摩诃婆罗多 · 章 4.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.21.1
अहो दुःखतरं प्राप्ता कीचकेन पदा हता ।
पतिव्रता महाभागा द्रौपदी योषितांवरा ॥ ४.२१.१ ॥
唉!被钵拉帝所踢的德罗波蒂,忠于丈夫、极有福德、女子中的最优者,陷入了更加痛苦的境地。
4.21.2
दुःशलां स्मारयन्ती सा भर्तॄणां भगिनीं शुभाम् ।
नाशपत्सिन्धुराजं सा बलात्कारेण वाहिता ॥ ४.२१.२ ॥
她回想起丈夫们吉祥的妹妹杜沙拉,被强行拖走的她诅咒了信度王。
4.21.3
किमर्थमिह संप्राप्ता कीचकेन दुरात्मना ।
नाशपत्तं महाभागा कृष्णा पादेन ताडिता ॥ ४.२१.३ ॥
邪恶的钵恭伽为何把她带到此处?被脚踢的大福的克里希纳诅咒了他。
4.21.4
तेजोराशिरियं देवी धर्मज्ञा सत्यवादिनी ।
केशपांशे परामृष्टा मर्षयन्ती ह्यशक्तवत् ॥ ४.२१.४ ॥
这位光辉之聚的女神,知法且说真话,被揪住头发和尘土,却如无力者一般忍耐着。
4.21.5
नैतत्कारणमल्पं हि श्रोतुकामोऽस्मि सत्तम ।
कृष्णायास्तु परिक्लेशान्मनो मे दूयते भृशम् ॥ ४.२१.५ ॥
这原因不小;善人中最优者啊,我愿意听闻。克里希纳的这场苦难使我的心极为痛苦。
4.21.6
कस्य वंशे समुद्भूतः स च दुर्ललितो मुने ।
बलोन्मत्तः कथं चासीत्स्यालो मात्स्यस्य कीचकः ॥ ४.२१.६ ॥
啊,仙人,他出生于哪一家族?那骄纵、因力量而狂妄的钵恭伽,如何成为了摩差国王的内弟?
4.21.7
दृष्ट्वापि तां प्रियां भार्यां सूतपुत्रेण ताडिताम् ।
नैव चुक्षुभिरे वीराः किमकुर्वन्त तं प्रति ॥ ४.२१.७ ॥
即使看见心爱的妻子被御者之子殴打,英雄们也毫不动摇。他们对他做了什么?
4.21.8
त्वदुक्तोऽयमनुप्रश्नः कुरूणां कीर्तिवर्धनः ।
एतत्सर्वं यथा वक्ष्ये विस्तरेणेह पार्थिव ॥ ४.२१.८ ॥
君王啊,你这个追问增添了俱卢族的荣耀,我将在此详细地如实讲述这一切。
4.21.9
ब्राह्मण्यां क्षत्रियाञ्जातः सूतो भवति पार्थिव ।
प्रातिलोम्येन जातानां स ह्येको द्विज एव तु ॥ ४.२१.९ ॥
君王啊,刹帝利男子与婆罗门女子所生之子称为苏多。在逆序而生者中,唯有他是再生者。
4.21.10
रथकारमितीमं हि क्रियायुक्तं द्विजन्मनाम् ।
क्षत्रियादवरो वैश्याद्विशिष्ट इति चक्षते ॥ ४.२१.१० ॥
从事再生者职事的人被称为车工;人们说他低于刹帝利,却高于吠舍。
4.21.11
सह सूतेन संबन्धः कृतः पूर्वं नराधिपैः ।
तेन तु प्रातिलोम्येन राजशब्दो न लभ्यते ॥ ४.२१.११ ॥
古时诸王曾与苏多结亲,但因这种逆序的结合,他不能获得「王」的称号。
4.21.12
तेषां तु सूतविषयः सूतानां नामतः कृतः ।
उपजीव्यं च यत्क्षेत्रं राजन्सूतेन वै पुरा ॥ ४.२१.१२ ॥
他们的苏多之地以苏多之名命名;君王啊,昔日苏多赖以谋生的土地,确实也属于他。
4.21.13
सूतानामधिपो राजा केकयो नाम विश्रुतः ।
राजकन्यासमुद्भूतः सारथ्येऽनुपमोऽभवत् ॥ ४.२१.१३ ॥
