摩诃婆罗多 · 章 5.33
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.33.1
द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः ।
विदुरं द्रष्टुमिच्छामि तमिहानय मा चिरम् ॥ ५.३३.१ ॥
大智的地上之主持国王对守门人说:“我想见维杜罗,把他带来这里,不要耽搁。”
5.33.2
प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् ।
ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति ॥ ५.३३.२ ॥
受德里塔拉什特拉派遣的使者对管家说:“大智者啊,大王、我的主人想见你。”
5.33.3
एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् ।
अब्रवीद्धृतराष्ट्राय द्वाःस्थं मां प्रतिवेदय ॥ ५.३३.३ ॥
维杜罗听了这话,来到王宫,对德里塔拉什特拉说:“请通知守门人,我到了。”
5.33.4
विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् ।
द्रुष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् ॥ ५.३३.४ ॥
守门人说:“诸王之王啊,维杜罗奉您之命到来,想见您的双足。他该怎么做?请吩咐我。”
5.33.5
प्रवेशय महाप्रज्ञं विदुरं दीर्घदर्शिनम् ।
अहं हि विदुरस्यास्य नाकल्पो जातु दर्शने ॥ ५.३३.५ ॥
德里塔拉什特拉说:“请让大智、远见的维杜罗进来。对我而言,见维杜罗从来不是不妥的。”
5.33.6
प्रविशान्तःपुरं क्षत्तर्महारादजस्य धीमतः ।
न हि ते दर्शनेऽकल्पो जातु राजाऽब्रवीद्धि माम् ॥ ५.३३.६ ॥
守门人说:“管家啊,请进入内宫。您来见那位智慧的大王从来都不是不妥的;大王亲口对我这样说过。”
5.33.7
ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम् ।
अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् ॥ ५.३३.७ ॥
于是维杜罗进入持国王的宫室,合掌向沉思中的那位人主说出了这些话。
5.33.8
विदुरोऽहं महाप्राज्ञ संप्राप्तस्तव शासनात् ।
यदि किंचन कर्तव्यमयमस्मि प्रशाधि माम् ॥ ५.३३.८ ॥
维杜罗:大智者啊,我是奉你的命令而来。若有所当做之事,我在此;请吩咐我。
5.33.9
सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः ।
अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ॥ ५.३३.९ ॥
持国:维杜罗啊,桑闍耶来过,责备了我便离去了。明日他将在大会中间说出阿阇多设特鲁(坚战)的话。
5.33.10
तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया ।
तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ॥ ५.३३.१० ॥
持国:今天我没有理解那位库鲁英雄的话。那话灼烧着我的肢体,也使我彻夜不眠。
5.33.11
आग्रतो दह्यमानस्य श्रेयो यदनुपश्यसि ।
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ॥ ५.३३.११ ॥
持国:我在你面前焚烧;亲爱的,请把你所见的善言告诉我吧,因为你精通法与利。
5.33.12
यतः प्राप्तः सञ्जयः पाण्डवेभ्यो ।
न मे यथावन्मनसः प्रशान्तिः ।
सर्वेन्द्रियाण्यप्रकृतिं गतानि ।
किं वक्ष्यतीत्येव मेऽद्य प्रचिन्ता ॥ ५.३३.१२ ॥
持国:因为桑闍耶来自般度诸子,我心中已无应有的安宁;我的诸根都已离开其常态。“他将说什么呢?”这正是我今日的忧虑。
5.33.13
तन्मे ब्रूहि विदुर त्वं यथाव-
न्मनीषितं सर्वमजातशत्रोः ।
यथा न नस्तात हितं भवेच्च ।
प्रजाश्च सर्वाः सुखिता भवेयुः ॥ ५.३३.१३ ॥
维杜若,请如实告诉我阿阇多设鲁所愿的一切,使我们得到益处,亲爱的孩子,使所有臣民都幸福。
5.33.14
अभियुक्तं बलवता दुर्बलं हीनसाधनम् ।
हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥ ५.३३.१४ ॥
被强者控告者、弱者、缺乏资财者、财物被夺者、贪欲者与盗贼之中,便会生出不眠的忧虑。
5.33.15
कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप ।
कच्चिच्च परवित्तेषु गृद्ध्यन्न परितप्यसे ॥ ५.३३.१५ ॥
人主啊,你是否未曾沾染这些大罪?你是否因贪图他人财物而不感痛苦?
