摩诃婆罗多 · 章 5.155
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.155.1
व्युष्टायां वै रजन्यां हि राजा दुर्योधनस्ततः ।
व्यभजत्तान्यनिकानि दश चैकं च भारत ॥ ५.१५५.१ ॥
夜幕破晓之时,国王难敌将那支军队分为十一个部分,婆罗多的后裔啊。
5.155.2
नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च ।
सर्वेष्वेतेष्वनीकेषु सन्दिदेश नराधिपः ॥ ५.१५५.२ ॥
人主在所有这些部队中,分派了人、象、车、马中的上等、中等和下等者。
5.155.3
सानुकर्षाः सतूणीराः सवरूथाः सतोमराः ।
सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सहर्ष्टयः । ॥ ५.१५५.३ ॥
带有牵引绳、箭袋、甲罩、长矛、箭袋带、枪、剑鞘与利剑。
5.155.4
सध्वजाः सपताकाश्च सशरासनतोमराः ।
रज्जुभिश्च विचित्राभिः सपाशाः सपरिच्छदाः ॥ ५.१५५.४ ॥
带有旗帜、旌旗、弓与长矛,以及杂色绳索、套索和装备。
5.155.5
सकचग्रहविक्षेपाः सतैलगुडवालुकाः ।
साशीविषघटाः सर्वे ससर्जरसपांसवः ॥ ५.१५५.५ ॥
皆备有拽发投掷之器、油、糖蜜与沙子、毒蛇之瓮、树脂与粉末。
5.155.6
सघण्टफलकाः सर्वे सायोगुडजलोपलाः ।
सशालभिन्दिपालाश्च समधूच्छिष्टमुद्गराः ॥ ५.१५५.६ ॥
皆备有铃与盾,铁器、糖蜜水与石块,沙罗矛、边迪帕拉投枪与蜂蜡木棒。
5.155.7
सकाण्डदण्डकाः सर्वे ससीरविषतोमराः ।
सशूर्पपिटकाः सर्वे सदात्राङ्कुशतोमराः ॥ ५.१५५.७ ॥
人人都持有箭与棍棒;人人都持有犁头、毒药与标枪;人人都持有簸箕与筐篮;人人都持有镰刀、驱象钩与标枪。
5.155.8
सकीलकवचाः सर्वे वाशीवृक्षादनान्विताः ।
व्याघ्रचर्मपरीवारा द्वीपिचर्मावृताश्च ते ॥ ५.१५५.८ ॥
人人身披钉饰铠甲;人人持有斧头与伐木之器;他们身上环绕着虎皮,覆盖着豹皮。
5.155.9
सहर्ष्टयः सश्रृङ्गाश्च सप्रासविविधायुधाः ।
सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः ॥ ५.१५५.९ ॥
有铁头的棍棒、号角、长矛以及种种其他兵器;还有斧头、铁锹、油、丝绸与酥油。
5.155.10
रुक्मजालप्रतिच्छन्ना नानामणिविभूषिताः ।
चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः ॥ ५.१५५.१० ॥
他们披着金网,饰以种种宝石,列成各式军阵,身形俊美,光耀如燃烧的火焰。
5.155.11
तथा कवचिनः शूराः शस्त्रेषु कृतनिश्चयाः ।
कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः ॥ ५.१५५.११ ॥
同样,披甲的勇士们在兵器上立定志向,出身高贵,熟知马匹的种类,被委派担任御者。
5.155.12
बद्धारिष्टा बद्धकक्षा बद्धध्वजपताकिनः ।
बद्धाभरणनिर्यूहा बद्धचर्मासिपट्टिशाः ॥ ५.१५५.१२ ॥
护身符系紧,腰带束牢,旗帜与幡旗绑定,饰物排列有序,盾牌、长剑与短刀都系紧了。
5.155.13
चतुर्युजो रथाः सर्वे सर्वे चोत्तमवाजिनः ।
सप्रासऋष्टिकाः सर्वे सर्वे शतशरासनाः ॥ ५.१५५.१३ ॥
所有战车都套着四匹马,所有马都是上等良驹;所有战车都配备了长矛与ṛṣṭi,并且都携带着数百张弓。
5.155.14
धुर्ययोर्हकययोरेकस्तथान्यौ पर्ष्णिसारथी ।
तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा ॥ ५.१५५.१४ ॥
两匹辕马中的一位,另外两位是后方的御者;这两人也是战车武士中的佼佼者,而战士与精通马术者同样如此。
5.155.15
नगराणीव गुप्तानि दुराधर्षाणि शत्रुभिः ।
आसन्रथसहस्राणि हेममालीनि सर्वशः ॥ ५.१५५.१५ ॥
它们如同城池般受到守护,敌人无法攻破;到处都是装饰着金色花环的数千辆战车。
5.155.16
यथा रथास्तथा नागा बद्धकक्षाः स्वलङ्कृताः ।
बभूवुः सप्तपुरुषा रत्नवन्त इवाद्रयः ॥ ५.१५५.१६ ॥
正如有战车,也有大象,它们系紧了腹带,装饰精美;每头象上有七个人,如同满载宝石的山峰。
5.155.17
द्वावङ्कुशधरौ तत्र द्वावुत्तमधनुर्धरौ ।
द्वौ वरासिधरौ राजन्नेकः शक्तिपिनाकधृत् ॥ ५.१५५.१७ ॥
其中两人持刺棒,两人持上好的弓,两人持精良的剑,大王;还有一人持长矛与毗那迦弓。
5.155.18
गजैर्मत्तैः समाकीर्णं सर्वमायुधकोशकैः ।
तद्बभूव बलं राजन्कौरव्यस्य महात्मनः ॥ ५.१५५.१८ ॥
那支军队满是发狂的大象和所有的武器库,大王,属于大德的俱卢族之王。