御者之主、名闻遐迩的迦叶王(Kekaya),生于王女,在驾车之术上无人能及。
4.21.14
पुत्रास्तस्य कुरुश्रेष्ठ मालव्यां जझिरे तदा ।
कीचका इति विख्याताः शतं षट् चैव भारत ॥ ४.२१.१४ ॥
俱卢之最,彼时他从摩罗婆(Mālavī)生下诸子,号为迦吉迦(Kīcaka),共一百零六人,婆罗多之后裔啊。
4.21.15
तेषामासीद्बलश्रेष्ठः कीचकः सर्वजित्प्रभो ।
अग्रजो बलसंमत्तस्तेनासीत्सूतषट्शतम् ॥ ४.२१.१५ ॥
其中有最强者迦吉迦(Kīcaka),征服一切,主啊。他是长子,因力量而狂傲;由他而有六百御者。
4.21.16
मालव्या एव कौरव्य तत्र ह्यवरजाऽभवत् ।
तस्यां केकयराज्ञस्तु सुदेष्णा दुहिताऽभवत् ॥ ४.२१.१६ ॥
俱卢之裔啊,摩罗婆生下一位幼女;由她生出迦叶王之女苏德什那(Sudeṣṇā)。
4.21.17
तां विराटस्य मात्स्यस्य केकयः प्रददौ मुदा ।
सुरथायां मृतायां तु कौसल्यां श्वेतमातरि ॥ ४.२१.१७ ॥
迦叶王欣然将她嫁给马特亚王毗罗吒(Virāṭa)。苏罗陀(Surathā)死后,白色之母(Śveta之母)憍舍罗(Kausalyā)(在那里)。
4.21.18
श्वेते विनष्टे शङ्खे च गते मातुलवेश्मनि ।
सुदेष्णां महिषीं लब्ध्वा राज दुःखमपानुदत् ॥ ४.२१.१८ ॥
白(Śveta)已丧,螺(Śaṅkha)已往舅家,国王得苏德什那为正后,便驱散了悲痛。
4.21.19
उत्तरं चोत्तरां चैव विराटात्पृथिवीपते ।
सुदेष्णा सुषुवे देवी कैकेयी कुलवृद्धये ॥ ४.२१.१९ ॥
大地之主啊,毗罗吒之妃苏提希那(迦叶伊)为了家族的昌盛,生下了乌多罗与乌多罗。
4.21.20
मातृष्वसृसुतां राजन्कीचकस्तामनिन्दिताम् ।
सदा परिचरन्प्रीत्या विराटे न्यवसत्सुखी ॥ ४.२१.२० ॥
大王啊,迦吒伽以爱心常常侍奉那位无可指责的表妹,在毗罗吒的宫中快乐地居住。
4.21.21
भ्रातरश्चास्य विक्रान्ताः सर्वे च तमनुव्रताः ।
विराटस्यैव संहृष्टा बलं कोशं त्ववर्धयन् ॥ ४.२१.२१ ॥
他那些勇猛的兄弟们都追随他,欢欣鼓舞地增强了毗罗吒的军队与府库。
4.21.22
कालेया नाम ते दैत्याः प्रायशो भुवि विश्रुताः ।
जझिरे कीचका राजन्बाणो ज्येष्ठस्तथाऽभवत् ॥ ४.२१.२२ ॥
大王啊,那些在世间多以迦罗耶之名闻名的檀那婆,降生为迦吒伽,其中长者为婆那。
4.21.23
स हि सर्वास्रसंपन्नो बलवान्भीमविक्रमः ।
कीचको नष्टमर्यादो बभूव भयदो नृणाम् ॥ ४.२१.२३ ॥
那位迦吒伽精通一切兵器,强大而勇猛可畏,失去了礼法的约束,成为令人恐惧的人。
4.21.24
तं प्राप्य बलसंमत्तं विराटः पृथिवीपतिः ।
जिगाय सर्वांश्च रिपून्यथेन्द्रो दानवान्पुरा ॥ ४.२१.२४ ॥
大地之主毗罗吒得到了那位因力量而骄傲的人,便征服了一切敌人,如往昔因陀罗征服檀那婆一般。
4.21.25
मेखलांश्च त्रिगर्तांश्च दशार्णांश्च कशेरुकान् ।
मालवांश्चैव यवनान्सिलिन्दान्काशिकोसलान् ॥ ४.२१.२५ ॥
他还击败了梅克拉人、特里伽尔塔人、达沙尔纳人、卡舍卢卡人、摩罗婆人、耶婆那人、悉林陀人以及迦尸人与憍萨罗人。
