摩诃婆罗多 · 章 4.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.2.1
निवृत्तवनवासास्ते सत्यसन्धा मनस्विनः ।
अकुर्वत पुनर्मन्त्रं सह धौम्येन पाण्डवाः ॥ ४.२.१ ॥
完成林中流放后,守信而心志高远的般度五子再次与达乌米耶商议。
4.2.2
अथाब्रवीद्धर्मराजः कुन्तीपुत्रो युधिष्ठिरः ।
भ्रातॄन्कृष्णां च संग्रेक्ष्य धौम्यं च कुरुनन्दनः ॥ ४.२.२ ॥
于是法王、昆蒂之子、俱卢之喜的坚战环顾兄弟、黑公主与达乌米耶,说道。
4.2.3
द्वादशेमानि वर्षाणि राज्याद्विप्रोषिता वयम् ।
त्रयोदशोऽयं संप्राप्तः कृच्छ्रात्परमदुर्वसः।
स साधु कौन्तेय इतो वासमर्जुन रोचय ॥ ४.२.३ ॥
我们被逐出王国已十二年,这第十三年艰难地到来了。昆蒂之子阿周那,请从此处好好选择一个居所吧。
4.2.4
त्रयोदशमिदं प्राप्तं क्वनु वत्स्यामहेऽर्जुन ।
अबुद्धा धार्तराष्ट्रैश्च समग्राः सह कृष्णया ॥ ४.२.४ ॥
这第十三年已经到来。阿周那,我们将在何处居住?在不被持国之子认出的情况下,我们与黑公主一同全部。
4.2.5
तस्यैव वरदानेन धर्मस्य मनुजाधिप ।
अज्ञाता विचरिष्यामो नराणां भरतर्षभ ॥ ४.२.५ ॥
凭借法神所赐的那份恩惠,人主啊,我们将不为人知地在人群中游走,婆罗多之雄牛。
4.2.6
यानि राष्ट्राणि वासाय कीर्तयिष्यामि कानिचित् ।
रमणीयानि गुप्तानि तेषां किंचित्तु रोचय ॥ ४.२.६ ॥
我将列举几个可以居住的国度,它们宜人而隐秘。其中若有可取之处,请您挑选。
4.2.7
रम्या जनपदाः सन्ति बहवस्त्वभितः कुरून् ।
पाञ्चालाश्चैव मत्स्याश्च साल्ववैदेहबाह्लिकाः ।
दशार्णाः शूरसेनाश्च कलिङ्गा मागधा अपि ॥ ४.२.७ ॥
在俱卢周围有许多宜人的国土:般遮罗、摩差、娑婆、毗提诃、巴赫利迦、十河、首罗西那、羯陵伽,还有摩揭陀。
4.2.8
विराटनगरं चापि श्रूयते शत्रुसूदन ।
रमणीयं जनाकीर्णं सुभिक्षं स्फीतमेव च ॥ ४.२.८ ॥
灭敌者啊,人们也说毗罗吒城宜人、人口稠密、粮食丰足、繁荣兴旺。
4.2.9
नानाराष्ट्राणि चान्यानि श्रूयन्ते सुबहूनि च ।
यत्र ते रोचते राजंस्तत्र गच्छामहे वयम् ॥ ४.२.९ ॥
也听说还有许多其他的国家;大王,您喜欢哪里,我们就去哪里。
4.2.10
कतमस्मिञ्जनपदे महाराज निवत्स्यसि ।
मा विषादे मनः कार्यं राज्यभ्रंश इति क्वचित् ॥ ४.२.१० ॥
大王啊,您将住在哪个国家?请不要因失去王国而让心陷入忧愁。
4.2.11
एवमेतन्महाबाहो यथा स भगवान्प्रभुः ।
अब्रवीत्सर्वभूतेशस्तथैतन्न तदन्यथा ॥ ४.२.११ ॥
大力臂者啊,正如那位世尊、众生之主所说,事情就是这样,不会有别的。
4.2.12
अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम् ।
संमन्त्र्य सहितैः सर्वैर्द्रव्यमकुतोऽभयम् ॥ ४.२.१२ ॥
我们必须找一个宜人、吉祥、安稳的居住之地;与大家商议之后,选一个四方都无恐惧的地方。
4.2.13
मात्स्यो विराटो बलवानभिरक्तोथ पाण्डवान् ।
धर्मशीलो वदान्यश्च वृद्धः सत्स्वपि संमतः ॥ ४.२.१३ ॥
强大的毗罗吒,摩蹉王,对般度五子怀有深厚情谊。他品德高尚、慷慨、年长,即使在善人之中也备受尊敬。
4.2.14
गुणवाँल्लोकविख्यातो दृढभक्तिर्जितेन्द्रियः ।
तत्र मे रोचते पार्थ मत्स्यराजान्तिकेऽनघ ॥ ४.२.१४ ॥
他品德优良,名扬天下,信念坚定,且能自制。哦,普利塔之子,哦,无垢者,我愿意住在摩蹉王的身边。
4.2.15
विराटनगरे तात मासान्द्वादशसंमितान् ।
कुर्वन्तस्तस्य कर्माणि वसामो यदि रोचते ॥ ४.२.१५ ॥
亲爱的,如果你愿意,我们就在毗罗吒城住上十二个月,为他效力。
4.2.16
यानियानि च कर्माणि तस्य शक्ष्यामहे वयम् ।
कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दन ॥ ४.२.१६ ॥
凡是他的各项职事,我们都能去做。哦,俱卢族的喜悦者,谁该做什么,请他吩咐。
4.2.17
नरदेव कथं कर्म तस्य राष्ट्रे करिष्यसि ।
मनुजेन्द्र विराटस्य रंस्यसे केन कर्मणा ॥ ४.२.१७ ॥
哦,人主,你在他的国中将做什么事?哦,人中之主,你将在毗罗吒的哪一项职事中得到快乐?
