Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.34.1

जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि ।
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ॥ ५.३४.१ ॥

亲爱的,你且告诉我,对我这醒着、焚烧着的人,你看到了什么职责;你精通法与利,且清净。

5.34.2

तस्माद्यथावद्विदुर प्रशाधि ।
प्रज्ञापूर्वं सर्वमजातशत्रोः।
यन्मन्यसे पथ्यमदीनसत्व ।
श्रेयस्करं ब्रूहि तद्वै कुरूणाम् ॥ ५.३४.२ ॥

因此,维杜罗啊,请如实教导我;为阿阇多设咤,凡事以智慧相告。无畏之心的你,把你认为有益、利于众俱卢的,告诉俱卢们吧。

5.34.3

पापाशङ्की पापमेवानुपश्यन् ।
पृच्छामि त्वां व्याकुलेनात्मनाहम् ।
कजे तन्मे ब्रूहि तत्पं यथाव-
न्मनीषितं सर्वमजातशत्रोः ॥ ५.३४.३ ॥

畏惧罪恶,眼中只见罪恶,我怀着烦乱之心问你:请如实告诉我,凡对阿阇多设咤所希求的,一一说来……

5.34.4

शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् ।
नापृष्टः कस्यचिद्ब्रूयाद्यः स नेच्छेत्पराभवम् ॥ ५.३४.४ ॥

无论吉祥还是不祥,可憎还是可爱,不经询问便不向任何人开口的人,不愿遭遇失败。

5.34.5

तस्माद्वक्ष्यामि ते राजन्हितं यत्स्यान्कुरून्प्रति ।
वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे ॥ ५.३४.५ ॥

因此,大王啊,我将告诉你对俱卢有益的事。请听我这合于法、利于福祉的言语。

5.34.6

मिथ्योपेतानि कर्माणि सिद्ध्येतादीनि भारत ।
अनुपायप्रयुक्तानि मा स्म ते…मनः कृथाः ॥ ५.३४.६ ॥

婆罗多啊,与虚妄相连的行为,以及以不当手段发动的事业,都不会成功。不要将你的心思放在它们身上……

5.34.7

तथैव योगविहितं यत्तु कर्म न सिध्यति ।
उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥ ५.३४.७ ॥

同样,若依正当方法所行之事不成,智者不应因此而使心意困扰。

5.34.8

अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु ।
संप्रधार्य च कुर्वीत सहसा न समाचरेत् ॥ ५.३४.८ ॥

对于有后续影响的行为,应当考察其后果;审慎权衡之后再行动,不可轻率妄为。

5.34.9

अनुबन्धं च संप्रेक्ष्य विपाकं चैव कर्मणाम् ।
उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥ ५.३४.९ ॥

智者应细察行为的后续与结果,并审视自身的能力,然后决定行动与否。

5.34.10

यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये ।
कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ॥ ५.३४.१० ॥

若不知在稳定、增长与衰减之时,对府库、国土与军力的分寸,此人便不能在王国中立足。

5.34.11

यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति ।
युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥ ५.३४.११ ॥

然而,能如所说那样明察这些尺度,并具备法与利之知识者,便能得到王国。

5.34.12

न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम् ।
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥ ५.३४.१२ ॥

不可因已得王国便行事失当;因为骄慢无礼正会败坏福德,如同衰老毁坏上好的容颜。

5.34.13

भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम् ।
अन्नाभिलाषी ग्रसते नानुबन्धमवेक्षते ॥ ५.३४.१३ ॥

渴望食物的鱼吞下藏在最好诱饵下的铁钩,却不看它的后果。

5.34.14

यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् ।
हितं च परिणामे यत्तदाद्यं भूतिमिच्छता ॥ ५.३४.१४ ॥

凡能吞下、能消化、且结果有益的,才是追求兴盛者应首先取用的。

5.34.15

वनस्पतेरपक्वानि फलानि प्रचिनोति यः ।
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥ ५.३४.१५ ॥

采摘树上未成熟果实的人得不到其中的汁液,而他的种子也会毁灭。

5.34.16

यस्तु पक्वमुपादत्ते काले परिणतं फलम् ।
फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥ ५.३४.१६ ॥

然而,在适当时候摘取成熟果实的人,能从果实得到汁液,又能从种子得到果实。

5.34.17

यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः ।
तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ॥ ५.३४.१७ ॥

如同蜜蜂在保护花朵的同时采集蜂蜜,人们的财富也应当不伤害地取得。

5.34.18

पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् ।
मालाकार इवारामे न यथाङ्गारकारकः ॥ ५.३४.१८ ॥

