Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.116

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.116.1

हर्यश्वस्त्वब्रवीद्राजा विचिन्त्य बहुधा ततः ।
दीर्घमुष्णं च निःश्वस्य प्रजाहेतोर्नृपोत्तमः ॥ ५.११६.१ ॥

哈里耶什瓦王反复思量之后,长长地、热烈地叹了一口气,为了子嗣,这位最杰出的国王说道。

5.116.2

उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु सप्तसु ।
गम्भीरा त्रिषु गम्भीरेष्वियं रक्ता च पञ्चसु ॥ ५.११६.२ ॥

在六处高于高者,在七处细于细者,在三处深于深者,在五处泛红。

5.116.3

बहुदेवासुरालोका बहुगन्धर्वदर्शना ।
बहुलक्षणसम्पन्ना बहुप्रसवधारिणी ॥ ५.११६.३ ॥

为众多天神和阿修罗所见,为众多乾达婆所瞻仰,具足众多吉相,能孕育众多子嗣。

5.116.4

समर्थेयं जनयितुं चक्रवर्तिनमात्मजम् ।
ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम ॥ ५.११६.४ ॥

此女能够生下一位转轮王之子。婆罗门中的最优者啊,请考虑我的财力,说出聘礼。

5.116.5

एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे ।
हयानां चन्द्र शुभ्राणां देशजानां वपुष्मताम् ॥ ५.११६.५ ॥

一方面,给我八百匹耳朵黑色、洁白如月、本地出产、身体俊美的马。

5.116.6

ततस्तव भवित्रीयं पुत्राणां जननी शुभा ।
अरणीव हुताशानां योनिरायतलोचना ॥ ५.११६.६ ॥

那时,她将成为你诸子的吉祥之母,这位大眼女子将是生育之源,犹如摩擦取火木是祭火之源。

5.116.7

एतच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः ।
उवाच गालवं दीनो राजर्षिरृषिसत्तमम् ॥ ५.११६.७ ॥

国王哈里耶什瓦听闻此言,为欲望所迷,沮丧地对王仙、最优秀的仙人伽拉瓦说道。

5.116.8

द्वे मे शते संनिहिते हयानां यद्विधास्तव ।
एष्टव्याः शतशस्त्वन्ये चरन्ति मम वाजिनः ॥ ५.११६.८ ॥

我这里已备好二百匹马,正是你所需之种;我另有成百匹马在四处游荡,也可去寻。

5.116.9

सोऽहमेकमपत्यं वै जनयिष्यामि गालव ।
अस्यामेतं भवान्कामं सम्पादयतु मे वरम् ॥ ५.११६.९ ॥

伽拉瓦啊,我将从她那里生育一个孩子。愿你满足我这个愿望,这个恩赐。

5.116.10

एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत् ।
मम दत्तो वरः कश्चित्केनचिद्ब्रह्मवादिना ॥ ५.११६.१० ॥

少女听到这话,对伽拉瓦说道:“有某位梵语仙人已赐予我一项恩典。”

5.116.11

प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि ।
स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान् ॥ ५.११६.११ ॥

分娩之后你仍将是处女。因此,收下这些上等的马,把我交给国王吧。

5.116.12

नृपेभ्यो हि चतुर्भ्यस्ते पूर्णान्यष्टौ शतानि वै ।
भविष्यन्ति तथा पुत्रा मम चत्वार एव च ॥ ५.११६.१२ ॥

从四位国王那里,你将获得整整八百匹马;而我也将有四个儿子。

5.116.13

क्रियतां मम संहारो गुर्वर्थं द्विजसत्तम ।
एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज ॥ ५.११६.१३ ॥

"愿我的职责为师尊而完成,二生者中最优秀的人啊。这是我目前的想法;婆罗门啊,请依你认为合适的去做。"

5.116.14

एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा ।
हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत् ॥ ५.११६.१४ ॥

被如此称呼后,仙人迦罗婆便与那少女一同对大地的守护者哈里亚什瓦说了这些话。

5.116.15

इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम् ।
चतुर्भागेन शुल्कस्य जनयस्वैकमात्मजम् ॥ ५.११६.१५ ॥

"人中之英,哈里亚什瓦,请接受这位少女,并以彩礼的四分之一为酬,从她生下一个儿子。"

5.116.16

प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च ।
समये देशकाले च लब्धवान्सुतमीप्सितम् ॥ ५.११६.१६ ॥

接受了那位少女并感谢迦罗婆之后,他在适当的时间和地点得到了所愿的儿子。

5.116.17

ततो वसुमना नाम वसुभ्यो वसुमत्तरः ।
वसुप्रख्यो नरपतिः स बभूव वसुप्रदः ॥ ५.११६.१७ ॥

随后,那位名叫婆苏摩那的国王降生了,他比诸婆苏更富有,与婆苏相似,是施予财富的人。

5.116.18

अथ काले पुनर्धीमान्गालवः प्रत्युपस्थितः ।
उपसंगम्य चोवाच हर्यश्वं प्रीतमानसम् ॥ ५.११६.१८ ॥

随后,到了时候,智慧的迦罗婆再次来到,走近心情愉快的哈里亚什瓦,对他说道。

5.116.19

जातो नृप सुतस्तेऽय बालभास्करसंनिभः ।
कालो गन्तुं नरश्रेष्ठ भिक्षार्थमपरं नृपम् ॥ ५.११६.१९ ॥

大王,您的这个儿子已经降生,如同初升的太阳。人中之杰啊,现在是去向另一位国王乞食的时候了。

5.116.20

हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे ।
दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः ॥ ५.११६.२० ॥

哈里亚什瓦坚守真实之言,也坚守男子之勇。因马匹稀少,他又把摩陀维施舍出去了。

5.116.21

माधवी च पुनर्दीप्तां परित्यज्य नृपश्रियम् ।
कुमारी कामतो भूत्वा गालवं पृष्ठतोऽन्वगात् ॥ ५.११६.२१ ॥

摩陀维又一次舍弃了光辉的王家荣华,因欲念成为少女,跟随在伽拉瓦身后。

5.116.22

त्वय्येव तावत्तिष्ठन्तु हया इत्युक्तवान्द्विजः ।
प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम् ॥ ५.११६.२२ ॥

婆罗门说:"且让这些马暂时留在你这里。"于是他与少女一同前往人主提沃达萨。