Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.50

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.50.1

कृपस्य वचनं श्रुत्वा कर्णो राजन्युधांपतिः ।
पुनः प्रोवाच संरब्धो गर्हयन्ब्राह्मणं कृपम् ॥ ४.५०.१ ॥

大王,迦尔纳——诸战士之主——听了克里帕的话,再次愤怒,斥责婆罗门克里帕,又开口说道。

4.50.2

लक्षयाम्यहमाचार्यं भयाद्भक्तिं गतं रिपौ ।
भीतेन हि न योद्धव्यमहं योत्स्ये धनञ्जयम् ॥ ४.५०.२ ॥

老师,我看出您因恐惧而将忠诚转向了敌人。胆怯的人不该作战;我要与财富征服者(阿周那)交战。

4.50.3

ननु वारुणमाग्नेयं याम्यं वायव्यमेव च ।
अस्त्रं ब्रह्मशिरश्चैव सत्वहीनस्य ते वृथा ॥ ४.५०.३ ॥

水神的武器、火神的武器、阎摩的武器、风神的武器,以及梵首武器——对你这缺乏勇气的人来说,这一切都是徒劳的。

4.50.4

मित्रकार्यं कृतमिदं पितापुत्रैर्महारथैः ।
भर्तृपिण्डश्च निर्विष्टो यथेष्टं गन्तुमर्हथ ॥ ४.५०.४ ॥

这对大车战士父子已尽了朋友之责,主人的饭食也已享用。现在你们可以随意前往任何地方。

4.50.5

भिक्षां हरस्व नित्यं त्वं यज्ञाननुचरस्व च ।
आमन्त्रणानि भुङ्क्षाद्य माऽस्मान्युद्धेन भीषय ॥ ४.५०.५ ॥

你应当时常乞食,侍奉祭祀;今天吃受邀的筵席,不要用战争来恐吓我们。

4.50.6

भार्गवास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् ।
किं पुनः पाण्डुपुत्राणामेकमर्जुनमाहवे ॥ ४.५०.६ ॥

我射出的婆利古之箭,足以焚毁这整个大地;何况在战场上,只是般度诸子中的一人——阿周那呢!

4.50.7

आगमिष्यन्ति पदवीं मात्स्याः पाण्डवमाश्रिताः ।
कीचकानां तु बलिनां शत्रुसेनावमर्दिनाम् ॥ ४.५०.७ ॥

投靠般度五子的摩蹉人将会前来;但是迦陈迦们力量强大,是摧毁敌军的人。

4.50.8

तानहं निहनिष्यामि भवता गम्यतां गृहम् ।
किं वेदवादिनां कार्यं परस्नेहानुभाषिणाम् ॥ ४.५०.८ ॥

我将杀死他们;你们回家去吧。诵说吠陀、谈论对他人之爱的人,与此事有什么相干?

4.50.9

तस्य तद्वचनं श्रुत्वा अश्वत्थामा प्रतापवान् ।
उवाच वदतांश्रेष्ठो दुर्योधनमवेक्ष्य च ॥ ४.५०.९ ॥

马嘶之子(阿湿婆陀man)听了他的话,这位勇猛的辩者之首,看着难敌说道。

4.50.10

न च तावञ्जिता गावो न च सीमान्तरं गताः ।
न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे ॥ ४.५०.१० ॥

牛群尚未被夺得,也未曾抵达边境,未到达象城;然而迦尔纳啊,你却在自夸。

4.50.11

बहूनि धर्मशास्त्राणि पठन्ति द्विजसत्तमाः ।
तेषु किंस्विदिदं दृष्टं द्यूते जीयेत यन्नृपः ॥ ४.५०.११ ॥

最好的再生者诵读许多法论;在其中,可曾见过国王在赌博中被打败的说法?

4.50.12

संग्रामान्विपुलाञ्जित्वा लब्धा च विपुलं धनम् ।
विजित्य च महीं कृत्स्नां नेह कत्थन्ति पण्डिताः ॥ ४.५०.१२ ॥

即使赢得了大战、获得了巨额财富、征服了整个大地,智者在此也不自夸。

4.50.13

पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः ।
तूष्णीं धारयते लोकान्वसुधा सचराचरान् ॥ ४.५०.१३ ॥

火不言而烹煮,日默默照耀,大地默默承载动与不动的众世界。

4.50.14

चातुर्वर्ण्यस्य कर्माणि विहितानि महर्षिभिः ।
धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति ॥ ४.५०.१४ ॥