5.33.16
श्रोतुमिच्छामि ते धर्म्यं परं नैश्रेयसं वचः ।
अस्मिन्रादर्षिवंशे हि त्वमेकः प्राज्ञसंमतः ॥ ५.३३.१६ ॥
我想从你那里听到合乎法义、至高而导向至善的言辞,因为在这王仙之族中,唯有你为智者所推重。
5.33.17
राजा लक्षणसंपन्नस्त्रैलोक्यस्याधिपो भवेत् ।
प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः ॥ ५.३३.१७ ॥
具备王相的君王可以成为三界之主;德里塔拉什特拉啊,坚战是你的臣仆,也是你所派遣的。
5.33.18
विपरीततरश्च त्वं भागधेये न संमतः ।
अर्चिषां प्रक्षयाच्चैव धर्मात्मा धर्मकोविदः ॥ ५.३३.१८ ॥
你更与命运相违,因此在命运中不被认可;而心怀正法、通晓法义的坚战,则是从火焰的熄灭中诞生的。
5.33.19
आनृशंस्यादनुक्रोशाद्धर्मात्सत्यात्पराक्रमात् ।
गुरुत्वात्त्वयि संप्रेक्ष्य बहून्क्लेशांस्तितिक्षते ॥ ५.३३.१९ ॥
出于仁慈、怜悯、正法、真实与勇武,并顾念你的尊贵,他忍受着许多苦难。
5.33.20
दुर्योधने सौबले च कर्णे दुःशासने तथा ।
एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥ ५.३३.२० ॥
将权柄托付给难敌、苏跋罗之子沙恭尼、迦尔纳和难降,你又如何希望繁荣?
5.33.21
आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता ।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ ५.३३.२१ ॥
自知、勤勉、忍耐与恒守正法——凡不因这些而偏离其目标者,才真正被称为智者。
5.33.22
एकस्माद्वृक्षाद्यज्ञपात्राणि राज-
न्स्रुक्व द्रोणी पेठनीपीडने च।
एतस्माद्राजन्ब्रुवतो मे निबोध ।
एकस्माद्वै जायतेऽसच्च सच्च ॥ ५.३३.२२ ॥
大王啊,同一棵树可以制作祭器——勺、槽、盘与压榨器。大王,听我说:从这同一物中,既生出非有,也生出有。
5.33.23
निषेवते प्रशस्तानि निन्दितानि न सेवते ।
अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम् ॥ ५.३३.२३ ॥
亲近可赞之事而不亲近可非之事,不信神而具信心的人——这便是智者的标志。
5.33.24
क्रोधो हर्षश्च दर्पश्च ह्रीः स्तम्भो मान्यमानिता ।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ ५.३३.२४ ॥
愤怒、喜悦、傲慢、羞惭、固执,以及被尊重的自负——凡不因这些而偏离其目标者,才真正被称为智者。
5.33.25
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥ ५.३३.२५ ॥
若他人不知其所为与密谋,只知其已成之事,此人方可称为智者(班迪塔)。
5.33.26
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः ।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥ ५.३३.२६ ॥
若寒热、恐惧与喜悦、兴盛与衰败都不能阻碍其所为,此人方可称为智者(班迪塔)。
5.33.27
यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते ।
कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥ ५.३३.२७ ॥
若其世俗之智顺从法与利,且不因欲望而选择利,此人方可称为智者(班迪塔)。
5.33.28
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते ।
किंचिदवमन्यन्ते नराः पण्डितबुद्धयः ॥ ५.३३.२८ ॥
具有智者之心的人,依其能力而欲行,依其能力而行,且对任何事物都不轻慢。
5.33.29
क्षिप्रं विजानाति चिरं श्रृणोति ।
विज्ञाय चार्थं भजते न कामात्।
नासंपृष्टो ह्युपयुङ्क्ते परार्थे ।
तत्प्रज्ञानं प्रथमं पण्डितस्य ॥ ५.३३.२९ ॥
他领悟迅速,倾听持久。明白事理之后才投入其中,而非出于欲望。不经询问,便不插手他人之事。这便是智者的首要智慧。
5.33.30
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् ।
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥ ५.३३.३० ॥
具有智者之心的人,不贪求不可得之物,不愿为已失之物悲伤,在灾难中也不迷惑。
5.33.31
निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः ।
अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते ॥ ५.३३.३१ ॥
决意而后行动、行事中不犹豫、不虚度光阴、自制其心者,才被称为智者。
5.33.32
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते ।
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥ ५.३३.३२ ॥
婆罗多族之雄,智者喜爱高尚之事,行利益之业,且不嫉妒有益之事。
5.33.33
न हृष्यत्यात्मसंमाने नावमानेन तप्यते ।
गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ॥ ५.३३.३३ ॥
不因自尊而喜,不因受辱而悲,安定如恒河之湖者,才被称为智者。
5.33.34
तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् ।
उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ॥ ५.३३.३४ ॥
知晓一切众生之真谛、一切行为之方法、人间之手段者,这样的人被称为智者。
5.33.35
प्रवृत्तवाक् चित्रकथ ऊहवान्प्रतिभानवान् ।
आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते ॥ ५.३३.३५ ॥
言辞流畅、讲述奇妙故事、善于推理、才思敏捷、能迅速讲解经文者,才被称为智者。
5.33.36
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा ।
असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ॥ ५.३३.३६ ॥