应当一朵一朵地采摘,不应砍断根部——像园中的花匠,而不像烧炭的人。

5.34.19

किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।
इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा ॥ ५.३४.१९ ॥

做此事于我有何益处?不做此事于我又有何损失?如此思量诸业之后,人或做或不做。

5.34.20

अनारभ्या भवन्त्यर्थाः केचिन्नित्यं यथाऽगताः ।
कृतः पुरुषकारोऽहि भवेद्येषु निरर्थकः ॥ ५.३४.२० ॥

有些事务永远不可开始,它们仿佛自行到来。在这些事务中,人的努力也会变得徒劳无益。

5.34.21

अनर्थे चैव निरतमर्थे चैव पराङ्भुखम् ।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ ५.३४.२१ ॥

沉溺于无益之事而背离有益之事者,女子不愿以他为夫,正如她们不愿以阉人为夫。

5.34.22

प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः ।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ ५.३४.२२ ॥

其恩惠无效、其愤怒亦无益者,女子不愿以他为夫,正如她们不愿以阉人为夫。

5.34.23

कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् ।
क्षिप्रमारभते कर्तुं न दीर्घयति तादृशान् ॥ ५.३४.२३ ॥

智者迅速着手那些根小而果大的事务,并不拖延此类事务。

5.34.24

ऋजु पश्यति यः सर्वं चक्षुषा नु पिबन्निव ।
आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥ ५.३४.२४ ॥

凡事都能正直地看清,仿佛用眼睛饮尽一般;即便他静坐不语,百姓也依然归附于他。

5.34.25

सुपुष्पितः स्यादफलः फलितः स्याद्दुरारुहः ।
अपक्वः पक्वसङ्काशो न तु शीर्येत कर्हिचित् ॥ ५.३४.२५ ॥

它可能花开繁盛却无果;可能结果却难以攀登;可能未熟却看似已熟,但绝不应凋落。

5.34.26

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।
प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति ॥ ५.३४.२६ ॥

若有人以眼、心、言、行四种方式使民众欢喜,民众也会对他欢喜。

5.34.27

यस्मात्रस्यन्ति भूतानि मृगव्याधान्मृगा इव ।
सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥ ५.३४.२७ ॥

众生畏惧他,如鹿畏惧猎人,此人即便得到直至大海的大地,也会衰败。

5.34.28

पितृपैतामहं राज्यं प्राप्यापि स्वेन कर्मणा ।
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥ ५.३४.२८ ॥

即便得到父祖传下的王国,若因自身所为而陷于不义,他便会使之倾覆,如风遇云而将其吹散。

5.34.29

धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः ।
वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी ॥ ५.३४.२९ ॥

对于奉行法义的君王,其行为自始便为善人所遵循,那富饶充盈的大地便会增长,并使繁荣增进。

5.34.30

अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः ।
प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा। ॥ ५.३४.३० ॥

然而,舍弃法义而行非法者,大地便会在他周围收缩,如置于火中的皮革蜷缩。

5.34.31

य एव यत्नः क्रियते परराष्ट्रविमर्दने ।
स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने । ॥ ५.३४.३१ ॥

征服他国所付出的努力,也应当用于保卫自己的国家。

5.34.32

धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् ।
धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥ ५.३४.३२ ॥

应当依法(达摩)获得王国,也依法守护它。得到以法为根基的兴盛者,不会失去它,也不会衰败。

5.34.33

अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः ।
सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ ५.३४.३३ ॥

即使从疯人的胡言和孩童的喋喋不休中,也应从各方面汲取精华,如同从石头中取出黄金。

5.34.34

सुव्याहृतानि महतां सुकृतानि ततस्ततः ।
सञ्चिन्वन्धीर आसीत शिलाहारी शिलं यथा ॥ ५.३४.३४ ॥

从各处收集大人物善言与善行的智者,应当像拾取谷粒的人一样。

5.34.35

गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः ।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ ५.३४.३५ ॥

牛以嗅觉看,婆罗门以吠陀看,国王以间谍看,其他人以眼睛看。

5.34.36

भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा ।
अथ या सुदुघा राजन्नैव तां वितुदन्त्यपि ॥ ५.३४.३६ ॥

