Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.141

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.141.1

असंशयं सौहृदान्मे प्रणयाच्चाथ केशव ।
सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च ॥ ५.१४१.१ ॥

毫无疑问,克舍婆,你出于对我的亲爱、情谊与友谊,也出于希望我得益之心而这样说,哦,婆利什尼之后。

5.141.2

सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः ।
निश्चयाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे ॥ ५.१४१.२ ॥

这一切我都清楚:依据法,我是般度的儿子,克里希纳,正如你依据法典的确定之说所认为的那样。

5.141.3

कन्या गर्भं समाधत्त भास्करान्मां जनार्दन ।
आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत् ॥ ५.१४१.३ ॥

哦,阇那陀那,一位少女从太阳那里受孕;依太阳之言,我出生后,她便将我抛弃了。

5.141.4

सोस्मि कृष्ण तथाजातः पाण्डोः पुत्रोस्मि धर्मतः ।
कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा ॥ ५.१४१.४ ॥

哦,克里希纳,我就是这样的人;这样出生的我,依法是般度之子。但贡蒂抛弃了我,这并不好。

5.141.5

सूतो हि मामधिरथो दृष्ट्वैवाभ्यानयद्गृहान् ।
राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन ॥ ५.१४१.५ ॥

车夫阿德希拉陀见到我,便立即将我带回家;哦,摩豆苏丹那,他出于情谊,把我交给了罗陀。

5.141.6

मत्स्नेहाच्चैव राधायां सद्यः क्षीरमवातरत् ।
सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव ॥ ५.१४१.६ ॥

因为对我的爱,乳汁立即在罗陀身上流下;哦,摩陀婆,她接受了我的小便与大便。

5.141.7

तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् ।
धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः ॥ ५.१४१.७ ॥

像我这样一个通晓法、常年专心听闻法典的人,怎能为她举行去除祭团的仪式呢?

5.141.8

तथा मामभिजानाति सूतश्चाधिरथः सुतम् ।
पितरं चाभिजानामि तमहं सौहृदात्सदा ॥ ५.१४१.८ ॥

如此,御者阿提拉陀视我为他的儿子,而我因为深情,也始终以他为父。

5.141.9

स हि मे जातकर्मादि कारयामास माधव ।
शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन ॥ ५.१४१.९ ॥

摩陀婆啊,正是他出于对儿子的爱,依照经典所载的规则为我举行了诞生等仪式,遮那达那啊。

5.141.10

नाम वै वसुषेणेति कारयामास वै द्विजैः ।
भार्याश्चोढा मम प्राप्ते यौवने तत्परिग्रहात् ॥ ५.१४१.१० ॥

他通过婆罗门为我取名为婆苏舍那;待我成年之时,又由他安排,我娶了妻子。

5.141.11

तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन ।
तासु मे हृदयं कृष्ण संजातं कामबन्धनम् ॥ ५.१४१.११ ॥

我从她们那里生下了儿子和孙子,遮那达那啊;克里希那啊,我的心因欲望的纽带而系于她们之中。

5.141.12

न पृथिव्या सकलया न सुवर्णस्य राशिभिः ।
हर्षाद्भयाद्वा गोविन्द मिथ्या कर्तुं तदुत्सहे ॥ ५.१४१.१२ ॥

无论是为了整个大地,还是为了成堆的黄金,或是出于喜悦或恐惧,哥文达啊,我都没有勇气使它成为虚假。

5.141.13

धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् ।
मया त्रयोदशसमा भुक्तं राज्यमकण्टकम् ॥ ५.१४१.१३ ॥

克里希那啊,在持国的家族中,依靠难敌的庇护,我享受了十三年无刺之国。

5.141.14

इष्टं च बहुभिर्यज्ञैः सहसूतैर्मयाऽसकृत् ।
आवाहाश्च विवाहाश्च सहसूतैर्मया कृताः ॥ ५.१४१.१४ ॥

我多次与萨哈苏特们一同举行许多祭祀,也与他们一同主持了迎请之礼和婚礼。

5.141.15

मां च कृष्ण समासाद्य कृतः शस्त्रसमुद्यमः ।
दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः ॥ ५.१४१.१५ ॥