学问随智慧而行、智慧随学问而行,不逾越高贵规范者,愿他获得智者之名。
5.33.37
अर्थं महान्तमासाद्य विद्यामेश्वर्यमेव च ।
विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ॥ ५.३३.३७ ॥
得到大财富、学问与权势,却不骄傲而行事的人,被称为智者(班迪多)。
5.33.38
अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः ।
अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ ५.३३.३८ ॥
无学、傲慢、贫穷而志向高远,不行动却想得财富的人,智者称之为愚人(谟哩陀)。
5.33.39
स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति ।
मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥ ५.३३.३९ ॥
舍弃自己的利益而去追求他人之利,为朋友而行虚伪之事的人,被称为愚人(谟哩陀)。
5.33.40
अकामान्कामयति यः कामयानान्परित्यजेत् ।
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ ५.३३.४० ॥
追求那些不爱他的人,抛弃那些爱他的人,又憎恨强者的人,人们称他为心智迷乱者(谟哩陀切塔斯)。
5.33.41
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ ५.३३.४१ ॥
把朋友变成敌人,憎恨并伤害朋友,又着手做恶事的人,人们称他为心智迷乱者(谟哩陀切塔斯)。
5.33.42
संसारयति कृत्यानि सर्वत्र विचिकित्सते ।
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ ५.३३.४२ ॥
凡事拖延、处处怀疑,即使是应当迅速去做的事也迟迟不决的人,便是愚人。婆罗多族的雄牛啊。
5.33.43
श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति ।
सुहृन्मित्रं न लभते तमाहुर्मूढचेतसम् ॥ ५.३३.४३ ॥
不向祖先供奉施食(śrāddha),不礼拜诸神,也得不到朋友的人,被称为心智昏昧者。
5.33.44
अनाहूतः प्रविशति ह्यपृष्टो बहु भाषते ।
अविश्वस्ते विश्वसिति मूढचेता नराधमः ॥ ५.३३.४४ ॥
不请自入、不问而多言、信任不可信之人者,此昏昧之徒乃人中最卑劣者。
5.33.45
परं क्षिपति दोषेण वर्तमानः स्वयं तथा ।
यश्च क्रुध्यत्यनीशानः स च मूढतमो नरः ॥ ५.३३.४५ ॥
自己同样身陷其过,却以此责备他人;无力而却发怒者——此人乃最为昏昧之人。
5.33.46
आत्मनो बलमाज्ञाय धर्मार्थपरिवर्जितम् ।
अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥ ५.३३.४६ ॥
明知自身之力,却无法守法与求利,欲以弃绝行动得到那不可得之物——此人在此被称为智慧昏昧者。
5.33.47
अशिष्यं शास्ति यो राजन्यश्च शिष्यं न शास्ति च ।
कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥ ५.३३.४७ ॥
国王啊!教导非弟子者,不教导弟子,侍奉吝啬之人者——人们称此人为心智昏昧者。
5.33.48
एकः संपन्नमाश्नाति वस्ते वासश्च शोभनम् ।
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥ ५.३३.४८ ॥
独自享用美食、穿着华服,却不与仆从分享的人——还有谁比他更残忍?
5.33.49
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः ।
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ ५.३३.४९ ॥
一人作恶,而果报由众人享受。享受者免于罪过,唯作者为罪过所染。
5.33.50
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता ।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ ५.३३.५० ॥
弓手射出的箭,或许杀一人,或许不杀;而智者发出的谋略,却能连同君王毁灭整个国家。
5.33.51
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु ।
पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भवा ॥ ५.३३.५१ ॥
以一determine二,以四制服三。战胜五,认识并舍弃六与七,便可快乐。
5.33.52
एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते ।
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रपिप्लवः ॥ ५.३३.५२ ॥
毒液杀一人,兵器伤一人;而谋略的败坏,却能连同臣民与国家毁灭君王。
5.33.53
एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् ।
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ ५.३३.५३ ॥
不可独自享用美食,也不可独自谋划事务;不可独自上路;在众人熟睡之时,不可独自醒着。
5.33.54
एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे ।
सत्यं स्वगस्य सोपानं पारावारस्य नौरिव ॥ ५.३३.५४ ॥
大王啊,那唯一的、无二的,你却不能领会。真理是通往天堂的阶梯,如同横渡大海的船。
5.33.55
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते ।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ ५.३३.५५ ॥
于能忍者,唯有一过,第二过不生:人见其具忍,便以为无力。
5.33.56
सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम् ।
क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं क्षमा ॥ ५.३३.५६ ॥
此不当视为其过,因忍为最上之力。忍是无力者之德,忍也是有力者之饰。
5.33.57
क्षमा वशीकृतीर्लोके क्षमया किं न साध्यते ।
शान्तिखङ्गः करे यस्य किं करिष्यति दुर्जनः ॥ ५.३३.५७ ॥
忍能服世,何事不可以忍成就?手持和平之剑者,恶人能奈其何?