难挤奶的母牛遭受很大的痛苦;但是,国王啊,容易挤奶的母牛,人们是不会去折磨它的。

5.34.37

यदतप्तं प्रणमति न तत्सन्तापमर्हति ।
यच्च स्वयं नतं दारु न तत्संनामयेद्बुधः ॥ ५.३४.३७ ॥

未经烘烤而自行弯曲的木材,不值得去烤;本已自行弯曲的木材,智者不应再去弯它。

5.34.38

एतयोपमया धीरः सन्नमेत बलीयसे ।
इन्द्राय स प्रणमते नमते यो बलीयसे ॥ ५.३४.३८ ॥

以此为喻,坚定的人应向强者低头;向强者低头的人,实则向因陀罗低头。

5.34.39

पर्जन्यनाथाः पशवो राजानो मन्त्रिबान्धवाः ।
पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ॥ ५.३४.३९ ॥

牲畜以雨神为主,君王以大臣为亲属,妇女以丈夫为亲属,婆罗门以吠陀为亲属。

5.34.40

सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥ ५.३४.४० ॥

法以真实为护,学问以修习为护,容貌以洁净为护,家族以德行为护。

5.34.41

मानेन रक्ष्यते धान्यमश्वान्रक्षेदनुक्रमात् ।
अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः ॥ ५.३४.४१ ॥

以敬重护粮;依次照料马匹;常常照看以护牛;远离褴褛之衣以护妇女。

5.34.42

न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः ।
अन्तेष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ ५.३४.४२ ॥

我的看法是:缺乏德行之人,家世不足为凭;即便出身卑微之人,唯有德行使其出众。

5.34.43

य ईर्षुः परवित्तेषु रूपे वीर्ये कुलान्वये ।
सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥ ५.३४.४३ ॥

嫉妒他人的财富、容貌、勇力、高贵的家世、幸福、好运与荣誉的人,他的疾病是无穷无尽的。

5.34.44

अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् ।
अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ ५.३४.४४ ॥

畏惧做不该做的事、废弃本分、不合时宜、泄露机密的人,不应饮用使人迷醉的东西。

5.34.45

विद्यामदो धनमदस्तृतीयोऽभिजनो मदः ।
मदा एतेऽवलिप्तानामेत एव सतां दमाः ॥ ५.३४.४५ ॥

学问的狂妄、财富的狂妄,第三是门第的狂妄——这些是骄傲者的迷醉;而这些恰恰是善人的约束。

5.34.46

असन्तोऽभ्यर्थिताः सद्भिः क्वचित्कार्ये कदाचन ।
मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ॥ ५.३४.४६ ॥

不善之人,偶尔被善人为某事请托时,便自以为是善人——尽管他们并不善良,即使他们有名望。

5.34.47

गतिरात्मवतां सन्तः सन्त एव सतां गतिः ।
असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥ ५.३४.४७ ॥

自律者的归宿是善人;善人本身也是善人的归宿。善人也是不善者的归宿,但不善者不是善人的归宿。

5.34.48

जिता सभा वस्त्रवता मिष्टाशा गोमता जिता ।
अध्वा जितो यानवता सर्वं शीलवता जितम् ॥ ५.३४.४८ ॥

有衣服的人赢得了集会;渴望甜食者,有牛群者获胜;有车乘者赢得了道路;品行高尚者赢得一切。

5.34.49

शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति ।
न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥ ५.३४.४९ ॥

人之根本在于品行;若在此世失去品行,则生命、财富与亲族对他都已无益。

5.34.50

आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् ।
तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥ ५.३४.५० ॥

富人的饮食以肉为主,中等人家以乳制品为主,贫者以油为主,婆罗多之雄啊。

5.34.51

संपन्नतरमेवान्नं दरिद्रा भुञ्जते सदा ।
श्रुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ ५.३४.५१ ॥

贫者常吃最为可口的食物,而这种美味在富人中极为罕见。

5.34.52

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते ।
जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते ॥ ५.३४.५२ ॥

世间富人大多没有进食的能力;君王啊,连木柴在贫者身上都能消化。

5.34.53

अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् ।
उत्तमानां तु मर्त्यानामवमानात्परं भयम् ॥ ५.३४.५३ ॥

下等人所惧的是生计无着,中等人所惧的是死亡,而对于最高尚的人来说,耻辱带来的恐惧最为沉重。

5.34.54

ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः ।
ऐश्वर्यमदमत्तो हि नो पतित्वाऽवबुध्यते ॥ ५.३४.५४ ॥

权势之醉最为罪过,饮酒之醉等其他醉态亦然;被权势所醉的人,只有跌倒之后才会醒悟。

5.34.55

इन्द्रियौरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः ।
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ ५.३४.५५ ॥