四种姓的职责由大仙所规定;应借此获取财富,行之者不会受玷污。

4.50.15

अधीत्य ब्राह्मणो वेदान्याजयेत यजेत वा ।
क्षत्रियो धनमाहृत्य यजेतैव न याजयेत् ॥ ४.५०.१५ ॥

婆罗门学习吠陀之后,可为他人主持祭祀,也可自行祭祀;刹帝利聚集财富后应自己祭祀,而不应为他人主持。

4.50.16

वैश्योऽधिगम्य वित्तानि वार्ताकर्माणि कारयेत् ॥ ४.५०.१६ ॥

吠舍获得财富之后,应从事商业和农耕之事。

4.50.17

शूद्रः शुश्रूषणं कुर्यात्रिषु वर्णेषु नित्यशः ।
वन्दनायोगविधिभिर्वैतसीं वृत्तिमाश्रितः ॥ ४.५०.१७ ॥

首陀罗应当始终侍奉其余三种姓,遵循礼敬与奉行的规则,依从卑微的生计。

4.50.18

वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् ।
प्रकुर्वन्ति महाभागा यज्ञान्सुविपुलानपि ॥ ४.५०.१८ ॥

遵循经典而行,即使得到这片大地,大福之人仍举行众多盛大的祭祀。

4.50.19

का जातिस्तेषु सूतेयं केऽपि मन्त्राः क्रियाश्च काः ।
केयं वर्णेषु या राज्ञो वक्तृभोक्तृनियन्तृषु ॥ ४.५०.१९ ॥

他们之中这个御者种姓是什么?它有什么咒语和什么仪式?在国王的种姓中,即说话者、享受者与统治者之中,这是哪一种姓?

4.50.20

दुर्योधनमभिप्रेक्ष्य कर्णं च कुरुसंसाद ।
अश्वत्थामा भृशं क्रुद्धो दुर्योधनमतर्जयत् ॥ ४.५०.२० ॥

阿湿伐塔曼在俱卢议会中望着难敌与迦尔纳,极为愤怒,于是斥责难敌。

4.50.21

प्राप्य द्यूतेन को राज्यं क्षत्रियः स्तोष्टुर्महति ।
तथा नृशंसरूपोयं धार्तराष्ट्रश्च निर्घृणः ॥ ४.५०.२१ ॥

在大会上,哪一位通过赌博获得王国的刹帝利值得称赞?而这位持国之子面目残暴,毫无怜悯。

4.50.22

तथाऽधिगम्य वित्तानि को विकत्थेद्विचक्षणः ।
निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा ॥ ४.५०.२२ ॥

这样获得财富之后,哪位智者还会夸耀?如同猎人那样以欺诈和诡计行事的人。

4.50.23

कतमद्द्वैरथं युद्धं यत्राजैषीर्धनञ्जयम् ।
नकुलं सहदेवं वा धनं येषां त्वया हृतम् ॥ ४.५०.२३ ॥

你在哪一场车战单挑中战胜了财主(阿周那)?或者,你夺走了无种与偕天的财富,又是在哪一次?

4.50.24

युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनांवरः ।
इन्द्रप्रस्थं त्वया कस्मिन्संग्रामे निर्जितं पुरा ॥ ४.५०.२४ ॥

坚战在哪一场(赌局或战斗)中失败?力大无穷的怖军又在何处?你从前在哪一场战斗中夺取了因陀罗补罗?

4.50.25

तथैव कतमद्युद्धं यस्मिन्कृष्णा जिता त्वया ।
एकवस्त्रा सभां नीता क्षुद्रकर्मन्रजस्वला ॥ ४.५०.२५ ॥

同样,你在哪一场掷骰之戏中赢得了黑天之女,并且让她仅着一衣、正值月经期,被带到大厅里,你这行为卑劣的人?

4.50.26

मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा ।
क्षुद्रं कर्म समास्थाय तत्र किं विदुरोऽब्रवीत् ॥ ४.५०.२६ ॥

如同寻求心材的人砍断檀香树的大根,你行了卑劣之事,斩断了他们的大根。那时维杜罗说了什么?

