Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.35

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.35.1

ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः ।
शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥ ५.३५.१ ॥

大智者啊,请再说一遍关于法与利的话吧。我虽然听着,却仍不满足,因为你在这里说的都是奇妙的事情。

5.35.2

सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् ।
उभे एते समे स्यातामार्जवं वा विशिष्यते ॥ ५.३५.२ ॥

在一切圣地沐浴,或对一切众生正直:这两者或许相等;然而正直被认为更为殊胜。

5.35.3

आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो ।
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ ५.३५.३ ॥

啊,强大者,请始终对你的儿子们保持正直。在此获得至高的名声,死后你将得到天界。

5.35.4

यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते ।
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ॥ ५.३५.४ ॥

只要一个人的善名在诸世界中被传颂,人中之虎啊,他便在天界受到尊崇。

5.35.5

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥ ५.३५.५ ॥

这里人们也引用这段古老的传说:为了羯希尼,毗卢遮那与苏坦婉之间的对话。

5.35.6

केशिन्युवाच ।
किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन ।
अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ॥ ५.३५.६ ॥

羯希尼说:毗卢遮那啊,婆罗门更殊胜,还是提提之子(阿修罗)更殊胜?那么,苏坦婉为何不登上床榻呢?

5.35.7

प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः ।
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥ ५.३५.७ ॥

我们是生主之后,最为优胜,啊,克希尼。这些世界属于我们;谁是诸神,谁是再生者?

5.35.8

केशिन्युवाच ।
इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन ।
सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ॥ ५.३५.८ ॥

克希尼说:毗卢遮那,就坐在这里;我们在集会处等候。苏陀婆明早将来;我要看见你们二人相会。

5.35.9

तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।
सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ ॥ ५.३५.९ ॥

毗卢遮那说:好女子,怯懦的人,我将照你所说的去做。明早你将看见我与苏陀婆相会。

5.35.10

सुधन्वोवाच ।
अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम् ।
एकत्वमुपसम्पन्नो न त्वासेयं त्वया सह ॥ ५.३५.१० ॥

苏陀婆说:胜喜之子,我触摸你的金座。虽已与你合一,我却不与你同坐。

5.35.11

अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम् ।
सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥ ५.३५.११ ॥

毗卢遮那说:拿来一块木板、一个吉祥草坐垫或一张席子。苏陀婆,你不配与我并坐在同等的座位上。

5.35.12

सुधन्वोवाच ।
पितापि ते समासीनमुपासीतैव मामधः ।
बालः सुखैधितो गेहे न त्वं किञ्चन बुध्यसे ॥ ५.३५.१२ ॥

苏陀婆说:即使你的父亲与我并坐,也会让我坐在下面。孩子,你在家中安逸长大,什么也不懂。

5.35.13

हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः ।
सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः ॥ ५.३५.१३ ॥

黄金、牛群与马匹——我们在阿修罗处的全部财富——啊,苏陀凡,让我们以此为赌注,提出一个知者所知的问题。

5.35.14

सुधन्वोवाच ।
हिरण्यं च गवाश्वं च तवैवास्तु विरोचन ।
प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ॥ ५.३५.१४ ॥

苏陀凡说:啊,毗卢遮那,黄金、牛群与马匹归你所有。但让我们以两人的性命为赌注,提出一个知者所知的问题。

5.35.15

आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते ।
न हि देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् ॥ ५.३५.१५ ॥

毗卢遮那:既以我们的性命为赌注,我们二人该去何处?我绝不会立于诸神之间,也绝不会立于人类之间。

5.35.16

सुधन्वोवाच ।
पितरं ते गमिष्यावः प्राणयोर्विपणे कृते ।
पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् ॥ ५.३५.१६ ॥

苏陀凡说:既然我们的性命已作赌注,就去见你的父亲吧。即便为了自己的儿子,钵罗诃罗陀也不会说谎。

5.35.17

इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह ।
आशीविषाविव क्रुद्धावेकमार्गमिहागतौ ॥ ५.३५.१७ ॥

这二人如今相见,却从未同行;如两条愤怒的毒蛇,他们来到了同一条路上。

5.35.18

किं वै सहैव चरतो न पुरा चरतः सह ।
विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना ॥ ५.३५.१८ ॥

钵罗诃罗陀:你们二人真的如今同行,还是从前并不同行?啊,毗卢遮那,我问你:你与苏陀凡有何交情?