5.33.58
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ।
अक्षमावान्परं दोषैरात्मानं चैव योजयेत् ॥ ५.३३.५८ ॥
火落于无草之地,自然熄灭;不能忍者,反以他人之过牵连自身。
5.33.59
एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा ।
विद्यैका परमा तृप्तिरहिंसैका सुखावहा ॥ ५.३३.५९ ॥
唯法为至善,唯忍为无上之寂。唯学为至高之满足,唯不害能带来安乐。
5.33.60
द्वाविमौ ग्रसते भूमिः सर्पो बलिशयानिव ।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ ५.३३.६० ॥
大地吞噬此二者,如穴居之蛇吞食老鼠:不敢抗拒之王,与不远行之婆罗门。
5.33.61
द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते ।
अब्रुवन्परुषं किंचिदसतोऽनर्चयंस्तथा ॥ ५.३३.६१ ॥
行二事之人在此世闪耀:不说任何粗暴之言,也不尊敬恶人。
5.33.62
द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ ।
स्त्रियः कामितकामिन्यो मूर्खाः पूजितपूजकाः ॥ ५.३३.६२ ॥
人中之虎啊,这两种人能令他人信任:欲求所欲之妇人,以及尊敬已受尊敬者的愚人。
5.33.63
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ ।
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ ५.३३.६३ ॥
这两者是烧干身体的锐利荆棘:贫穷却仍生欲念者,以及无权无势却仍发怒者。
5.33.64
द्वावेव न विराजेते विपरीतेन कर्मणा ।
गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः ॥ ५.३३.६४ ॥
行为颠倒者,有两种人不能显耀:不肯努力的居家者,以及仍有职责的乞食者。
5.33.65
द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः ।
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ ५.३३.६५ ॥
大王啊,这两人站在天界之上:有权势而具忍耐者,以及贫穷却仍布施者。
5.33.66
न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ ।
अपात्रे प्रतिपत्तिश्च पात्रे चात्प्रतिपादनम् ॥ ५.३३.६६ ॥
对于依法得来的财富,应知两种过失:施与不当之人,以及不施与当施之人。
5.33.67
द्वावभ्यसि निवेष्टव्यौ गले बध्वा दृढां शिलाम् ।
धनवन्तमदातारं दरिद्रं चातपस्विनम् ॥ ५.३३.६७ ॥
两种人应当系上坚石沉入水中:不肯布施的富人,以及不修苦行的贫者。
5.33.68
द्वाविमौ पुरुषव्याघ्र सूर्यमण्डलभेदिनौ ।
परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥ ५.३३.६८ ॥
人中之虎啊,能穿透太阳圆盘的有两种人:专修瑜伽的游方苦行者,以及在战场上面对敌人而死的人。
5.33.69
त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ ।
कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ॥ ५.३३.६९ ॥
婆罗多族的雄牛啊,人间有三种法则:下等、中等与上等,通晓吠陀者如此知晓。
5.33.70
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः ।
नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ॥ ५.३३.७० ॥
君王啊,人分三种:上等、下等与中等;应当把他们恰当地安排到三类事务之中。
5.33.71
त्रय एवाधना राजन्भार्या दासस्तथा सुतः ।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥ ५.३३.७१ ॥
国王啊,只有三者没有自己的财产:妻子、奴仆与儿子;他们所获得的,都属于他们所隶属的人。
5.33.72
हरणं च परस्वानां परदाराभिमर्शनम् ।
सुहृदश्च परित्यागस्त्रयो दोषाः क्षयावहाः ॥ ५.३३.७२ ॥
夺取他人财物、触碰他人之妻、抛弃朋友,这三种过失会带来毁灭。
5.33.73
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत् ॥ ५.३३.७३ ॥
这地狱的三重之门毁灭自我:欲望、愤怒,以及贪婪。因此应当舍弃这三者。
5.33.74
वरप्रदानं राज्यं च पुत्रजन्म च भारत ।
शत्रोश्च मोक्षणं कृच्छ्रात्रीणि चैकं च तत्समम् ॥ ५.३३.७४ ॥
婆罗多啊,赐予恩惠、王国、生子,以及把敌人从困境中解救出来——这是三件,与之相等的还有一件。
5.33.75
भक्तं च भजमानं च तवास्मीति च वादिनम् ।