4.50.27

यथाशक्ति मनुष्याणाममर्षं लक्षयामहे ।
अन्येषामपि सत्वानामपि कीटपिपीलिकैः ॥ ४.५०.२७ ॥

依各自的力量,我们看到人类有愤怒,其他有情众生也有,甚至虫与蚂蚁也有。

4.50.28

द्रौपद्याः संपरिक्लेशं न क्षन्तुं पाण्डवोऽर्हति ।
क्षयाय धार्तराष्ट्राणां प्रादुर्भूतो धनञ्जयः ॥ ४.५०.२८ ॥

般度之子不应忍受德劳帕蒂的极大折磨;阿周那(财主)降生,正是为了毁灭持国之子。

4.50.29

त्वं पुनः पण्डितो भूत्वा ह्याचार्यं क्षेप्तुमिच्छसि ।
वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति ॥ ४.५०.२९ ॥

你又装作智者,想要侮辱师尊(德罗纳);但终结仇怨的胜者阿周那,不会给我们留下任何残余。

4.50.30

नैव देवा न गन्धर्वा नासुरा न च राक्षसाः ।
भयादिह न युद्ध्येरन्पाण्डुपुत्रेण धीमता ॥ ४.५०.३० ॥

无论天神、乾闼婆、阿修罗还是罗刹,即便出于恐惧,也不会在此与般度的智慧之子交战。

4.50.31

यं यमेकोपि संक्रुद्धः संग्रामे निपतिष्यति ।
वृक्षं गरुडवद्वेगाद्विनिहत्यान्तमेष्यति ॥ ४.५०.३१ ॥

无论谁,哪怕只有一人,在战场上愤怒地扑向他,他都会以迦楼罗般的速度将其如树木般击倒,并走向自己的终结。

4.50.32

त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् ।
वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् ॥ ४.५०.३२ ॥

谁能不敬重那位在勇力上胜过你、在弓术上与天王相等、在战斗中与婆苏提婆相同的般度之子呢?

4.50.33

देवं दैवेन युद्ध्येत मानुपेण च मानुपम् ।
अस्त्रं ह्यस्त्रेण यो हन्यात्कोऽर्जुनेन समः पुमान् ॥ ४.५०.३३ ॥

神可与神战,人可与人战;但谁是能以武器击武器、与阿周那相等的人呢?

4.50.34

पुत्रादनवमः शिष्य इति धर्मविदो विदुः ।
एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः ॥ ४.५०.३४ ॥

知法者说:弟子不逊于儿子;也因这个缘故,般度子深受德罗纳所爱。

4.50.35

यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाऽहरः ।
यथाऽनैषीः सभां कृष्णां तथा युध्यस्व पाण्डवं ॥ ४.५०.३५ ॥

正如你设下赌局、夺取因陀罗普拉斯塔、将黑天之女拖入议会那样,现在就去与般度子作战吧。

4.50.36

अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः ।
दुर्द्यूतदेवी गान्धारः शकुनिर्युद्ध्यतामिह ॥ ४.५०.३६ ॥

让你的这位舅父、智慧而精通刹帝利之法、擅长恶赌的犍陀罗人沙恭尼在此作战吧。

4.50.37

नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च ।
ज्वलतो निशितान्बाणांस्तांस्तान्क्षिपति गाण्डिवं ॥ ४.५०.३७ ॥

甘狄拔弓不掷骰子,不是吉多,也不是德瓦帕拉。它只射出燃烧的锐利箭矢,正是那些箭。

4.50.38

न हि गाण्डीवनिर्मुक्ता गृध्रपक्षाः सुतेजनाः ।
नान्तरेष्ववतिष्ठन्ते गिरीणामपि दारणाः ॥ ४.५०.३८ ॥

从甘狄拔弓射出的、以秃鹫羽为翎、磨得锋利的箭,即使在山的裂缝中也不停留,它们连山都能穿透。

4.50.39

अन्तकः पवनो मृत्युस्तथाऽग्निर्बडवामुखः ।
कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः ॥ ४.५०.३९ ॥

阎摩、风、死神,以及马口火,或许会在某处留下一些;但愤怒的达难闍耶不留下任何东西。

4.50.40

यथा सभायां द्यूतं त्वं मातुलेन महाकरोः ।
तथा युद्धस्व संग्रामे सौबलेन सुरक्षितः ॥ ४.५०.४० ॥

你在大殿中与舅舅博弈,伟大的行者啊,如今便在战场上,在苏跋罗之子的护佑下战斗吧。

4.50.41

युद्ध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जयम् ।
मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवांपदम् ॥ ४.५०.४१ ॥

老师愿意怎样战斗就怎样战斗吧;我不会与达难闍耶作战。若马特亚王来到牛牧之地,那我们便须与他交战。