摩诃婆罗多 · 章 5.31
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.31.1
उत सन्तमसन्तं वा बालं वृद्धं च सञ्जय ।
उताबलं बलीयांसं धाता प्रकुरुते वशे ॥ ५.३१.१ ॥
桑闍耶啊,无论善人或恶人,孩童或老人,弱者或强者,造物主都使他们臣服于其权下。
5.31.2
उत बालाय पाण्डित्यं पण्डितायोत बालताम् ।
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥ ५.३१.२ ॥
主宰预先决定,将学问赐予愚人,将愚昧赐予智者;一切皆由他所赐。
5.31.3
बलं जिज्ञासमानस्य आचक्षीथा यथातथम् ।
अथ मन्त्र मन्त्रयित्वा याथातथ्येन हृष्टवत् ॥ ५.३१.३ ॥
对想了解力量的人,如实述说;然后经过商议,以真实、欣然的态度而言。
5.31.4
गावल्गणे कुरून्गत्वा धृतराष्ट्रं महाबलम् ।
अभिवाद्योपसंगृह्य ततः पृच्छेरनामयम् ॥ ५.३१.४ ॥
嗟乎伽婆尔伽那,前往俱卢之地,向大力的持国王致敬,抱住他的双足,然后问候他的安康。
5.31.5
ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम् ।
तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः ॥ ५.३१.५ ॥
你对端坐于俱卢众人环绕之中的他说:大王啊,正是凭借您的威力,般度之子才得以安乐生活。
5.31.6
तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिन्दम ।
राज्ये तान्स्थापयित्वाऽग्रे नोपेक्षस्व विनश्यतः ॥ ५.३१.६ ॥
降伏敌人者啊,因您的恩惠,您的诸子得到了王国。先使他们在王国中立足,不要在他们衰亡之时忽视他们。
5.31.7
सर्वमप्येतदेकस्य नालं सञ्जय कस्यचित् ।
तात संहत्य जीवामो द्विषतां मा वशं गमः ॥ ५.३१.७ ॥
这一切即使给一人也不足,桑阁耶啊。亲爱的,让我们团结生活,不要落入敌人之手。
5.31.8
तथा भीष्मं शान्तनवं भारतानां पितामहम् ।
शिरसाऽभिवदेथास्त्वं मम नाम प्रकीर्तयन् ॥ ५.३१.८ ॥
同样,向婆罗多族的祖父、山塔努之子毗湿摩低首致敬,并念出我的名字。
5.31.9
अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः ।
भवता शन्तनोर्वंशो निमग्नः पुनरुद्धृतः ॥ ५.३१.९ ॥
行礼之后,你应对我们的祖父说:由于您,山塔努的家族在沉沦之时再次被扶起。
5.31.10
स त्वं कुरु तथा तात स्वमतेन पितामह ।
यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम् ॥ ५.३१.१० ॥
亲爱的祖父,请按您自己的意见这样做,使您的孙子们彼此相爱地生活。
5.31.11
तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम् ।
अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरे ॥ ५.३१.११ ॥
同样,你应对库鲁的谋臣毗杜罗说:善良的人啊,愿为坚战之利益着想,请说不战之言。
5.31.12
अथ दुर्योधनं ब्रूया राजपुत्रममर्षणम् ।
मध्ये कुरूणामासीनमनुनीय पुनः पुनः ॥ ५.३१.१२ ॥
然后,对坐在库鲁人之中、性情暴烈的王子难敌,你应一再安抚地说。
5.31.13
अपापां यदुपैक्षस्त्वं कृष्णामेतां सभागताम् ।
तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ॥ ५.३१.१३ ॥
你对这位无辜的黑天女被带入议会一事置之不理,我们忍受了这份痛苦,以免杀灭俱卢族。
5.31.14
एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाः ।
बलीयांसोऽपि सन्तो यत्तत्सर्वं कुरवो विदुः ॥ ५.३१.१४ ॥
如此,般度子嗣忍受了先前与此后的一切苦难,尽管他们强大;这一切俱卢族都知道。
5.31.15
यन्नः प्रव्राजयेः सौम्य अजिनैः प्रतिवासितान् ।
तद्दुःखमतितिक्षाम मा वधीषय कुरूनिति ॥ ५.३१.१५ ॥
善良的人啊,你让我们身披鹿皮被放逐——那份痛苦我们忍受了,好让你不去杀灭俱卢族。
5.31.16
यत्कुन्तीं समतिक्रम्य कृष्णां केशेष्वधर्षयत् ।
दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम् ॥ ५.३१.१६ ॥
在你的默许下,难降以不顾昆提的身份,抓住黑天女的头发拖拽;这一点我们也置之不理。
5.31.17
अथोचितं स्वकं भागं लभेमहि परन्तप ।
निवर्तय परद्रव्याद्बुद्धिं गृद्धां नरर्षभ ॥ ५.३१.१७ ॥
那么,克敌者啊,让我们得到应得的份额;人中之牛,请将你贪婪的心从他人之物上收回。
5.31.18
शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम् ।
राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम् ॥ ५.३१.१८ ॥
国王啊,这样便会有和平与彼此的友爱;请把王国的一部分给予我们这些渴望和平的人吧。
5.31.19
अविस्थलं वृकस्थलं माकन्दीं वारणावतम् ।
अवसानं भवत्वत्र किंचिदेकं च पञ्चमम् ॥ ५.३१.१९ ॥
阿维斯塔拉、伐栗迦斯塔拉、摩坎迪与婆罗那婆多——愿其中一处,以及另一处第五地,成为我们在此的居所。
5.31.20
भ्रातॄणां देहि पञ्चानां पञ्च ग्रामान्सुयोधन ।
शान्तिर्नोस्तु महाप्राज्ञ ज्ञातिभिः सह सञ्जय ॥ ५.३१.२० ॥
苏耀陀那啊,请把五个村庄给我的五位兄弟。大智的桑迦耶啊,愿我们与亲族之间得享和平。
5.31.21
भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम् ।
स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह ॥ ५.३१.२१ ॥
愿兄随弟,父与子相合。愿般遮罗人含笑与俱卢人一同到来。
5.31.22
अक्षतान्कुरु पाञ्चालान्पश्येयमिति कामये ।
सर्वे सुमनसस्तात शाम्याय भरतर्षभ ॥ ५.३१.२२ ॥
我愿般遮罗人安然无恙,愿我能见到他们。亲爱的啊,婆罗多中的雄牛啊,愿众人心怀欢喜,以求和平。
5.31.23
अलमेव शमायास्मि तथा युद्धाय सञ्जय ।
धर्मार्थयोरलं चाहं मृदवे दारुणाय च ॥ ५.३१.२३ ॥
桑迦耶啊,我足以求和,也足以开战。为了法与利,我既能温和,也能严厉。