4.21.26
करदांश्च निषिद्धांश्च शिवान्मचुलकांस्तथा ।
पुलिन्दांश्च कलिङ्गांश्च तङ्कणान्परतङ्कणान् ॥ ४.२१.२६ ॥
他还击败了迦罗达人、尼湿陀人、湿婆人、摩菩罗迦人、普林达人、羯陵伽人、丹卡那人以及波罗丹卡那人。
4.21.27
अन्ये च बहवः शूरा नानाजनपदेश्वराः ।
कीचकेन रणे भग्ना विद्रवन्ति दिशो दश ॥ ४.२१.२७ ॥
其他许多英雄、各邦之主,在战场上被迦吉迦击溃,向十方逃散。
4.21.28
तमेवंवीर्यसंपन्नं नागायुतसमं बले ।
विराटस्तत्र सेनायाश्चकार पतिमात्मनः ॥ ४.२१.२८ ॥
毗罗吒便任命这位勇力非凡、力量堪比万头象的人为自己军队的统帅。
4.21.29
विराटभ्रातरश्चैव दश दाशरथेः समाः ।
ते चैनानन्ववर्तन्त कीचकान्बलवत्तरान् ॥ ४.२१.२९ ॥
毗罗吒的十位兄弟,与十车王之子相当,也追随这些更为强大的迦吉迦。
4.21.30
एवंविधबलो भीमः कीचकस्ते च तद्विधाः ।
राज्ञः स्याला महात्मानो विराटस्य हितैषिणः ॥ ४.२१.३० ॥
可怖的迦吉迦有如此力量;他与与他相似的人,都是毗罗吒王高尚的内兄弟,是毗罗吒的忠诚拥护者。
4.21.31
एतत्ते कथितं सर्वं कीचकस्य पराक्रमम् ।
द्रौपदी न शशापैनं यस्मात्तद्गदतः शृणु ॥ ४.२१.३१ ॥
我已把迦least所有的勇力告诉你了。现在听我说,德罗波蒂为何没有诅咒他。
4.21.32
रक्षन्ति हि तपः क्रोधादृषयो न शपन्ति च ।
जानन्ती तद्यथातत्त्वं द्रौपदी न शशाप तम् ॥ ४.२१.३२ ॥
仙人从愤怒中守护苦行,因此不诅咒。德罗波蒂知道这一真理,所以没有诅咒他。
4.21.33
क्षमा धर्मः क्षमा दानं क्षमा यज्ञः क्षमा तपः ।
क्षमा सत्यं क्षमा शीलं क्षमा सर्वमिति श्रुतिः ॥ ४.२१.३३ ॥
忍耐即是法,忍耐即是布施,忍耐即是祭祀,忍耐即是苦行。忍耐即是真理,忍耐即是德行,忍耐即是一切——吠陀如是说。
4.21.34
क्षमावतामयं लोकः परश्चैव क्षमावताम् ।
एतत्सर्वं विजानन्ती सा क्षमामन्वपद्यत ॥ ४.२१.३४ ॥
此世与来世皆属于忍耐者。她知晓这一切,于是依靠忍耐。
4.21.35
भर्तॄणां मतमाज्ञाय क्षमिणां धर्मचारिणाम् ।
नाशपत्तं विशालाक्षी सती शक्ताऽपि भारत ॥ ४.२१.३५ ॥
婆罗多之子啊,贞洁的广目德罗波蒂知晓她那忍耐、奉行法道的丈夫们的心意,虽有能力,却没有诅咒他。
4.21.36
पाण्डवाश्चापि ते सर्वे द्रौपदीं प्रेक्ष्य दुःखिताम् ।
क्रोधाग्निनाऽप्यदह्यन्त तदा लञ्जाव्यपेक्षया ॥ ४.२१.३६ ॥
此时众般度五子见德罗波蒂悲伤,怒火中烧,却因顾及羞耻而克制。
4.21.37
अथ भीमो महाबाहुः मूदयिष्यंस्तु कीचकम् ।
वारितो धर्मपुत्रेण वेलयेव महोदधिः ॥ ४.२१.३७ ॥
那时,大臂的比摩准备碾碎迦旃迦,但法之子阻止了他,正如海岸阻挡大海。
4.21.38
संधार्य मनसा रोषं दिवारात्रं विनिश्वसन् ।
महानसे तदा कृच्छ्रात्सुष्वाप रजनीं च ताम् ॥ ४.२१.३८ ॥
Bhīma压抑着心中的愤怒,日夜深深叹息,那时他在厨房里艰难地度过了那一夜。