摩诃婆罗多 · 章 5.23
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.23.1
राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य सञ्जयः ।
उपप्लाव्यं ययौ द्रष्टुं पाण्डवानमितौजसः ॥ ५.२३.१ ॥
桑闍耶听完持国王的话,前往优波逻婆耶去见无量威力的般度五子。
5.23.2
स तु राजानमासाद्य कुन्तीपुत्रं युधिष्ठिरम् ।
अभिवाद्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत ॥ ५.२३.२ ॥
他走到国王、贡蒂之子坚战面前,先恭敬地行礼,然后开口说话,这位御者之子。
5.23.3
गवल्गणिः सञ्जयः सूतसूनु-
रजातशत्रुमवदत्प्रतीतः।
दिष्ट्या राजंस्त्वामरोगं प्रपश्ये ।
सहायवन्तं च महेन्द्रकल्पम् ॥ ५.२३.३ ॥
桑闍耶——嘎伐尔伽尼之子、御者之子——欣然对无敌者坚战说:“大王啊,幸运的是,我看到您身体康健,有盟友相伴,如同因陀罗一般。”
5.23.4
अनामयं पृच्छति त्वाम्बिकेयो ।
वृद्धो राजा धृतराष्ट्रो मनीषी ।
कच्चिद्भीमः कुशली पाण्डवाग्र्यो ।
धनञ्जयस्तौ च माद्रीतनूजौ ॥ ५.२३.४ ॥
年老而智慧的国王持国,阿姆比卡之子,问候您的安好。般度族中最优秀的怖军安好吗?财主以及摩德利的两个儿子也都安好吗?
5.23.5
कच्चित्कृष्णा द्रौपदी राजपुत्री ।
सत्यव्रता वीरपत्नी सुपुत्रा।
मनस्विनी यत्र च वाञ्छसि त्व-
मिष्टान्कामान्भारत स्वस्तिकामः ॥ ५.२३.५ ॥
公主、守信的黑天德罗波蒂,战士之妻,有好儿子,心志高远,她可安好?婆罗多啊,愿你所盼望的一切乐事,都与那愿你安康的她一同实现。
5.23.6
गावल्गणे सञ्जय स्वागतं ते ।
प्रीतात्माऽहं त्वाऽभिनन्दामि सूत।
अनामयं प्रतिमाने तवाहं ।
सहानुजैः कुशली चास्मि विद्वन् ॥ ५.२३.६ ॥
欢迎你,伽瓦尔伽纳之子桑阁耶。我心中欢喜,向你致意,御者啊。我想你是安好的;我与众弟弟也都安好,智者啊。
5.23.7
चिरादिदं कुशलं भारतस्य ।
श्रुत्वा राज्ञः कुरुवृद्धस्य सूत।
मन्ये साक्षाद्दृष्टमहं नरेन्द्रं ।
दृष्ट्वैव त्वां सञ्जय प्रीतियोगात् ॥ ५.२३.७ ॥
久别之后,听闻婆罗多王与库鲁长者安好的消息,御者啊,我仿佛亲眼见到了那位人主。桑阁耶,见到你,因情谊的牵系,我便有此感。
5.23.8
पितामहो नः स्थविरो मनस्वी ।
महाप्राज्ञः सर्वधर्मोपपन्नः।
सकौरव्यः कुशली तात भीष्मो ।
यथापूर्वं वृत्तिरस्त्यस्य कच्चित् ॥ ५.२३.८ ॥
我们的祖父毗湿摩,年高、心志高尚、大智慧、具足一切法度——亲爱的,他与俱卢族人一同安好吗?他的生活方式还和从前一样吗?
5.23.9
कच्चिद्राजा धृतराष्ट्रः सपुत्रो ।
वैचित्रवीर्यः कुशली महात्मा।
महाराजो बाह्लिकः प्रातिपेयः ।
कच्चिद्विद्वान्कुशली सूतपुत्र ॥ ५.२३.९ ॥
国王持国与他的诸子安好吗?毗至力耶的伟大之子安好吗?补罗第之子大王跋利迦安好吗?御者之子啊,那位智者安好吗?
5.23.10
स सोमदत्तः कुशली तात कच्चि-
द्भूरिश्रवाः सत्यसन्धः शलश्च।
द्रोणः सपुत्रश्च कृपश्च विप्रो ।
महेष्वासाः कच्चिदेतेऽप्यरोगाः ॥ ५.२३.१० ॥
亲爱的朋友,索摩达多安好吗?守信的薄荼罗室罗婆、沙利耶、与其子同在的德罗纳、婆罗门克利巴,这些大弓箭手是否无恙?