त्रीनेताञ्छरणं प्राप्तान्विषमेऽपि कन सन्त्यजेत् ॥ ५.३३.७५ ॥
奉献者、侍奉者,以及说“我是你的”之人——这三者若来寻求庇护,即使在危难中也不可抛弃。
5.33.76
चत्वारि राज्ञा तु महाबलेन ।
वर्ज्यान्याहुः पण्डितस्तानि विद्यात्।
अल्पप्रज्ञैः सह मन्त्रं न कुर्या-
न्न दीर्घसूत्रैरलसैश्चारणैश्च ॥ ५.३३.७६ ॥
据智者所说,大力之王应当避开四件事;智者应当知晓。不可与才智低下者、拖延者、懒惰者及密探商议。
5.33.77
चतवारि ते तात गृहे वसन्तु ।
श्रियाऽभिजुष्टस्य गृहस्थधर्मे।
वृद्धो ज्ञातिरवसन्नः कुलीनः ।
सखा दरिद्रो भगिनी चानपत्या ॥ ५.३३.७७ ॥
亲爱的,愿四人住在你的家中——你既富足,又行持居家之法:年长者、陷入困境的高贵亲族、贫穷的朋友,以及无子的姐妹。
5.33.78
चत्वार्याह महाराज साद्यस्कानि बृहस्पतिः ।
पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे ॥ ५.३३.७८ ॥
大王,当三十位天神之主因陀罗问起时,木星(Bṛhaspati)说出了四件见效迅速之事;请听我讲述。
5.33.79
देवतानां च सङ्कल्पमनुभावं च धीमताम् ।
विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥ ५.३३.७९ ॥
诸神的意志与智者的力量,学有所成者的谦逊,以及作恶者的毁灭。
5.33.80
चत्वारि कर्माण्यभयंकराणि ।
भयं प्रयच्छन्त्ययथाकृतानि ।
मानाग्निहोत्रमुत मानमौनं ।
मानेनाधीतमुत मानयज्ञः ॥ ५.३३.८० ॥
四件事令人畏惧;若做得不当,便会带来恐惧:出于傲慢的火祭,出于傲慢的缄默,出于傲慢的诵习,以及出于傲慢的祭祀。
5.33.81
पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः ।
पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ॥ ५.३३.८१ ॥
人应当悉心侍奉五种火:父、母、圣火、自我与师长。婆罗多中的雄牛啊!
5.33.82
पञ्चैव पूजयँल्लोके यशः प्राप्नोति केवलम् ।
देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥ ५.३३.८२ ॥
世间唯有敬奉五者方能获得名声:诸神、祖先、世人、乞士,以及作为第五者的客人。
5.33.83
पञ्च त्वाऽनुगमिष्यन्ति यत्र यत्र गमिष्यसि ।
मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः । ॥ ५.३३.८३ ॥
无论你去往何方,五者都将跟随:朋友、敌人、中立者、你所依赖的人,以及依赖你的人。
5.33.84
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् ।
ततोऽस्य स्रवति प्रज्ञा दृतेः पात्रादिवोदकम् ॥ ५.३३.८४ ॥
若人有五根,哪怕只有一根开了孔,他的智慧便会如水从皮囊中漏出一般流失。
5.33.85
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता । ॥ ५.३३.८५ ॥
欲求兴盛的人应在此舍弃六种过失:睡眠、昏沉、恐惧、愤怒、懒惰和拖延。
5.33.86
षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे ।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥ ५.३३.८६ ॥
如同在大海中抛弃破损的船只,人应当舍弃这六种人:不教导的老师、不学习的人,以及主持祭祀的祭司。
5.33.87
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् ।
ग्रामकामं च गोपालं वनकामं च नापितम् ॥ ५.३३.८७ ॥
应当舍弃不护民的国王、说话不悦耳的妻子、想住村庄的牧人,以及想住森林的理发匠。
5.33.88
षडेव तु गुणाः पुंसा न हातव्याः कदाचन ।
सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥ ५.३३.८८ ॥
然而,人永远不应舍弃六种美德:诚实、布施、勤勉、不嫉妒、宽容与坚定。
5.33.89
अर्थागमो नित्यमरोगिता च ।
प्रिया च भार्या प्रियवादिनी च।
वश्यश्च पुत्रोऽर्थकरी च विद्या ।
षड्जीवलोकस्य सुखानि राजन् ॥ ५.३३.८९ ॥
大王啊,这是众生世间的六种快乐:常得财富、无病、言语悦耳的可爱妻子、顺从的儿子,以及能带来财富的学识。
5.33.90
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति ।
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥ ५.३३.९० ॥
在自身中得到六种永恒者之主宰、并已克服诸根的人,怎会被罪过与祸患所缠缚呢?
