。诸位世人,这三对相对正是为你们在大地上的职责而恰当设立的。
4.19.61
अस्मिन्सुनीते दुर्नीते लभते कर्मजं फलम् ।
कल्याणकारी कल्याणं पापकारी च पापकम् ॥ ४.१९.६१ ॥
无论善行还是恶行,人都会获得由其行为所生的果报:行善者得善,作恶者得恶。
4.19.62
तेन गच्छति संसर्गं स्वर्गाय नरकाय वा ।
सुकृतं दुष्कृतं वाऽपि कृत्वा मोहेन मानवः ।
पश्चात्तापेन तप्येत स्वबुद्ध्या मरणं गतः ॥ ४.१९.६२ ॥
因此行为,他进入天界或地狱之列。人因迷惑而行善或作恶,事后便为悔恨所煎熬,并因自己的心智而走向死亡。
4.19.63
एवमुक्त्वा परं वाक्यं विससर्ज शतक्रतुम् ।
शक्रोप्यापृच्छ्य ब्रह्माणं देवराज्यमपालयत् ॥ ४.१९.६३ ॥
说完这番至高的话,他送走了百祭者(因陀罗)。因陀罗也辞别梵天,继续守护诸天之王的国度。
4.19.64
यथोक्तं देवराजेन ब्रह्मणा परमेष्ठिना ।
तथा त्वमपि राजेन्द्र कार्याकार्ये स्थिरो भव ॥ ४.१९.६४ ॥
正如诸神之王因陀罗与至尊梵天所说,那样,啊,众王之王,你也要在应做与不应做之事上坚定不移。