这个世界被那些沉溺于感官对象、不加约束的感官所折磨,正如星宿被行星所困扰。

5.34.56

यो जितः पञ्चवर्गेण सहजेनात्मकर्षिणा ।
आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् ॥ ५.३४.५६ ॥

被那与生俱来、将人拉向自身的五组感官所征服者,灾祸便如月亮在白半月中渐增。

5.34.57

अविजित्य य आत्मानममात्यान्विजिगीषते ।
अमित्रान्वा जितामात्यः सोऽवशः परिहीयते ॥ ५.३४.५७ ॥

未能先克制自己而想要征服大臣或敌人的人,或其大臣已被征服者,便无所依靠而走向衰败。

5.34.58

आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत् ।
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ ५.३४.५८ ॥

人应先把自己视为敌人加以约束;然后征服大臣与敌人的愿望便不会落空。

5.34.59

वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु ।
परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते ॥ ५.३४.५९ ॥

吉祥完全依附于那感官受控、大臣已被制服、对作恶者执行刑罚、三思而后行、坚定沉着的人。

5.34.60

रथः शरीरं पुरुषस्य राज-
न्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः।
तैरप्रमत्तः कुशली सदश्वै-
र्दान्तैः सुखं याति रथीव धीरः ॥ ५.३४.६० ॥

大王啊,身体是人的战车,自我是它的御者,感官是它的马。智者警觉而熟练,驾驭着调伏良好的骏马,便如御车者般安稳前行。

5.34.61

एतान्यनिगृहीतानि व्यापादयितुमप्यलम् ।
अविधेया इवादान्ताः सरथं सारथिं हयम् ॥ ५.३४.६१ ॥

这些未被制约的感官完全有能力毁灭,犹如未驯服的马一同毁坏车、御者与马。

5.34.62

अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः ।
इन्द्रियैरजितैर्बालः सुदुःखं मन्यते सुखम् ॥ ५.३४.६२ ॥

愚人因未被征服的感官,把损害看作利益、把利益看作损害,并把极大的痛苦当作快乐。

5.34.63

धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः ।
श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते ॥ ५.३४.६३ ॥

舍弃法与利、随从感官之支配的人,很快就会失去吉祥、生命、财富和妻子。

5.34.64

अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः ।
इन्द्रियाणामनैश्वर्यादैश्वार्याद्भूश्यते हि सः ॥ ५.३४.६४ ॥

掌握财富却不能掌控感官的人,因不能驾驭感官而从其尊荣之位跌落。

5.34.65

आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः ।
आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५.३४.६५ ॥

应当以自我,约束心、智与感官,去寻求自我;因为唯有自我是自我的朋友,唯有自我是自我的敌人。

5.34.66

बन्धुरात्मात्मनस्तस्य येनैवात्मात्मना जितः ।
स एव नियतो बन्धुः स एव नियतो रिपुः ॥ ५.३४.६६ ॥

凡以自我战胜自我者,其自我便是他的朋友;受约束的自我是朋友,不受约束的自我是敌人。

5.34.67

क्षुद्राक्षेणेव जालेन झपावपिहितावुरू ।
कामश्च राजन्क्रोधश्च तौ प्रज्ञानं विलुम्पतः ॥ ५.३४.६७ ॥

大王啊,如同两条鱼落入小网,欲望与愤怒劫掠智慧。

5.34.68

समवेक्ष्येह धर्मार्थौ संभारान्योऽधिगच्छति ।
स वै संभृतसंभारः सततं सुखमेधते ॥ ५.३४.६८ ॥

若有人在此审慎权衡法与利,积聚所需资财,他便资财充足,并永远在快乐中兴盛。

5.34.69

यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मनोमयान् ।
जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् ॥ ५.३४.६९ ॥

若有人不先战胜由心而生的五种内敌,却想征服外敌,那么这些敌人反而会压倒他。

5.34.70

दृश्यन्ते हि महात्मानो बध्यमानाः स्वकर्मभिः ।
इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः ॥ ५.३४.७० ॥

可以看到伟大的君王被自己的行为所束缚;因不能驾驭诸根,他们陷入王权的迷妄之中。

5.34.71

असंत्यागात्पापकृतामपापां-
स्तुल्यो दण्डः स्पृशते मिश्रभावात्।
शुष्केणार्द्रं दह्यते मिश्रभावा-
त्तस्मात्पापैः सह सन्धिं न कुर्यात् ॥ ५.३४.७१ ॥