5.23.11
सर्वे कुरुभ्यः स्पृहयन्ति सञ्जय ।
धनुर्धरा ये पृथिव्यां प्रधानाः ।
महाप्रज्ञाः सर्वशास्त्रावदाता ।
धनुर्भृतां मुख्यतमाः पृथिव्याम् ॥ ५.२३.११ ॥
桑闪耶啊,大地上所有杰出的弓箭手都渴望与俱卢族为伍。他们智慧深广,精通一切典籍;在大地的弓手中,他们是最卓越的。
5.23.12
कच्चिन्मानं तात लभन्त एते ।
धनुर्भृतः कचिदेतेऽप्यरोगाः।
येषां राष्ट्रे निवसति दर्शनीयो ।
महेष्वासः शीलवान्द्रोणपुत्रः ॥ ५.२३.१२ ॥
亲爱的朋友,这些弓手是否得到尊重?他们是否也无恙?在那拥有俊美、有德、伟大弓手的德罗纳之子所居住的王国里,他们是否安然?
5.23.13
वैश्यापुत्रः कुशली तात कच्चित् ।
महाप्राज्ञो राजपुत्रो युयुत्सुः ।
कर्णो मानी कुशली तात कच्चित् ।
सुयोधनो यस्य मन्दो विधेयः ॥ ५.२३.१३ ॥
亲爱的朋友,吠舍女所生之子安好吗?那极具智慧的王子优由慈呢?亲爱的朋友,高傲的迦尔纳安好吗?还有愚钝、需要他人引导的苏由陀那呢?
5.23.14
स्त्रियो वृद्धा भारतानां जनन्यो ।
महादास्यो दासभार्याश्च सूत।
वध्वः पुत्रा भागिनेया भगिन्यो ।
दौहित्रा वा कच्चिदप्यव्यलीकाः ॥ ५.२३.१४ ॥
御者啊,婆罗多族的老妇人、母亲们、年长的女仆和奴仆的妻子、儿媳、儿子、外甥、姐妹以及外孙,是否都平安无恙?
5.23.15
कच्चिद्राजा ब्राह्मणानां यथावत् ।
प्रवर्तते पूर्ववत्तात वृत्तिम्।
कच्चिद्दायान्मामकान्धार्तराष्ट्रो ।
द्विजातीनां सञ्जय नोपहन्ति ॥ ५.२३.१५ ॥
亲爱的朋友,国王是否仍像从前那样妥善对待婆罗门?桑阁耶,持国王之子是否没有夺去我方人士的布施与再生族的生计?
5.23.16
कच्चिद्राजा धृतराष्ट्रः सपुत्र ।
उपेक्षते ब्राह्मणातिक्रमान्वै।
स्वर्गस्य कच्चिन्न तथा वर्त्मभूता-
मुपेक्षते तेषु सदैव वृत्तिम् ॥ ५.२३.१६ ॥
国王持国与其诸子是否忽视了对婆罗门的侵犯?对于那些作为天国之路的婆罗门,他是否始终以同样的漠视对待?
5.23.17
एतञ्ज्योतिश्चोत्तमं जीवलोके ।
शुक्लं प्रजानां विहितं विधात्रा।
ते चेद्दोषं न नियच्छन्ति मन्दाः ।
कृत्स्नो नाशो भविता कौरवाणाम् ॥ ५.२३.१७ ॥
这盏由造物主为世间众生所设的至上明亮之光,若那些愚人不制止过错,那么考拉瓦家族必将全部毁灭。
5.23.18
कच्चिद्राजा धृतराष्ट्रः सपुत्रो ।
बुभूषते वृत्तिममात्यवर्गे।
कच्चिन्न भेदेन जिजीविषन्ति ।
मुहृद्रूपा दुर्हृदश्चैकमत्यात् ॥ ५.२३.१८ ॥
国王持国与他的儿子们是否希望维持大臣集团的生计?那些以朋友面目出现的恶意之人,是否希望不生分裂、同心而生存?
5.23.19
कच्चिन्न पापं कथयन्ति तात ।
ते पाण्डवानां कुरवः सर्व एव।
द्रोणः सपुत्रश्च कृपश्च वीरो ।
नास्मासु पापानि वदन्ति कच्चित् ॥ ५.२३.१९ ॥
亲爱的,难道所有的俱卢人都不说关于般度子孙的恶语吗?与其子同在的德罗纳和英雄克利巴,难道不对我们说恶言吗?