4.2.18
अक्लिष्टवेषधारी च धार्मिको ह्यनसूयकः ।
न तवाभ्युचितं कर्म नृशंसं नापि कैतवम् ॥ ४.२.१८ ॥
你穿着轻便的装束,正直而无嫉妒。残酷或欺诈的工作并不适合你。
4.2.19
सत्यवागसि याज्ञीको लोभक्रोधविवर्जितः ।
मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः ॥ ४.२.१९ ॥
你诚实守信,专心祭祀,远离贪欲与愤怒,温和慷慨,知耻守礼,行法正直,具有真正的勇力。
4.2.20
स राजंस्तपसा क्लिष्टः कथं तस्य करिष्यसि ।
न दुःखमुचितं किंचिद्राजन्पापमतेर्यथा।
स इमामापदं प्राप्य कथं घोरां तरिष्यसि ॥ ४.२.२० ॥
国王啊,他因苦行而受折磨,你将如何对待他?心存恶念的人,本不应受任何苦,国王啊。你遭遇此可怕的灾难,又将如何度过?
4.2.21
अर्जुनेनैवमुक्तस्तु प्रत्युवाच युधिष्ठिरः ।
शृणु त्वं यत्करिष्यामि कर्म वै कुरुनन्दन ॥ ४.२.२१ ॥
阿周那如此说后,坚战回答道:'俱卢之喜,请听我将要做的事。'
4.2.22
विराटं समनुप्राप्य राजानं मात्स्यनन्दनम् ।
सभास्तारो भविष्यामि विराटस्येति मे मतिः ॥ ४.२.२२ ॥
我将前往摩差国之喜的国王毗罗吒那里,成为毗罗吒议会的装饰。这便是我的决定。
4.2.23
कङ्को नाम ब्रुवाणोऽहं मताक्षः साधुदेविता ।
वैडूर्यान्काञ्चनान्दानान्स्फाटिकान्राजतानपि ॥ ४.२.२३ ॥
我以“羯迦”之名说话,精通骰子,善于赌博,也将获得琉璃、黄金、水晶和白银之赠礼。
4.2.24
कृष्णाक्षाँल्लोहिताक्षांश्च निवप्स्यामि मनोरमान् ।
अरिष्टान्राजगोलिङ्गान्दर्शनीयान्सुवर्चसः ॥ ४.२.२४ ॥
我将优雅地掷出黑色与红色的骰子——完好无损、如王者般尊贵、令人赏心悦目而光彩夺目。
4.2.25
लोहिताश्चाश्मगर्भाश्च सन्ति तात धनानि मे ।
दर्शनीयाः सभानन्दाः कुशलैः साधुनिष्ठिताः ॥ ४.२.२५ ॥
亲爱的,我有红色、内含石心的宝物,looks fine,令众人欢喜,由巧匠精心完成。
4.2.26
अप्येतान्पाणिना स्पृष्ट्वा संप्रहृष्यन्ति मानवाः ॥ ४.२.२६ ॥
即使用手触摸这些,人们也会非常欢喜。
4.2.27
तान्विकीर्य समे देशे रमणीये विपांसुले ।
देविष्यामि यथाकामं स विहारो भविष्यति ॥ ४.२.२७ ॥
把它们撒在平坦、美丽、无尘的地面上,我将随心游戏;那便是我的消遣。
4.2.28
कङ्को नाम्ना परिव्राट् च विराटस्य सभासदः ।
ज्योतिषे शकुनज्ञाने निमित्ते चाक्षकौशले ।
ब्राह्मे वेदे मयाऽधीते वेदाङ्गेषु च सर्वशः ॥ ४.२.२८ ॥
我名叫甘伽,是游方苦行者,也是毗罗吒议会的成员。在占星、征兆之学、预兆与掷骰技艺方面,我已彻底研习了梵吠陀及所有吠陀支分。
4.2.29
धर्मकामार्थमोक्षेषु नीतिशास्त्रेषु पारगः ।
पृष्टोऽहं कथयिष्यामि राज्ञः प्रियतमं वचः ॥ ४.२.२९ ॥
我精通法、欲、利与解脱,also精通政治典籍;若被问及,我将对国王说最令他欢喜的话。
4.2.30
आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा ।
इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते ॥ ४.२.३० ॥
我从前是坚战的朋友,亲如性命。若国王问我,我便如此回答。
4.2.31
विराटनगरे छन्न एवं युक्तः सदा वसे ।
इत्येवं मे प्रतिज्ञातं विचरिष्याम्यहं यथा ॥ ४.२.३१ ॥
我将隐匿于毗罗吒城,常以克制之心如此居住。我已如此发愿:我将如此行走。