5.33.91
षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते ।
चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ॥ ५.३३.९१ ॥
这六者依靠六者而生存,第七者不可见。盗贼依靠疏忽之人而生存;医者依靠病人而生存。
5.33.92
प्रमदाः कामयानेषु यजमानेषु याजकाः ।
राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ॥ ५.३३.९२ ॥
女子依附于贪欲者而生存,祭司依附于祭祀者而生存;国王依附于争论者而生存,智者则常依附于愚人而生存。
5.33.93
षडिमानि विनश्यन्ति मुहूर्तमनवेक्षणात् ।
गावः सेवा कृषिर्भार्या विद्या वृषलसङ्गतिः ॥ ५.३३.९३ ॥
这六者因片刻疏忽而毁坏:牛、侍奉、农事、妻子、学问,以及与贱种之人为伍。
5.33.94
षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् ।
आचार्यं शिक्षिताः शिष्याः कृतदाराश्च मातरं ॥ ५.३३.९४ ॥
这六者总是轻慢曾经施恩于自己的人:受教的弟子轻慢老师,已娶妻者轻慢母亲。
5.33.95
नारीं विगतकामास्तु कृतार्थाश्च प्रयोजकम् ।
नावं निस्तीर्णकान्तारा नातुराश्च चिकित्सकं ॥ ५.३३.९५ ॥
欲念已尽者弃女子,目的已达者弃助成其事者;穿越荒野者弃船,病愈者弃医者。
5.33.96
आरोग्यमानृण्यमविप्रवासः ।
सद्भिर्मनुष्यैः सह संप्रयोगः।
स्वप्रत्यया वृत्तिरभीतवासः ।
षट् जीवलोकस्य सुखानि राजन् ॥ ५.३३.९६ ॥
无病、无债、不客居异乡、与善人相交、以自力谋生、居住无所畏惧——国王啊,这六者便是世间生者的六种快乐。
5.33.97
ईर्षुर्धृणी नसन्तुष्टः क्रोधनो नित्यशङ्कितः ।
परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥ ५.३३.९७ ॥
嫉妒者、无慈悲者、不知足者、易怒者、常怀疑者,以及依赖他人福运而生活者——这六种人永远痛苦。
5.33.98
सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः ।
प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः ॥ ५.३३.९८ ॥
君王应当始终戒除由嗜欲所生的七种过失,因这些过失,即使根基稳固的统治者也大多覆灭。
5.33.99
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् ।
महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ ५.३३.९९ ॥
女色、赌博、狩猎、饮酒、恶语为第五,重刑的严酷,以及浪费财富——这便是七种。
5.33.100
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः ।
ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥ ५.३३.१०० ॥
将要毁灭的人有八种先兆:首先,他憎恨婆罗门,并与婆罗门为敌。
5.33.101
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति ।
रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ ५.३३.१०१ ॥
他夺取婆罗门的财产,想要杀害婆罗门,以诽谤他们为乐,也不接受他们的赞美。
5.33.102
नैनान्स्मरति कृत्येषु याचितश्चाभ्यसूयति ।
एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुध्वा विसर्जयेत् ॥ ५.३३.१०२ ॥
他在本分之事上不记念他们,被请求时便心生怨恨。智者以智慧辨识这些过失之后,应当舍弃它们。
5.33.103
अष्टाविमानि हर्षस्य नवनीतानि भारत ।
वर्तमानानि दृश्यन्ते तान्येव स्वसुखान्यपि ॥ ५.३३.१०३ ॥
婆罗多之子啊,这是喜悦的八种鲜酥;它们显现存在,它们本身也就是自身的快乐。
5.33.104
समागमश्च सखिभिर्महांश्चैव धनागमः ।
पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने ॥ ५.३३.१०४ ॥
与朋友相聚,获得大量财富,被儿子拥抱,以及在房事中的结合。
5.33.105
समये च प्रियालापः स्वयूथ्येषु समुन्नतिः ।
अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥ ५.३३.१०५ ॥
