摩诃婆罗多 · 章 5.143
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.143.1
केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् ।
अब्रवीदभिसंपूज्य कृष्णं तं मधुसूदनम् ॥ ५.१४३.१ ॥
迦尔纳听了克沙瓦那有益而吉祥的话,极为尊敬地向摩图苏陀那(杀摩图者)黑天说道:
5.143.2
जानन्मां किं महाबाहो संमोहयितुमिच्छसि ।
योयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः ॥ ५.१४३.२ ॥
大臂者啊,你既然了解我,为何还想迷惑我?大地的全面毁灭now已经来临。
5.143.3
निमित्तं तत्र शकुनिरहं दुःशासनस्तथा ।
दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् ॥ ५.१४३.३ ॥
其中的原因是沙恭尼、我自己、难敌之弟难降,以及持国之子国王难敌。
5.143.4
असंशयमिदं कृष्ण महद्युद्धमुपस्थितम् ।
पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् ॥ ५.१४३.४ ॥
黑天啊,毫无疑问,这场大战已经降临——般遮五子与俱卢族之间,血泥满地的可怕战斗。
5.143.5
राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।
रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् ॥ ५.१४३.५ ॥
服从难敌之命的诸王与王子,将在战场上被兵器之火焚烧,前往阎摩之处。
5.143.6
स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन ।
निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः ॥ ५.१४३.६ ॥
摩图苏陀那啊,许多可怕的梦境出现了,同样出现的还有可怕的征兆与极其骇人的凶兆。
5.143.7
पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे ।
संसन्त इव वार्ष्णेय विविधा रोमहर्षणाः ॥ ५.१४३.७ ॥
啊,筏尔施涅耶,各种令人毛骨悚然的征兆出现,仿佛预示着持国之子的失败与坚战的胜利。
5.143.8
प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः ।
शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम् ॥ ५.१४३.८ ॥
凶猛而极为明亮的行星土星折磨着属于生主的星宿,使众生遭受极大的苦难。
5.143.9
कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन ।
अनुराधां प्रार्थयते मैत्रं संगमयन्निव । ॥ ५.१४३.९ ॥
啊,摩豆须陀那,火星在长者宿中逆行,仿佛促成友好的结合,去追求安努罗陀宿。
5.143.10
नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् ।
विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः ॥ ५.१४३.१० ॥
啊,克利希那,俱卢族必定已遭遇大的危险;啊,筏尔施涅耶,尤其有一颗行星正在折磨吉特拉宿。
5.143.11
सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपैति च ।
दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकंपनाः ॥ ५.१४३.११ ॥
月亮的标记已经逆转,罗睺逼近太阳;这些流星从天空坠落,伴随着雷鸣与震动。
5.143.12
निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः ।
पानीयं यवसं चापि नाभिनन्दन्ति माधव ॥ ५.१४३.१२ ॥
啊,摩达婆,大象哀鸣,骏马流泪;它们连水和草料也不感到喜悦。
5.143.13
प्रादुर्भूतेषु चैतेषु भयमाहुरुपास्थितम् ।
निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् ॥ ५.१४३.१३ ॥
当这些显现时,人们说恐惧已临近;这些征兆,啊大臂者,是众生毁灭的可怖预兆。
5.143.14
अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते ।
वाजिनां वारणानां च मनुष्याणां च केशव ॥ ५.१४३.१४ ॥
虽然吃得很少,这里却看到大量马、象和人的粪便,啊科莎瓦。
5.143.15
धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन ।
पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः ॥ ५.१४३.१५ ॥
啊摩图苏陀那,在持国诸子的一切军队中,这是失败的征兆,智者如是说。
5.143.16
प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते ।
प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् ॥ ५.१४३.१६ ॥
啊黑天,人们说般度五子的坐骑欢喜;鹿向右转——这是他们胜利的征兆。
5.143.17
अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव ।
वाचश्चाप्यशरीरिण्यस्तकत्पराभवलक्षणम् ॥ ५.१४३.१७ ॥
啊科莎瓦,持国诸子的鹿全都向左转,又听到无形的声音——这是失败的征兆。
5.143.18
मयूराः पुण्यशकुना हंससारसचातकाः ।
जीवञ्जीवकसङ्घाश्चाप्यनुगच्छन्ति पाण्डवान् ॥ ५.१४३.१८ ॥
孔雀、吉祥的占卜之鸟、天鹅、鹤和遮答鸟,以及一群群的命命鸟,都跟随着般度五子。
5.143.19
गृध्राः कङ्का बकाः श्येना यातुधानास्तथा वृकाः ।
मक्षिकाणां च सङ्घाता अनुधावन्ति कौरवान् ॥ ५.१४३.१९ ॥
秃鹫、干迦鸟、鹤、鹰、食人鬼与狼,以及成群的苍蝇,都追逐着俱卢人。
5.143.20
धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निःस्वनः ।
अनाहताः पाण्डवानां नदन्ति पटहाः किल ॥ ५.१४३.२० ॥
在持国之子的军队中没有大鼓的声音;然而般度之子的鼓,未被敲击,却确实在轰鸣。
5.143.21
उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा ।
धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् ॥ ५.१४३.२१ ॥
井水也像公牛一样咆哮;在持国之子的军队中,这便是他们失败的征兆。
5.143.22
मांसशोणितवर्षं च वृष्टं देवेन माधव ।
तथा गन्धर्वनगरं भानुमत्समुपस्थितम् ॥ ५.१४३.२२ ॥
摩陀婆啊,神降下了血肉之雨;同样,乾闼婆城也出现在太阳近旁。
5.143.23
सप्राकारं सपरिखं सवप्रं चारुतोरणम् ।
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति ॥ ५.१४३.२३ ॥
它有城墙、护城河、土垒和美丽的门楼;那里,一道黑色的闩柱矗立着,环绕着太阳。
5.143.24
उदयास्तमने संध्ये वेदयन्ती महद्भयम् ।
शिवा च वाशते घोरं तत्पराभवलक्षणम् ॥ ५.१४३.२४ ॥
日出与日落的黄昏预示着巨大的恐惧,豺狼凄厉地嚎叫——这便是他们失败的征兆。
5.143.25
एकपक्षाक्षिचरणाः पक्षिणो मधुसूदन ।
उत्सृजन्ति महद्धोरं तत्पराभवलक्षणम् ॥ ५.१४३.२५ ॥
摩图苏陀,独翼、独目、独足的鸟发出巨大可怖的叫声,这是败亡的征兆。
5.143.26
कृष्णग्रीवाश्च शकुना रक्तपादा भयानकाः ।
सन्ध्यामिमुखा यान्ति तत्पराभवलक्षणम् ॥ ५.१४३.२६ ॥
黑颈红足的可怖鸟类面向黄昏而去,这是败亡的征兆。
5.143.27
ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन ।
भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् ॥ ५.१४३.२७ ॥
摩图苏陀,他首先憎恶婆罗门和师长,甚至憎恶忠诚的仆人,这是败亡的征兆。
5.143.28
पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा ।
आमपात्रप्रतीकाशा पश्चिमा मधुसूदन। ॥ ५.१४३.२८ ॥
东方呈血红之色,南方呈兵器之色;西方如未烧的陶瓮,摩图苏陀。
5.143.29
उत्तरा शङ्खवर्णाभा दिशां वर्णा उदाहृताः ।
प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव। ॥ ५.१४३.२९ ॥
北方呈贝壳般的光泽;这便是诸方的颜色。摩陀婆啊,持国之子的一切方位都在燃烧。
5.143.30
महद्भयं वेदयन्ति तस्मिन्नुत्पातदर्शने ।
सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः। ॥ ५.१४३.३० ॥
在这些凶兆的显现中,它们预示着巨大的恐惧;梦的尽头,坚战看见了一座千足的宫殿。
5.143.31
अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ।
श्वेतोष्णीषाश्च दृश्यन्ते सर्वे वै शुक्लवाससः । ॥ ५.१४३.३१ ॥
阿周那啊(不朽者),我梦见自己与兄弟们一起登上了它;众人都头戴白巾,身穿白衣。
5.143.32
आसनानि च शुभ्राणि सर्वेषामुपलक्षये ।
तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला । ॥ ५.१४३.३२ ॥
我也看见了众人光亮的座位;克里希那啊,梦的末尾,我看见你的(大地)被鲜血玷污。
5.143.33
आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ।
अस्थिसञ्चयमारूढश्चामितौजा यधिष्ठिरः । ॥ ५.१४३.३३ ॥
札那尔达那啊,我看见大地被肠子环绕;我看见无量威力的坚战登上了白骨堆。
5.143.34
सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् ।
युधिष्ठिरो मया दृष्टो ग्रसमानो वसुन्धराम्। ॥ ५.१४३.३४ ॥
我看见坚战欢喜地用金器吃着酥油粥,吞噬着大地。
5.143.35
उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः ।
गदापाणिर्नरव्याघ्रो ग्रसन्निव महीमिमाम् ॥ ५.१४३.३५ ॥
可怕行为的狼腹(怖军),手持铁杖,人中虎,登上高山,仿佛要吞噬这大地。
5.143.36
क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे ।
विदितं मे हृषीकेश श्रिया परमया ज्वलन् ॥ ५.१४३.३६ ॥
他必将在大战中毁灭我们所有人;希利什格什啊,这一点我明白无疑——他以至高的光辉而闪耀。
5.143.37
पाण्डुरं गजमारूढो गाण्डीवी स धनञ्जयः ।
त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् ॥ ५.१४३.३७ ॥
骑着白象的甘提婆弓手达那阳阇耶,与你一同闪耀着至高的光辉,哦,希利世吉舍。
5.143.38
यूयं सर्वे वधिष्यध्वं तत्र मे नास्ति संशयः ।
पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् ॥ ५.१४३.३८ ॥
在那场战斗中你们都将杀死他们,对此我毫无怀疑,哦,克里希纳——那些以难敌为首的国王。
5.143.39
नकुलः सहदेवश्च सात्यकिश्च महारथः ।
शुक्लकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः ॥ ५.१४३.३९ ॥
那古拉、萨哈德瓦、萨提亚基和大车战士——佩戴白色臂钏与颈甲,披着白色花环与衣衫。
5.143.40
अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् ।
त्रय एते मया दृष्टाः पाण्डुरच्छत्रवाससः ॥ ५.१४३.४० ॥
骑在上好的人力车上,这三位人中之虎我已看见,他们撑着白伞、身穿白衣。
5.143.41
श्वेतोष्णीषाश्च दृश्यन्ते त्रय एते जनार्दन ।
धार्तराष्ट्रेषु सैन्येषु तान्विजानीहि केशव ॥ ५.१४३.४१ ॥
哦,阇那陀那,这三人头戴白色头巾可见。在持国之子的军队中,认出他们吧,哦,柯舍婆。
5.143.42
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः ॥ ५.१४३.४२ ॥
马德沙、克里帕,以及萨特瓦塔族的克里塔瓦尔玛——哦,摩陀婆,所有国王都头戴红色头巾可见。
5.143.43
उष्ट्रप्रयुक्तमारूढौ भीष्मद्रोणौ महारथौ ।
मया सार्धं महाबाहो धार्तराष्ट्रेण वा विभो ॥ ५.१४३.४३ ॥
毗湿摩与德罗纳两位大车将,乘坐以骆驼驾驶的战车,或与我同行,或与持国之子同行,啊大臂者,啊主宰。
5.143.44
अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन ।
अचिरेणैव कालेन प्राप्स्यामो यमसादनम् ॥ ५.१४३.४४ ॥
啊,斯卡达那,我们已朝阿伽斯提亚所主宰的方向而去;不久,在适当的时候,我们将抵达阎摩的居所。
5.143.45
अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् ।
गाण्डिवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः ॥ ५.१४३.४५ ॥
我与其他诸王,以及那刹帝利之群,将步入甘狄拔弓之火;此事我毫无疑问。
5.143.46
अपस्थितविनाशेयं नूनमद्य वसुंधरा ।
यथा हि मे वचः कर्ण नोपैति हृदयं तव ॥ ५.१४३.४६ ॥
今日此大地必定近于毁灭,因为啊迦尔纳,我的话并未进入你的心。
5.143.47
सर्वेषां तात भूतानां विनाशे प्रत्युपस्थिते ।
अनयो नयसङ्काशो हृदयान्नापसर्पति ॥ ५.१४३.४७ ॥
亲爱的,当一切众生的毁灭临近时,像是正道的非法,不会离开心头。
5.143.48
अपि त्वां कृष्ण पश्यामो जीवन्तोऽस्मान्महारणात् ।
समुत्तीर्णा महाबाहो वीरक्षत्रविनाशनात् ॥ ५.१४३.४८ ॥
啊克里希那,或许我们将存活,度过这场大战与英勇刹帝利的毁灭,再来见你,啊大臂者。
5.143.49
अथवा सङ्गमः कृष्ण स्वर्गे नो भविता ध्रुवम् ।
तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ ॥ ५.१४३.४९ ॥
否则,黑天啊,我们在天上必定会相会;在那里,我们现在将再次与你相聚,无瑕的人啊。
5.143.50
इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् ।
विसर्जितः केशवेन रथोपस्थादवातरत् ॥ ५.१४३.५० ॥
说完这些,迦尔纳拥抱了悲伤的摩陀婆;受到केशव的告别后,他从战车座位上走了下来。
5.143.51
ततः स्वरथामस्थाय जाम्बूनदविभूषितम् ।
महात्मा वै निववृते राधेयो दीनमानसः ॥ ५.१४३.५१ ॥
随后,大德的罗陀耶登上装饰着赡部金的自己的战车,怀着沮丧的心情返回。
5.143.52
ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः ।
पुनरुच्चारयन्वाणीं याहि याहीति सारथिम् ॥ ५.१४३.५२ ॥
随后,केशव与萨谛奇突然更加迅速地前行,一再对御者说:“驾车前进,驾车前进!”