Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.52

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.52.1

कलाः काष्ठाश्च युज्यन्ते मुहूर्ताश्च दिनानि च ।
अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा ॥ ४.५२.१ ॥

时分(kalā)与时段(kāṣṭhā)、须臾(muhūrta)与日,半月与月,宿与行星,同样相互配合计算。

4.52.2

ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि ।
एवं कालविभागेन कालचक्रं प्रवर्तते ॥ ४.५२.२ ॥

季节也同样相互配合,年岁亦然。如此,由时间的划分,时轮便运转不息。

4.52.3

तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात् ।
पञ्चमे पञ्चमे वर्षे द्वौ मासावधिमासकौ ॥ ४.५२.३ ॥

由于时间的盈余与星辰的偏差,每五年便会出现两个闰月。

4.52.4

एषामभ्यधिका मासाः पञ्च च द्वादश क्षपाः ।
त्रयोदशानां वर्षाणामिति मे वर्तते मतिः ॥ ४.५२.४ ॥

其额外的月为五个月加十二夜;这是我对十三年而言的看法。

4.52.5

पूर्वेद्युरेव निर्वृत्तस्ततो बीभत्सुरागतः ॥ ४.५२.५ ॥

前一日事已完成,于是毗婆蹉(阿周那)归来。

4.52.6

सर्वं यथावच्चरितं यद्यदेभिः प्रतिश्रुतम् ।
एवमेतद्भ्रुवं ज्ञात्वा ततो बीभत्सुरागतः ॥ ४.५२.६ ॥

他们所许下的诺言,一切都如实完成;确知此事之后,毗婆蹉(阿周那)便归来了。

4.52.7

सर्वे पञ्च महात्मानः सर्वे धर्मार्थकोविदाः ।
येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः ॥ ४.५२.७ ॥

五人皆为大德,皆通达法与利;其王为坚战,他们为何会在法上有所违犯?

4.52.8

कामात्क्रोधाच्च लोभाच्च कामक्रोधभयादपि ।
स्नेहाद्वा यदि वा मोहाद्धर्मं नात्येति धर्मजः ॥ ४.५२.८ ॥

无论因欲、因怒、因贪,或因欲、怒与惧,甚至因情爱或因迷惑,法之子都不违背法。

4.52.9

अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम् ।
न चापि केवलं राज्यमिच्छेयुस्ते ह्यधर्मतः ॥ ४.५२.९ ॥

昆提之子不贪,且曾行难行之事;他们不会以非法之道单单贪求王国。

4.52.10

तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः ।
धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् ॥ ४.५२.१० ॥

那时,这些库卢之子急欲施展勇力,但受法之绳所缚,他们并未背离刹帝利之誓。

4.52.11

यश्चानृत इति ख्यातः स च गच्छेत्पराभवम् ।
वृणुयुर्माणं पार्था नानृतत्वं कथंचन ॥ ४.५२.११ ॥

被称为虚妄者,将走向败亡;普利塔之子会选择名誉,绝不会以任何方式选择虚妄。

4.52.12

प्राप्ते तु काले स्वानर्थान्नोत्सृजेयुर्नरर्षभाः ।
अपि वज्रभृता गुप्तांस्तथावीर्या हि पाण्डवाः ॥ ४.५२.१२ ॥

时机到来时,这些人中之牛不会舍弃自己的厄运;即使受持金刚者守护,般度之子的勇力也并不逊色。

4.52.13

प्रतियुद्ध्येम समरे सर्वशस्त्रभृतांवरम् ॥ ४.५२.१३ ॥

在战斗中,我们将与所有持武器者中最优秀的人对抗。

4.52.14

तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम् ।
तत्संविधीयतां शीघ्रं मा वो ह्यर्थोऽभ्यगात्परम् ॥ ४.५२.१४ ॥

因此,世间善人所行的善事,应迅速安排妥当,免得你们的目的远去。

4.52.15

न हि पश्यामि संग्रामे कदाचिदपि कौरव ।
एकान्तसिद्धिं राजेन्द्र संप्राप्तश्च धनञ्जयः ॥ ४.५२.१५ ॥

俱卢子孙啊,我从未见战场上有人获得彻底的成功;而国王之王啊,财富征服者(阿周那)已经获得了它。

4.52.16

संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ ।
अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् ॥ ४.५२.१६ ॥

战斗一旦爆发,存活与死亡、胜利与失败,其中之一必定降临于双方;这是无可置疑地见过的。

4.52.17

तस्माद्युद्धोपचरितं कर्म वा धर्मसंहितम् ।
क्रियतामाशु राजेन्द्र संप्राप्तश्च धनञ्जयः ॥ ४.५२.१७ ॥

因此,应迅速行那合乎战法或合于法的行为;国王之王啊,财富征服者(阿周那)已经到来。

4.52.18

एको हि समरे पार्थः पृथिवीं निर्दहेच्छरैः ।
भ्रातृभिः सहितो भूत्वा किं पुनः कौरवान्रणे । ॥ ४.५२.१८ ॥

在战场上,单独一位普利塔之子便能以箭焚烧大地;何况与兄弟们联合,在战斗中对付俱卢子孙呢?