适时的愉快交谈,在自己人中的晋升,获得所求之物,以及在众人集会中的尊敬。
5.33.106
अष्टौ गुमाः पुरुषं दीपयन्ति ।
प्रज्ञा च कौल्यं च दमः श्रुतं च।
पराक्रमश्चाबहुभाषिता च ।
दानं यथाशक्ति कृतज्ञता च ॥ ५.३३.१०६ ॥
八种品德照亮一个人:智慧、高贵的出身、克制、博学、勇武、少言、量力施舍,以及感恩。
5.33.107
नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् ।
क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः ॥ ५.३३.१०७ ॥
这座房屋有九门、三柱、五证,由知田者主宰;知晓此事的智者,便是至上的圣哲。
5.33.108
दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् ।
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥ ५.३३.१०८ ॥
德拉什特拉啊,有十种人不知法,请你明白他们:醉者、放逸者、狂者、疲惫者、愤怒者、饥饿者。
5.33.109
त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश ।
तस्मादेतेषु भावेषु न प्रसञ्जेत पण्डितः ॥ ५.३३.१०९ ॥
急躁者、贪婪者、恐惧者、欲望者——这便是十种。因此智者不应执着于这些状态。
5.33.110
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना ॥ ५.३३.११० ॥
此处常引述这段古老的传说,它是阿修罗王与苏陀那为了儿子而吟唱的。
5.33.111
यः काममन्यू प्रजहाति राजा ।
पात्रे प्रतिष्ठापयते धनं च।
विशेषविच्छ्रुतवान्क्षिप्रकारी ।
तं सर्वलोकः कुरुते प्रमाणम् ॥ ५.३३.१११ ॥
舍弃欲望与愤怒、把财富托付给贤人、明辨是非、博学且行动迅速的君王,全世界都以他为准则。
5.33.112
जानाति विश्वासयितुं मनुष्यान् ।
विज्ञातदोषेषु दधाति दण्डम्।
जानाति मात्रां च तथा क्षमां च ।
तं तादृशं श्रीर्जुषते समग्रा ॥ ५.३३.११२ ॥
懂得赢得众人信任、对已知过错施以惩罚、又知分寸与宽恕的人,圆满的吉祥便会眷顾他。
5.33.113
सुदुर्बलं नावजानाति कंचि-
द्युक्तो रिपुं सेवते बुद्धिपूर्वम्।
न विग्रहं रोचयते बलस्थैः ।
काले च यो विक्रमते स धीरः ॥ ५.३३.११३ ॥
即使最弱者也不轻视,保持警觉、有意识地应对敌人,不愿与强者交战,在适当的时机出击——这才是坚毅之人。
5.33.114
प्राप्याप न व्यथते कदाचि-
दुद्योगमान्वच्छति चाप्रमत्तः ।
दुःखं च काले सहते महात्मा ।
धुरन्धरस्तस्य जिताः सपत्नाः ॥ ५.३३.११४ ॥
遭遇不幸也从不痛苦;保持警觉,寻求努力。适时忍受苦难——这位大德者是负重者,他的敌人都被征服。
5.33.115
अनर्थकं विप्रवासं गृहेभ्यः ।
पापैः सन्धिं परदाराभिमर्शम्।
दम्भं स्तैन्यं पैशुनं मद्यमानं ।
न सेवते यः स सुखी सदैव ॥ ५.३३.११५ ॥
不沉溺于无益之事、远离家乡的漂泊、与恶人结盟、触碰他人之妻、虚伪、偷盗、诽谤、饮酒与傲慢——不行这些的人,永远幸福。
5.33.116
न संरम्भेणारभते त्रिवर्ग-
माकारितः शंसति तत्त्वमेव।
न मित्रार्थे रोचयते विवादं ।
नापूजितः कुप्यति चाप्यमूढः ॥ ५.३३.११६ ॥
他不在愤怒中开始三目标;被召唤时只说真理。为朋友故,他不赞成争论;即使未受尊敬,他也不糊涂地发怒。
5.33.117
न योऽभ्यसूयत्सयनुकम्पते च ।
न दुर्बलः प्रातिभाव्यं करोति।
नात्याह किंचित्क्षमते विवादं ।
सर्वत्र तादृग्लभते प्रशंसाम् ॥ ५.३३.११७ ॥
不苛责他人而怀有慈悲,不以弱者之身作保,不多言而能忍受争论——这样的人处处获得赞誉。
5.33.118
यो नोद्धतं कुरुते जातु वेषं ।
न पौरुषेणापि विकत्थतेऽन्यान्।
न मूर्च्छितः कटुकान्याह किंचि-
त्प्रियं सदा तं कुरुते जनो हि ॥ ५.३३.११८ ॥
从不摆出傲慢的姿态,不以勇武夸耀他人,即使昏乱也不说粗暴的话——人们总是视他为可亲之人。
5.33.119