因不舍弃作恶者,无罪之人也遭受同样的惩罚;因混杂,湿的也会随干的一起烧毁。所以不应与恶人结盟。

5.34.72

निजानुत्पततः शत्रून्पश्च पञ्चप्रयोजनान् ।
यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् ॥ ५.३४.७२ ॥

人若看到内心升起的敌人与二十五种目的,却因迷惑而不加制止,灾祸便会吞噬他。

5.34.73

अनसूयार्जवं शौचं सन्तोषः प्रियवादिता ।
दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥ ५.३४.७३ ॥

无嫉妒、正直、清净、知足、言语和善、克制、诚实与从容,不见于恶人之中。

5.34.74

आत्मज्ञानमानायासस्तितिक्षा धर्मनित्यता ।
वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ॥ ५.३४.७४ ॥

自知、从容、忍耐、恒守法道、慎言与布施,不见于卑劣之人,婆罗多啊。

5.34.75

आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् ।
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ ५.३४.७५ ॥

愚人以辱骂和诽谤伤害智者;出言者承受罪过,而忍让者得解脱。

5.34.76

हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् ।
शुश्रूपा तु वलं स्त्रीणां क्षमा गुणवतां बलम् ॥ ५.३४.७६ ॥

暴力是恶人的力量;刑罚之法是王者的力量;侍奉是女子的力量;宽恕是有德者的力量。

5.34.77

वाक्संयमो हि नृपते सुदुष्करतमो मतः ।
अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम् ॥ ५.३४.७७ ॥

大王啊,言语的克制被认为最为困难;有意义而丰富多样的话,不可能说得太多。

5.34.78

अभ्यावहति कल्याणं विविधं वाक् सुभाषिता ।
सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥ ५.३४.७८ ॥

善言带来种种福祉;然而,大王啊,同样的话若说得不善,便会导致祸患。

5.34.79

रोहते सायकैर्विद्धं वनं परशुना हतम् ।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ ५.३४.७९ ॥

树林被箭射穿、被斧头砍倒,还能重新发芽;可是口中说出的恶毒粗暴的话所造成的言语伤口,永远不会愈合。

5.34.80

कर्णिनालीकनाराचान्निर्हरन्ति शरीरतः ।
वाक्छशल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥ ५.३४.८० ॥

带倒钩的箭和铁制箭镞可以从身体中拔出;可是留在心中的言语之刺,却无法拔出。

5.34.81

वाक्सायका वदनान्निष्पतन्ति ।
यैराहतः शोचति रात्र्यहानि।
परस्य नामर्मसु ते पतन्ति ।
तान्पण्डितो नावसृजेत्परेभ्यः ॥ ५.३४.८१ ॥

言语的箭从口中射出;被其所伤的人日夜悲伤。它们落在别人的要害之处;智者不会把它们射向他人。

5.34.82

यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् ।
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति ॥ ५.३४.८२ ॥

诸神要使某人遭受败亡时,便夺去他的智慧;于是他只能看到低劣的事物。

5.34.83

बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते ।
अनयो नयसङ्काशो हृदयान्नापसर्पति ॥ ५.३४.८३ ॥

智慧一旦昏暗、毁灭临近时,看似合乎政道的不义便不会离开心头。

5.34.84

सेयं बुद्धिः परीता ते पुत्राणां भरतर्षभ ।
पाण्डवानां विरोधेन न चैनानवबुध्यसे ॥ ५.३४.८४ ॥

婆罗多之雄啊,你的这份智慧已被你的儿子们笼罩;因为与般度五子结怨,你并不能认清他们。

5.34.85

राजा लक्षणसंपन्नस्त्रैलोक्यस्यापि यो भवेत् ।
शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ॥ ५.३४.८५ ॥

愿具备可统治三界之王相的般度子坚战,做你的弟子,哦持国王;愿他来教导你。

5.34.86

अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः ।
तेजसा प्रज्ञया चैव युक्तो धर्मर्थतत्त्ववित् ॥ ५.३४.८६ ॥

他比你所有的儿子更受命运的眷顾,具备光辉与智慧,通晓法与利之真谛。

5.34.87

अनुक्रोशादानृशंस्याद्योऽसौ धर्मभृतां वरः ।
गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति ॥ ५.३४.८७ ॥

出于慈悲与温和,他——法之守护者中最优秀者,哦诸王之王——因敬重你而忍受许多苦难。