4.52.19

तस्मात्सन्धिं कुरुश्रेष्ठ कुरुष्व यदि मन्यसे ।
नाहं राज्यं प्रदास्यामि पाण्डवेभ्यः पितामह।
ग्रामं सेनां च दासांश्च स्वल्पं द्रव्यमपि प्रभो ।
युद्धोपचारिकं यत्तु तत्सर्वं संविधीयताम् ॥ ४.५२.१९ ॥

因此,库鲁之最,若你以为妥当,便议和吧。祖父啊,我不会把王国交给般度五子。主啊,哪怕一个村庄、一支军队、仆役或少许财物——让一切战事所需都安排妥当吧。

4.52.20

भीष्मस्योपरते वाक्ये तथा दुर्योधनस्य च ।
प्राप्तमर्थ्यं च यद्वाक्यं द्रोणश्वाह द्विजोत्तमः ॥ ४.५२.२० ॥

待毗湿摩与难敌之言止息,婆罗门中最优者德罗纳也说了合宜而有意义的话。

4.52.21

यत्तु युद्धोपचरितं भवेद्वा धर्मसंहितम् ।
कस्त्वया सदृशो लोके भूयस्त्वं वक्तुमर्हसि ॥ ४.५२.२१ ॥

凡属作战之礼或合于法(dharma)者,世上有谁能与你相比,可再次说出?

4.52.22

अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते ।
सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन ॥ ४.५२.२२ ॥

此中有我自己的见解,若你愿意,请听之。库鲁之欢喜者啊,我无论如何都应说出最有益的话。

4.52.23

राजा बलचतुर्भागं क्षिप्रमादाय गच्छतु ।
ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु ।
वयं चार्धेन सैन्यस्य प्रतियोत्स्याम पाण्डवम् ॥ ४.५२.२३ ॥

愿国王迅速率领军队的四分之一离去;然后另一个四分之一带着牛群离去。而我们将率领半数军队与般度之子作战。

4.52.24

अहं भीष्मश्च कर्णश्च अश्वत्थामा कृपस्तथा ।
प्रतियोत्स्याम बीभत्सुमागतं कृतनिश्चयम् ॥ ४.५२.२४ ॥

我、毗湿摩、迦尔纳、阿湿缚他摩,以及同样的克里帕,将与带着坚定决心而来的毗跋差(阿周那)作战。

4.52.25

एवं राजा सुगुप्तः स्यान्न क्लैब्यं गन्तुमर्हति ।
मत्स्यं वा पुनरायातमथवापि शतक्रतुम् ।
अहमावारयिष्यामि वेलेव मकरालयम् ॥ ४.५२.२५ ॥

如此,国王应当得到妥善保护,他不应走向怯懦之路。无论摩差国王重新归来,还是帝释天(因陀罗)亲自前来,我都将阻挡他们,正如海岸阻挡大海。

4.52.26

तद्वाक्यं रुरुचे तेषां द्रोणेनोक्तं महात्मना ।
तथाहि कृतवान्राजा कौरवाणामनन्तरम् ॥ ४.५२.२६ ॥

这番由大德德罗纳所说的话使他们感到满意。因此,俱卢族中随后的国王也照此行事。

4.52.27

भीष्मः प्रस्थाप्य राजानं गोधनं तदनन्तरम् ।
सेनामुख्यान्व्यवस्थाप्य व्यूहितुं संप्रचक्रमे ॥ ४.५२.२७ ॥

毗湿摩在送走国王和随后的牛群之后,安排了军中的主要将领,便开始排列军队布成阵形。

4.52.28

द्रोणस्योपरते वाक्ये भीष्मः प्रोवाच बुद्धिमान् ।
आचार्य मध्ये तिष्ठ त्वमश्वत्थामा तु सव्यतः।
कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् ॥ ४.५२.२८ ॥

德罗纳说完之后,智慧的毗湿摩说道:"老师,您站在中央;让阿湿缚他摩在左边,让智慧的沙罗陀婆多之子克里帕守护右翼。"

4.52.29

विकर्णश्च महावीर्यो दुर्मुखश्च परन्तपः ।
शकुनिः सौबलश्चैव दुःसहश्च महाबलः ।
द्रोणस्य पार्श्वमजिताः पालयन्तु महाबलाः ॥ ४.५२.२९ ॥

威勇的毗迦尔那、焚烧敌人的杜尔穆喀、苏跋罗之子沙恭尼,以及大力的杜沙诃——愿这些不可战胜的大力者守护德罗纳的侧翼。

4.52.30

अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः ।
अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् ॥ ४.५२.३० ॥

愿御者之子迦尔纳披甲立于前方;我则立于后方,护卫全军。

4.52.31

सर्वे महारथाः शूरा महेष्वासा महाबलाः ।
युद्ध्यन्तु पाण्डवश्रेष्ठमागतं यत्नतो युधि ॥ ४.५२.३१ ॥

愿所有大车将、英雄、大弓手和大力战士,小心地与前来交战的般度诸子中的最优者作战。

4.52.32

अभेद्यं परसैन्यानां व्यूहं व्यूह्य कुरूत्तमः ।
वज्रगर्भं व्रीहिमुखं पद्मचन्द्रार्धमण्डलम् ॥ ४.५२.३२ ॥

为敌军布下坚不可摧的阵形后,库鲁之最构成了名为“金刚心”“稻穗头”“莲花”与“半月圆”的阵法。

4.52.33

तस्य व्यूहस्य पश्चार्धे भीष्मश्चाथोद्यतायुधः ।
सौवर्णं तालमुच्छ्रित्य रथे तिष्ठन्नशोभत ॥ ४.५२.३३ ॥

在该阵的后半部,毗湿摩手持举起的兵器,立于战车之上,高举金色的多罗树旗,光彩夺目。