न वैरमुद्दिपयति प्रशान्तं ।
न दर्पमारोहति शान्तिमेति।
न दुर्गतोऽस्मीति करोत्यकार्यं ।
तमार्यशीलं परमाहुरार्याः ॥ ५.३३.११९ ॥
不挑起对平静之人的敌意,不陷入傲慢而得享安宁,不因自觉身处困境而作不当之事——这样的人,贤者称之为最高的高尚品性者。
5.33.120
न स्वे सुखे वै कुरुते प्रहर्षं ।
नान्यस्य दुःखे भवति प्रहृष्टः।
दत्त्वा न पश्चात्कुरुतेऽनुतापं ।
स कथ्यते सत्पुरुषार्यशीलः ॥ ५.३३.१२० ॥
不因自己的快乐而欢喜,不因他人的痛苦而高兴,施舍之后也不懊悔——这样的人被称为善良而具高尚品性的人。
5.33.121
देशाचारान्समयाञ्जातिधर्मान् ।
बुभूषते यः स परावरज्ञः।
स यत्र तत्राभिगतः सदैव ।
महाजनस्याधिपत्यं करोति ॥ ५.३३.१२१ ॥
若有人愿意维护地方习俗、约定与种姓之法,并通晓高下之理,那么他无论走到哪里,总能主持大众之事。
5.33.122
दम्भं मोहं मत्सरं पापकृत्यं ।
राजद्विष्टं पैशुनं पूगवैरम्।
मत्तोन्मत्तैर्दुर्जनैश्चापि वादं ।
यः प्रज्ञावान्वर्जयेत्स प्रधानः ॥ ५.३३.१२२ ॥
智者若能避开虚伪、迷惑、嫉妒、恶行、憎恨君主、谗言、派系之仇,以及与醉者、狂人和恶人争辩,他便是首位之人。
5.33.123
दमं शौचं दैविकं मङ्गलानि ।
प्रायश्चित्तान्विविधाँल्लोकवादान्।
एतानि यः कुरुते नैत्यकानि ।
तस्योत्थानं देवता राधयन्ति ॥ ५.३३.१२३ ॥
若有人将克己、清净、神圣的吉祥礼仪、各种赎罪之法与世间之道作为日常之务而践行,诸神便使他的兴起得以成就。
5.33.124
समैर्विवाहं कुरुते न हीनैः ।
समैः सख्यं व्यवहारं कथां च।
गुणैर्विशिष्टांश्च पुरो दधाति ।
विपश्चितस्तस्य नयाः सुनीताः ॥ ५.३३.१२४ ॥
他与同等之人结亲,不与卑下者结亲;与同等之人交友、往来、交谈,并把德行卓越者置于前列——这位智者的谋略因而善妙。
5.33.125
मितं भुङ्क्ते संविभज्याश्रितेभ्यो ।
मितं स्वपित्यमितं कर्म कृत्वा।
ददात्यमित्रेष्वपि याचितः सं-
स्तमात्मवन्तं प्रजहत्यनर्थाः ॥ ५.३३.१२५ ॥
他与依附自己的人分享后才适度进食,适度入睡,行事不知疲倦,即使向敌人求助也会给予;这样正直且自制的人,灾祸便会远离他。
5.33.126
चिकीर्षितं विप्रकृतं च यस्य ।
नान्ये जनाः कर्म जानन्ति किंचित्।
मन्त्रे गुप्ते सम्यगनुष्ठिते च ।
नाल्पोऽप्यस्य च्यवते कश्चिदर्थः ॥ ५.३३.१२६ ॥
他的意图与对侮辱的报复,别人丝毫不知;在秘密谋划和妥善执行的行动中,他即使是微小的目的也不会失去。
5.33.127
यः सर्वभूतप्रशमे निविष्टः ।
सत्यो मृदुर्मानकृच्छुद्धभावः
अतीव स ज्ञायते ज्ञातिमध्ये ।
महामणिर्जात्य इव सप्रन्नः ॥ ५.३३.१२७ ॥
若有人致力于众生的安宁,诚实、温和、尊重他人、本性纯净,他在亲族之中便极为显赫,如同出身高贵的大宝珠,闪耀着自身的光辉。
5.33.128
य आत्मनाऽपत्रपते भृशं नरः ।
स सर्वलोकस्य गुरुर्भवत्युत
अनन्तजेजाः सुमनाः समाहितः ।
स तेजसा सूर्य इवावभासते ॥ ५.३३.१२८ ॥
内心极为知耻的人,会成为整个世界的导师;他拥有无限的力量,心地善良而专注,以其光辉如太阳般照耀。
5.33.129
वने जाताः शापदग्धस्य राज्ञः ।
पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः ।
त्वयैव बाला वर्धिताः शिक्षिताश्च ।
तवादेशं पालयन्त्याम्बिकेय ॥ ५.३३.१२९ ॥
受诅咒所焚的国王般度的五个儿子,如同五位因陀罗,生于森林之中。你在他们幼年时便抚育并教导了他们;阿姆比迦之子啊,他们至今仍听从你的命令。
5.33.130
प्रदायैषामुचितं तातराज्यं ।
सुखी पुत्रैः सहितो मोदमानः ।
न देवानां नापि च मानुषाणां ।
भविष्यसि त्वं गर्हणीयो नरेन्द्र ॥ ५.३३.१३० ॥
将其应得的祖传王国交还给他们,与你的儿子们一起幸福欢乐地生活吧;人主啊,那样你便不会在诸神和人类之中受到谴责。