克里希那啊,难敌来到我这里,备起了兵器;伐瑞什尼的后裔啊,与般度五子也起了争端。

5.141.16

तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत ।
वृतवान्परमं कृष्ण प्रतीपं सव्यसाचिनः ॥ ५.१४१.१६ ॥

因此,不可退者啊,克里希那,他选定我作为萨维亚萨钦的对手,作为战场上一对一决斗的最高对手。

5.141.17

वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन ।
अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः ॥ ५.१४१.१७ ॥

生人主啊,不论因死亡、因束缚、因恐惧,甚至因贪婪,我都不愿为聪明的持国之子而行虚妄。

5.141.18

यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना ।
अकीर्तिः स्याद्धृपीकेश मम पार्थस्य चोभयोः ॥ ५.१४१.१८ ॥

今天若我不与萨维亚萨钦进行一对一的决斗,希瑞昔吉舍啊,那么我和普利塔之子两人都将蒙受耻辱。

5.141.19

असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन ।
सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः ॥ ५.१४१.१९ ॥

摩杜苏陀那啊,你应无疑地为了善意而说;般度之子们既受你的驾驭,必会做一切——毫无疑问。

5.141.20

मन्त्रस्य नियमं कुर्यास्त्वमत्र मधुसूदन ।
एतदत्र हितं मन्ये सर्वं यादवनन्दन ॥ ५.१४१.२० ॥

摩杜苏陀那啊,在此议事中你当有所节制;我认为这在此是有益的——耶达瓦们的喜乐啊,愿一切如此。

5.141.21

यदि जानाति मां राजा धर्मात्मा संयतेन्द्रियः ।
कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति ॥ ५.१४१.२१ ॥

若那位心怀正法、诸根调伏的国王知道我是贡蒂的长子,他便不会接受王国。

5.141.22

प्राप्य चापि महद्राज्यं तदहं मधुसूदन ।
स्फीतं दुर्योधनायैव संप्रदद्यामरिन्दम ॥ ५.१४१.२२ ॥

摩杜苏陀那啊,即便获得那广大繁盛的王国,我也会把它交给难敌——降伏敌人者啊。

5.141.23

स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः ।
नेता यस्य हृषीकेशो योद्धा यस्य धनञ्जयः ॥ ५.१४१.२३ ॥

愿那位心怀正法的国王坚战长存——其导师是希利凯莎,其勇士是持财者(阿周那)。

5.141.24

पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः ।
नकुलः सहदेवश्च द्रौपदेयाश्च माधव ॥ ५.१४१.२४ ॥

地土与王国属于那位大车勇士为毗摩者;那拿古拉、沙诃提婆与德劳帕蒂之子们也都属于他——摩陀婆啊。

5.141.25

धृष्टद्युम्नश्च पाञ्चाल्यः सात्यकिश्च महारथः ।
उत्तमौजा युधामन्युः सत्यधर्मा च सौमकिः ॥ ५.१४१.२५ ॥

般遮罗的持护、大车战士萨谛奇、乌塔玛奥佳斯、犹陀摩尤,以及苏摩迦之子萨蒂亚达摩。

5.141.26

चैद्यश्च चेकितानश्च शिखण्डी चापराजितः ।
इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा।
इन्द्रायुधसवर्णश्च कुन्तिभोजो महामनाः ॥ ५.१४१.२६ ॥

赤第亚、切基塔纳、湿乞万帝、无敌者,颜色如因陀罗虫的盖迦耶诸兄弟,以及如同因陀罗之杵的大心者昆提菩阇。

5.141.27

मातुलो भीमसेनस्य श्येनजिच्च महारथः ।
शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन ॥ ५.१४१.२७ ॥

毗摩之舅、大车战士室耶那吉,毗罗吒之子商佉,以及你,遮那陀那,乃是宝藏。

5.141.28

महानयं कृष्ण कृतः क्षत्रस्य समुदानयः ।
राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु ॥ ५.१४१.२८ ॥

克里希那啊,这是刹帝利的大集结已经形成;这光耀而著名的王国已在诸王之中获得。

5.141.29

धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति ।
अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन ॥ ५.१४१.२९ ॥