5.155.19
आमुक्तकवचैर्युक्तैः सपताकैः स्वलङ्कृतैः ।
सादिभिश्चोपपन्नास्तु तथा चायुतशो हयाः ॥ ५.१५५.१९ ॥
还有成万的马匹,披着铠甲,套好鞍具,饰以旗帜,装饰精美,并配有骑士。
5.155.20
असङ्ग्राहाः सुसंपन्ना हेमभाण्डपरिच्छदाः ।
अनेकशतसाहस्राः सर्वे सादिवशे स्थिताः ॥ ५.१५५.२० ॥
数不胜数,装备精良,配有金饰马具,多达数十万,全都听命于骑士而立。
5.155.21
नानारूपविकाराश्च नानाकवचशस्त्रिणः ।
पदातिनो नरास्तत्र बभूवुर्हेममालिनः ॥ ५.१५५.२१ ॥
那里有步兵,外貌形态各异,穿戴各式铠甲、手持各样兵器,身佩金色花环。
5.155.22
रथस्यासन्दश गजा गजस्य दश वाजिनः ।
नरा दश हयस्यासन्पादरक्षाः समन्ततः ॥ ५.१५५.२२ ॥
每辆战车配十头象,每头象配十匹马,每匹马配十名步行护卫,四面八方皆然。
5.155.23
रथस्य नागाः पञ्चाशन्नागस्यासञ्शतं हयाः ।
हयस्य पुरुषाः सप्त भिन्नसन्धानकारिणः ॥ ५.१५५.२३ ॥
每辆战车配五十头象,每头象配一百匹马,每匹马配七人,他们负责冲破并重整阵列。
5.155.24
सेना पञ्चशतं नागा रथास्तावन्त एव च ।
दशसेना च पृतना पृतना दश वाहिनी ॥ ५.१५५.२४ ॥
一军(senā)有五百头象和同样数量的战车;十军为一支 pṛtanā,十支 pṛtanā 为一支 vāhinī。
5.155.25
सेना च वाहिनी चैव पृतना ध्वजिनी चमूः ।
अक्षौहिणीति पर्यायैर्निरुक्ता च वरूथिनी ॥ ५.१५५.२५ ॥
军队(senā)、军团(vāhinī)、步兵(pṛtanā)、旗阵(dhvajinī)与战车军(camū)——这些都是“阿克绍希尼”的同义词,还有“瓦卢希尼”也是。
5.155.26
एवं व्यूढान्यनीकानि कौरवेयेण धीमता ।
अक्षौहिण्यो दशैका च सङ्ख्याताः सप्त चैव ह ॥ ५.१५५.२६ ॥
如此,智慧的俱卢族人将军队布成阵列;阿克绍希尼被计为十一个与七个。
5.155.27
अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम् ।
अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम् ॥ ५.१५५.२७ ॥
般度子孙的兵力为七个阿克绍希尼,俱卢子孙的兵力为十一个阿克绍希尼。
5.155.28
नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते ।
सेनामुखं च तिस्रस्ता गुल्म इत्यभिशब्दितम् ॥ ५.१५५.२८ ॥
这一步卒单位(patti)规定为五十五人;三个这样的单位组成“前锋”(senāmukha),称为“古尔玛”(gulma)。
5.155.29
त्रयो गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन् ।
दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः ॥ ५.१५५.२९ ॥
三个古尔玛组成一个“甘那”(gaṇa),甘那可达万计;在难敌(Duryodhana)军中作战的打击之士便是如此编组的。
5.155.30
तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान् ।
प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा । ॥ ५.१५५.३० ॥
于是,大臂的国王难敌仔细审视了勇敢而有智慧的人,然后任命了军队的统帅。
5.155.31
पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान् ।
विधिवत्पूर्वमानीय पार्थिवानभ्यषेचयत् ॥ ५.१५५.३१ ॥
他先依礼召来各个阿克绍希尼军团的统帅,即人中最优秀者,然后为那些国王行了灌顶礼。
5.155.32
कृपं द्रोणं च शल्यं च सैन्धवं च जयद्रथम् ।
सुदक्षिणं च काम्भोजं कृतवर्माणमेव च ॥ ५.१५५.३२ ॥
还有克里帕、德罗纳、沙利耶、信度王胜车、憍萨罗王苏达克希那,以及克里塔瓦尔曼。
5.155.33
द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च ।
शकुनिं सौबलं चैव बाह्लीकं च महाबलम् ॥ ५.१५५.३३ ॥
德罗纳之子、迦尔纳,也包括布利什罗婆斯,苏巴拉之子沙恭尼,以及大力的跋希迦。
5.155.34
दिवसे दिवसे तेषां प्रतिवेलं च भारत ।
चक्रे स विविधाः पूजाः प्रत्यक्षं च पुनः पुनः ॥ ५.१५५.३४ ॥
婆罗多之后啊,他每日在约定的时刻,公开地、一再地向他们表示各种敬意。
5.155.35
तथा विनियताः सर्वे ये च तेषां पदानुगाः ।
बभूवुः सैनिका राज्ञां प्रियं राज्ञश्चिकीर्षवः ॥ ५.१५५.३५ ॥
同样,跟随他们的所有士兵都纪律严明,愿意使诸王和国王满意。