5.23.20
कच्चिद्राज्ये धृतराष्ट्रं सपुत्रं ।
समेत्याहुः कुरवः सर्व एव।
कच्चिद्दृष्ट्वा दस्युसङ्घान्समेता-
न्स्मरन्ति पार्थस्य युधां प्रणेतुः ॥ ५.२३.२० ॥
俱卢人在国中聚集时,是否都谈论持国与他的儿子们?看见聚集的盗匪群,他们是否想起作为战争领袖的般度之子阿周那?
5.23.21
मौर्वीभुजाग्रप्रहितान्स्म तात ।
दोधूयमानेन धनुर्धरेण।
गाण्डीवनुन्नांस्तनयित्नुघोषा-
नजिह्मगान्कच्चिदनुस्मरन्ति ॥ ५.२३.२१ ॥
亲爱的,他们是否记得那些从臂端连同弓弦射出、由弓手挥动而发、由甘狄拔弓驱动、声如雷鸣、笔直不偏的箭?
5.23.22
न चापश्यं कंचिदहं पृथिव्यां ।
योधं समं वाऽधिकमर्जुनेन।
यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः ।
सुवाससः समंतो हस्तवापः ॥ ५.२३.२२ ॥
我在大地上未曾见过与阿周那相等或超过他的勇士;他那六十一支锋利、刃尖如剑、羽翎华美的箭,四面八方皆由手发射而出。
5.23.23
गदापाणिर्भीमसेनस्तरस्वी ।
प्रवेपयञ्छत्रुसङ्घाननीके।
नागः प्रभिन्न इव नङ्घलेषु ।
चंक्रम्यते कच्चिदेनं स्मरन्ति ॥ ५.२३.२३ ॥
手持铁杵、敏捷的怖军,在军阵中使敌军众队颤抖,如同发情的象在芦苇丛中漫步——人们是否仍然记得他?
5.23.24
माद्रीपुत्रः सहदेवः कलिङ्गान् ।
समागतानजयद्दन्तकूरे।
वामेनास्यन्दक्षिणेनैव यो वै ।
महाबलं कच्चिदेनं स्मरन्ति ॥ ५.२३.२४ ॥
摩德利之子偕天,在檀陀俱罗聚集的羯陵伽人中取得胜利,左右两手皆能射箭——人们是否仍然记得这位大力者?
5.23.25
पुरा जेतुं नकुलः प्रेषितोऽयं ।
शिबींस्त्रिगर्तान्सञ्जय पश्यतस्ते।
दिशं प्रतीचीं वशमानयन्मे ।
माद्रीसुतं कच्चिदेनं स्मरन्ति ॥ ५.२३.२५ ॥
往昔遣那古罗出征征服;桑闍耶,就在你的注视之下,他将尸毗人、三伽多人和西方之地归于我的掌控——人们是否仍然记得摩德利之子?
5.23.26
पराभवो द्वैतवने य आसी-
द्दुर्मन्विते घोपयात्रागतानाम् ।
यत्र मन्दाञ्छत्रुवशं प्रयाता-
नमोचयद्भीमसेनो जयश्च ॥ ५.२३.२६ ॥
在二林中的那次失败——因恶谋,我们这些出行巡视牛群的人落入敌人之手;在那里,怖军救出了我们这些愚人,并赢得了胜利。
5.23.27
अहं पश्चादर्जुनमभ्यरक्षं ।
माद्रीपुत्रौ भीमसेनोऽप्यरक्षत्।
गाण्डीवधन्वा शत्रुसङ्घानुदस्य ।
स्वस्त्यागमत्कच्चिदेनं स्मरन्ति ॥ ५.२३.२७ ॥
我从后方护卫阿周那,怖军护卫摩德利的两个儿子;持甘狄拔弓者驱散敌军众队,安然归来——人们是否仍然记得他?
5.23.28
न कर्मणा साधुनैकेन नूनं ।
सुखं शक्यं वै भवतीह सञ्जय ।
सर्वात्मना परिजेतुं वयं चे-
न्न शक्नुमो धृतराष्ट्रस्य पुत्रम् ॥ ५.२३.२८ ॥
萨阳阇耶啊,此处单凭一桩善行必定无法获得幸福;若我们竭尽全力仍无法战胜持国之子。