摩诃婆罗多 · 章 5.142
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.142.1
कर्णस्य वचनं श्रुत्वा केशवः परवीरहा ।
उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं यथा ॥ ५.१४२.१ ॥
克尔纳的话语入耳后,击杀敌方英雄的克舍婆笑着,带着微笑这样说道。
5.142.2
अपि त्वां न लभेत्कर्ण राज्यलम्भोपपादनम् ।
मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि ॥ ५.१४२.२ ॥
迦尔纳啊,你不愿统治我所赐予的大地;因此,获得王国的途径或许永远不会属于你。
5.142.3
ध्रुवो जयः पाण्डवानामितीदं ।
न संशयः कश्चन विद्यतेऽत्र।
जयध्वजो दृश्यते पाण्डवस्य ।
समुच्छ्रितो वानरराज उग्रः । ॥ ५.१४२.३ ॥
般度之子的胜利是确定的,此事毫无疑问。可以看到般度之子的胜利旗高高升起,上面立着凶猛的猴王。
5.142.4
दिव्या माया विहिता भौमनेन ।
समुच्छ्रिता इन्द्रकेतुप्रकाशाः ।
दिव्यानि भूतानि जयावहानि ।
दृश्यन्ति चैवात्र भयानकानि ॥ ५.१४२.४ ॥
这种神圣的幻术由跋摩所创造;如因陀罗之旗般高高升起、闪耀的事物显现出来。这里还可以看到带来胜利的神圣生灵,以及可怖的形象。
5.142.5
न सञ्जते शैलवनस्पतिभ्य ।
ऊर्ध्वं तिर्यग्योजनमात्ररूपः ।
श्रीमान्ध्वजः कर्ण धनञ्जयस्य ।
समुच्छ्रितः पावकतुल्यरूपः ॥ ५.१४२.५ ॥
迦尔纳啊,这是财富征服者(阿周那)光辉的旗帜;它不会挂在山岳和树木上。向上和向两侧,它有一由旬之长,以如火的形态高高升起。
5.142.6
यदा द्रक्ष्यसि सङ्ग्रामे श्वेताश्वं कृष्णसारथिम् ।
ऐन्द्रमस्त्रं विकुर्वाणमुभे चाप्यग्निमारुते ॥ ५.१४२.६ ॥
当你在战斗中看到那位驾着白马、以克里希那为御者、施展因陀罗之箭以及火与风两种神箭的人时——
5.142.7
गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः ।
न तदा भविता त्रेता न कृतं द्वापरं न च ॥ ५.१४२.७ ॥
甘狄拔弓的轰鸣,如同霹雳炸响;那时既无特雷塔时代,也无克利塔时代,亦无德瓦帕拉时代。
5.142.8
यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम् ।
जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम् ॥ ५.१४२.८ ॥
当你在战场上看见昆提之子坚战,他正诵念咒语、供奉火祭,守护自己的庞大军队时。
5.142.9
आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् ।
न तदा भविता त्रेता न कृतं द्वापरं न च ॥ ५.१४२.९ ॥
如太阳般不可抵挡,灼烧敌军;那时既无特雷塔时代,也无克利塔时代,亦无德瓦帕拉时代。
5.142.10
यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महाबलम् ।
दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे ॥ ५.१४२.१० ॥
当你在战场上看见大力的毗摩森那,饮了难降的血,在战阵中跳舞时。
5.142.11
प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् ।
न तदा भविता त्रेता न कृतं द्वापरं न च ॥ ५.१४२.११ ॥
如发情的象王,击杀敌对之象;那时既无特雷塔时代,也无克利塔时代,亦无德瓦帕拉时代。
5.142.12
यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम् ।
सुयोधनंच राजानं सैन्धवं च जयद्रथम् ॥ ५.१४२.१२ ॥
当你在战场上看见德罗纳、珊塔努之子毗湿摩、克里帕、国王难敌,以及信度王胜车时。
5.142.13
युद्धायापततस्तूर्णं वारितान्सव्यसाचिना ।
न तदा भविता त्रेता न कृतं द्वापरं न च ॥ ५.१४२.१३ ॥
当他们急速冲向战场、被左手神箭手(阿周那)所阻时,那时既无特蕾塔时代,也无克利塔时代,更无德瓦帕拉时代。
5.142.14
यदा द्रक्ष्यसि सङ्ग्रामे माद्रीपुत्रौ महाबलौ ।
वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव ॥ ५.१४२.१४ ॥
当你在战场上看见玛德丽的两位大力之子,如同两头大象,搅乱持国之子们的军队时。
5.142.15
विगाढे शस्त्रसंपाते परवीररथारुजौ ।
न तदा भविता त्रेता न कृतं द्वापरं न च ॥ ५.१४२.१५ ॥
当兵器猛烈相撞,他们击碎敌方英雄的战车时,那时既无特蕾塔时代,也无克利塔时代,更无德瓦帕拉时代。
5.142.16
ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम् ।
सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः ॥ ५.१४२.१६ ॥
迦尔纳啊,你从这里前去告诉德罗纳、山吞努之子(毗湿摩)和克里帕:这是宜人的月份,大麦与柴薪都很充足。
5.142.17
सर्वौषधिवनस्फीतः फलवानल्पमक्षिकः ।
निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः ॥ ५.१४२.१७ ॥
草木繁茂,遍布各种药草的森林,果实丰饶,蚊蝇稀少,无泥泞,水味甘美,不过热也不过冷,宜人。
5.142.18
सप्तमाच्चापि दिवसादमावास्या भविष्यति ।
सङ्ग्रामो युज्यतां तस्यां तामाहुः शक्रदेवताम् ॥ ५.१४२.१८ ॥
从第七天起将是新月之夜。应在那一天开战,人们称那天为因陀罗神的日子。
5.142.19
तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः ।
यद्वो मनीषितं तद्वै सर्वं संपादयाम्यहम् ॥ ५.१४२.१९ ॥
你应当这样告诉所有为战争而来的诸王:你们所想要的一切,我都会全部为你们实现。
5.142.20
राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।
प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् ॥ ५.१४२.२० ॥
顺从难敌之意的诸王与王子,将因兵器而死,并获得至高的归宿。