瓦史尼之裔啊,持国之子将举行一场兵器祭;遮那陀那啊,你将成为这场祭祀的知者。

5.141.30

आध्वर्यवं च ते कृष्ण ऋतावस्मिन्भविष्यति ।
होता चैवात्र बीभत्सुः सन्नद्धः स कपिध्वजः ॥ ५.१४१.३० ॥

克里希那啊,在此时节,你将担任祭司阿德瓦尔尤;而在此处,祭司霍塔将是披甲的比毗特苏,那持猴旗者。

5.141.31

गाण्डीवं स्रुक् तथा चाज्यं वीर्यं पुंसां भविष्यति ।
ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव ।
मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना ॥ ५.१४१.३१ ॥

摩陀婆啊,甘狄拔弓将是圣勺,酥油亦然;人的威力将成为供品。因陀罗神、帕苏帕塔、梵天和斯图纳迦尔纳的武器将成为咒语,由善用双手的阿周那施放。

5.141.32

अनुयातश्च पितरमधिको वा पराक्रमे ।
गीतं स्तोत्रं स सौभद्रः सम्यक् तत्र भविष्यति ॥ ५.१४१.३२ ॥

那追随父亲、勇力与父亲相当或更胜于父亲的,苏跋德拉之子(阿毗摩尼瑜),将在那里完善地成为歌咏与赞颂。

5.141.33

उद्गातात्र पुनर्भीमः प्रस्तोता सुमहाबलः ।
विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे ॥ ५.१४१.३३ ॥

这里,比摩将再次成为歌者,那位大力的赞者;那人中之虎在战场上吼叫,将成为摧毁象军的人。

5.141.34

स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः ।
जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति ॥ ५.१४१.३४ ॥

那位法魂的国王坚战,常以诵咒与献祭相随,将在那里担任梵师的职责。

5.141.35

शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन ।
उत्कृष्टः सिंहनादश्च सुब्रह्मण्यो भविष्यति ॥ ५.१४१.३५ ॥

摩图苏陀那啊,那里将有海螺之声、与鼓相伴的大鼓、至上的狮吼,以及苏婆罗摩尼耶的呼唤。

5.141.36

नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ ।
शामित्रं तौ महावीर्यौ सम्यक् तत्र भविष्यतः।
तौ मैत्रावरुणाग्नीध्रौ महावीर्यौ भविष्यतः ॥ ५.१४१.३६ ॥

无种与偕天,摩德丽的两位著名之子,将在那里充任沙弥特拉祭司;这两位大勇士将在那里如法地各司其职。这两位大勇士将成为迈特拉伐拉那与阿格尼德拉祭司。

5.141.37

कल्माषदण्डा गोविन्द विमला रथपङ्क्तयः ।
यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन ॥ ५.१४१.३७ ॥

哦,戈文达,哦,诃那陀那!愿在这场祭祀中,以斑点杆的洁净车阵备作祭柱。

5.141.38

कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः ।
तोमराः सोमकलशाः पवित्राणि धनूंषि च ॥ ५.१४१.३८ ॥

带倒钩的、月牙形的与铁制的箭,犊牙箭,以及长矛,愿成为苏摩壶;弓则成为净化之器。

5.141.39

असयोऽत्र कपालानि पुरोडाशाः शिरांसि च ।
हविस्तु रुधिरं कृष्ण तस्मिन्यज्ञे भविष्यति ॥ ५.१४१.३९ ॥

这里的刀剑将成为颅器,头颅成为祭饼;哦,黑天,在那场祭祀中,血本身就是供品。

5.141.40

इध्माः परिधयश्चैव शक्तयो विमला गदाः ।
सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥ ५.१४१.४० ॥

此处将有燃火柴、围柴,以及长矛与洁净的铁锤;德罗纳的弟子与沙罗婆多之子克里帕将成为祭会的执事。

5.141.41

इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना ।
महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः ॥ ५.१४१.४१ ॥

此处由挽持甘狄拔弓者射出的箭矢,将成为神圣的散布草;大车战士所发、被德罗纳与德罗尼所驱使的箭矢亦然。

5.141.42

प्रतिप्रास्थानिकं कर्म सात्यकिस्तु करिष्यति ।
दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः ॥ ५.१४१.४२ ॥

