摩诃婆罗多 · 章 5.184
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.184.1
ततो रात्रौ व्यतीतायां प्रतिबुद्धोऽस्मि भारत ।
ततः संचिन्त्य वै स्वप्नमवापं हर्षमुत्तमम् ॥ ५.१८४.१ ॥
毗湿摩说:婆罗多啊,夜尽之后,我醒了过来。随后思量那个梦,我获得了无上的喜悦。
5.184.2
ततः समभवद्युद्धं मम तस्य च भारत ।
तुमुलं सर्वभूतानां रोमहर्षणमद्भुतम् ॥ ५.१८४.२ ॥
毗湿摩说:婆罗多啊,于是我与他展开了一场战斗,对一切众生而言喧嚣激烈,令人毛骨悚然,又十分奇异。
5.184.3
ततो बाणमयं वर्षं ववर्ष मयि भार्गवः ।
न्यवारयमहं तच्च शरजालेन भारत ॥ ५.१८४.३ ॥
于是婆利古之后向我倾下如雨的箭矢;婆罗多啊,我以箭网将其挡开。
5.184.4
ततः परमसंक्रुद्धः पुनरेव महातपाः ।
ह्यस्तनेन च कोपेन शक्तिं वै प्राहिणोन्मयि ॥ ५.१८४.४ ॥
于是这位大苦行者再度极为愤怒,怀着昨日的怒火,向我投出一支名为“力”的长矛。
5.184.5
इन्द्राशनिसमस्पर्शां यमदण्डसमप्रभाम् ।
ज्वलन्तीमग्निवत्सङ्ख्ये लेलिहानां समन्ततः ॥ ५.१८४.५ ॥
触感如因陀罗的雷电,光芒如阎摩之杖,在战场上如火燃烧,四面吐出舌焰。
5.184.6
ततो भरतशार्दूल धिष्ण्यमाकाशगं यथा ।
सा ममाभ्यवधीत्तूर्णं जत्रुदेशे कुरूद्वह ॥ ५.१८४.६ ॥
于是,婆罗多中的虎啊,它如天空中飞行的流星,迅速击中了我的锁骨部位,库鲁中最杰出的人啊。
5.184.7
अथास्रमस्रवद्धोरं गिरेर्गैरिकधातुवात् ।
रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण ॥ ५.१८४.७ ॥
于是,大臂者啊,被罗摩所伤的我,流出可怕的血,如同赤赭矿物的山岳。
5.184.8
ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः ।
चिक्षेप मृत्युसंकाशं बाणं सर्पविषोपमम् ॥ ५.१८४.८ ॥
于是,我怒火万丈,向耶摩陀那之子射出一支如同死亡、如同蛇毒的箭。
5.184.9
स तेनाभिहतो वीरो ललाटे द्विजसत्तमः ।
अशोभत महाराज शश्रृङ्ग इव पर्वतः ॥ ५.१८४.९ ॥
那位被击中的英雄,婆罗门中最优秀者,在额头上闪耀,大王啊,如同有山峰的山岳。
5.184.10
स संरब्धः समावृत्य शरं कालान्तकोपमम् ।
संदधे बलवत्कृष्य घोरं शत्रनिबर्हणम् ॥ ५.१८४.१० ॥
他愤怒地拉开并用力将那支如同时间终结者、摧毁敌人的可怕箭搭上弓弦。
5.184.11
स वक्षसि पापतोग्रः शरो व्याल इव श्वसन् ।
महीं राजंस्ततश्चाहमगमं रुधिराविलः ॥ ५.१८४.११ ॥
那支残酷锐利的箭如蛇般嘶嘶作响,射入我的胸膛;大王啊,于是我满身鲜血倒在地上。
5.184.12
संप्राप्य तु पुनः संज्ञां जामदघ्न्याय धीमते ।
प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव ॥ ५.१८४.१२ ॥
我重新恢复意识后,向智慧的耶摩陀那之子投出一支纯净、如霹雳般燃烧的长矛。
5.184.13
सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे ।
विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत् ॥ ५.१८४.१३ ॥
那武器落入那位婆罗门之首的臂弯之间。大王啊,他惊惶失措,颤抖袭上了他的身体。
5.184.14
तत एनं परिष्वज्य सखा विप्रो महातपाः ।
अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा ॥ ५.१८४.१४ ॥
随后,他的朋友、大苦行者婆罗门阿克利塔弗罗那拥抱了他,并用吉祥的话语以多种方式安慰他。
5.184.15
समाश्वस्तस्ततो रामः क्रोधामर्षसमन्वितः ।
प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः ॥ ५.१८४.१५ ॥
随后,罗摩重新镇定下来,充满愤怒与不满,这位大誓者便唤出了名为梵天之箭的至高神器。
5.184.16
ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम् ।
मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत् ॥ ५.१८४.१६ ॥
于是为了抵挡它,我发出了那殊胜的梵天之箭,它熊熊燃烧,仿佛显示着劫末的景象。
5.184.17
तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः ।
असंप्राप्यैव रामं च मां च भारतसत्तम ॥ ५.१८४.१७ ॥
婆罗多族中最优秀的人啊,那两道梵天之箭在中途相撞,既未触及罗摩,也未触及我。
5.184.18
ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम् ।
भूतानि चैव सर्वाणि जग्मुरार्तिं विशांपते ॥ ५.१८४.१८ ॥
于是天空中只显现出光焰,人主啊,一切众生都陷入了痛苦。
5.184.19
ऋषयश्च सगन्धर्वा देवताश्चैव भारत ।
संतापं परमं जग्मुरस्त्रतेजोभिपीडिताः ॥ ५.१८४.१९ ॥
婆罗多啊!仙人、乾达婆与天神都被武器的光辉所逼迫,陷入极大的痛苦。
5.184.20
ततश्चचाल पृथिवी सपर्वतवनद्रुमा ।
संतप्तानि च भूतानि विषादंक जग्मुरुत्तमम् ॥ ५.१८४.२० ॥
于是大地连同山岳、森林与树木一起震动,受煎熬的众生陷入极大的忧愁。
5.184.21
प्रजज्वाल नभो राजन्धूमायन्ते दिशो दश ।
न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा ॥ ५.१८४.२१ ॥
国王啊,天空燃烧起来,十方都被烟雾笼罩;在空中行走的众生那时无法停留在虚空之中。
5.184.22
ततो हाहाकृते लोके सदेवासुरराक्षसे ।
इदमन्तरमित्येवं मोक्तुकामोऽस्मि भारत ॥ ५.१८४.२२ ॥
那时,天神、阿修罗、罗刹与世间一片哀号,婆罗多啊,我心想:'此正是时机',于是决意放出武器。
5.184.23
प्रस्वापमस्त्रं त्वरितो वचनाद्ब्रह्मवादिनाम् ।
चिन्तितं च तदस्त्रं मे मनसि प्रत्यभात्तदा ॥ ५.१८४.२३ ॥
依靠梵语者的话语,我迅速想起了名为'昏睡'的武器,那武器此时便浮现在我的心中。