沙提奇将行预备祭仪;持国之子将在此受灌顶成为受戒者,他的妻子则是庞大的军队。

5.141.43

घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः ।
अतिरात्रे महाबाहो वितते यज्ञकर्मणि ॥ ५.१४१.४३ ॥

此处,大力的迦托特迦将执行屠牲官之职。啊,大臂者,在广大的阿提拉特拉祭礼中。

5.141.44

दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् ।
वैतानिके कर्ममुखे जातो यत्कृष्ण पावकात् ॥ ५.१४१.४४ ॥

此祭礼的布施,便是威猛的德利史塔尤摩那,啊黑天,他是在吠陀祭火仪式之初从火中诞生的。

5.141.45

यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान् ।
प्रियार्थं धार्तराष्ट्रस्य तेन तप्ये ह्यकर्मणा ॥ ५.१४१.४५ ॥

啊黑天,我为了讨好持国之子,曾对般度五子说过刻薄的话。因这错误的行为,我确实懊悔不已。

5.141.46

यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना ।
पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति ॥ ५.१४१.४६ ॥

啊黑天,当你看见我被左手神箭手阿周那所杀时,那时此祭礼的火坛将再次建立。

5.141.47

दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः ।
आनर्दं नर्दतः सम्यक् तदा सूयं भविष्यति ॥ ५.१४१.४७ ॥

当般度之子(婆罗多)饮下难降的血并且痛快地咆哮时,那时苏耶祭便会完成。

5.141.48

यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः ।
तदा यज्ञावसानं तद्भविष्यति जनार्दन ॥ ५.१४१.४८ ॥

当两位般遮罗者——德利史塔尤摩那与希坎迪——击倒德罗纳与毗湿摩时,啊遮那陀那,那祭礼便将结束。

5.141.49

दुर्योधनं यदा हन्ता भीमसेनो महाबलः ।
तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव ॥ ५.१४१.४९ ॥

当大力的毗摩娑那杀死难敌时,持国之子的这场祭祀便将结束,摩陀婆啊。

5.141.50

स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य सङ्गताः ।
हतेश्वरा नष्टपुत्रा हतनाथाश्च केशव ॥ ५.१४१.५० ॥

持国的媳妇与孙媳们聚集一处,她们的夫主已被杀,儿子已亡,失去了依靠,克舍婆啊。

5.141.51

रुदन्त्यः सहगान्धार्या श्वगृध्रकुरराकुले ।
स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन ॥ ५.१४१.५१ ॥

与甘陀利一同哭泣,在满是狗、秃鹫与鹭鸟的战场上,那便是这场祭祀的阿婆陀沐浴,遮那陀那啊。

5.141.52

विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ ।
वृथा मृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन ॥ ५.१४१.५२ ॥

愿以学识与年岁为尊的刹帝利们,不要为你之故而徒然招致死亡,刹帝利中的雄牛啊,摩图苏陀那。

5.141.53

शस्त्रेण निधनं गच्छेत्समृद्धं क्षत्रमण्डलम् ।
करुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव ॥ ५.१४१.५३ ॥

愿兴盛的刹帝利群体死于兵刃之下,于三界中最为神圣的俱卢之野,克舍婆啊。

5.141.54

तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् ।
यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात् ॥ ५.१४१.५४ ॥

因此,莲目者啊,请在此行你所愿,使整个刹帝利阶层都能升入天界,毗湿尼之后啊。

5.141.55

यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन ।
तावत्कीर्तिभवः शब्दः शाश्वतोयं भविष्यति ॥ ५.१४१.५५ ॥

janārdana啊,只要山岳与河流长存,由名声所生的这一声誉便将永世长存。

5.141.56

ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम् ।
समागमेषु वार्ष्णेय क्षत्रियाणां यशोधनम् ॥ ५.१४१.५६ ॥

vārṣṇeya啊,婆罗门将在集会中讲述这场大婆罗多之战;它是刹帝利们以名誉为财富的见证。

5.141.57

समुपानय कौन्तेयं युद्धाय मम केशव ।
मन्त्रसंवरणं कुर्वन्नित्यमेव परन्तप ॥ ५.१४१.५७ ॥

keśava啊,为了战斗,请把俱卢族子(阿周那)带到我这里来。paran-tapa啊,做这件事时要始终对谋略保密。