5.35.19

न मे सुधन्वना सख्यं प्राणयोर्विपणावहे ।
प्रह्राद तत्त्वां पृच्छामि मा प्रश्नमनृतं वदीः ॥ ५.३५.१९ ॥

我与苏檀婆没有友谊;我们二人正以性命相赌。Prahrāda,我问你:不要对这个问题撒谎。

5.35.20

उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने ।
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरीकृता ॥ ५.३५.२० ॥

请为苏檀婆取来水与蜜酪供品。婆罗门啊,你值得敬重;也请牵来一头养肥的白牛。

5.35.21

सुधन्वोवाच ।
उदकं मधुपर्कं च पथ एवार्पितं मम ।
प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः ॥ ५.३५.२१ ॥

水与蜜酪供品已在路上献给我了。Prahrāda,请你为我们二人这发问者,如实作答。

5.35.22

पुत्रो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः ।
तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् ॥ ५.३५.२२ ॥

婆罗门啊,无论你是儿子还是他人,你都站在这里作证;像我们这样的人,怎能回答那两个争论者的问题呢?

5.35.23

अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् ।
एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत् ॥ ५.३५.२३ ॥

那么,既不说真话也不说假话的人——苏檀婆啊,我问:说谎者应当住在哪里?

5.35.24

सुधन्वोवाच ।
यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः ।
यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् ॥ ५.३५.२४ ॥

妇人忧愁的那一夜,在骰戏中落败者度过的那一夜,以及身体被重负烧灼的那一夜——说谎者应当在那一夜中居住。

5.35.25

नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः ।
अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत् ॥ ५.३५.२५ ॥

被围困在城中,门外饥饿,看见众多敌人——说谎者便应处于那样的境地。

5.35.26

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ५.३५.२६ ॥

因关于牲畜的谎言,他毁灭五人;因关于牛的谎言,十人;关于马的谎言,百人;关于人的谎言,千人。

5.35.27

हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥ ५.३५.२७ ॥

为了黄金而说谎者,毁灭已生与未生之人;因关于土地的谎言,毁灭一切——你不要说关于土地的谎言。

5.35.28

मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन ।
मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥ ५.३५.२८ ॥

毗卢遮那啊,胜过我的是安耆罗之子须陀那,也胜过你;他的母亲胜过他的母亲,因此你被他所胜。

5.35.29

विरोचन सुधन्वायं प्राणानामीश्वरस्तव ।
सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् ॥ ५.३५.२९ ॥

毗卢遮那啊,这位须陀那是你生命气息的主宰。须陀那啊,我再次希望得到被你所施予的毗卢遮那。

5.35.30

सुधन्वोवाच ।
यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः ।
पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् ॥ ५.३५.३० ॥

须陀那说:因为你选择了法,没有因欲望而说谎,所以,阿赫拉达啊,我把那位难得的儿子再还给你。

5.35.31

एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः ।
पादप्रक्षालनं कुर्यात्कुमार्याः संनिधौ मम ॥ ५.३५.३१ ॥

啊,钵罗诃罗陀,这是你的儿子毗卢遮那,我已把他交给你。让他在少女面前为我洗脚。

5.35.32

तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि ।
मा गमः ससुतामात्योऽत्ययं पुत्राननुभ्रमन् ॥ ५.३५.३२ ॥

因此,诸王之主啊,你不应为了土地而说谎。不要与你的儿子和大臣们一同走向毁灭,追随你的儿子们四处流浪。

5.35.33

न देवा यष्टिमादाय रक्षन्ति पशुपालवत् ।
यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम् ॥ ५.३५.३३ ॥

诸神不像牧人那样手持木棍守护;他们想要保护的人,便以智慧为他分配。

5.35.34

यथा यथा हि पुरुषः कल्याणे कुरुते मनः ।
तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः ॥ ५.३५.३४ ॥

人的心越是倾向于善,他的一切目的便越能成就;这是毫无疑问的。

5.35.35

न छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् ।
नीडं शकुन्ता इव जातपक्षा श्छन्दांस्येनं प्रजहत्यन्तकाले ॥ ५.३५.३५ ॥

欺诈以度日的骗子,吠陀不能将他从罪中救度;如同羽翼丰满的鸟离开巢穴,临终时吠陀也会舍弃他。

5.35.36

मत्तापानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम् ।
राजद्विष्टं स्त्रीपुमांसोर्विवादं वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः ॥ ५.३५.३६ ॥

饮酒、争吵、群体间的仇恨、夫妻之间的不和、亲族的分裂、对国王的憎恨、男女之间的争执,以及邪恶的道路——这些都被说成是应当避免的事物。

5.35.37

सामुद्रिकं वणिजं चोरपूर्वं शलाकधूर्तं च चिकित्सकं च ।
अरिं च मित्रं च कुशीलवं च नैतान्साक्ष्येष्वधिकुर्वीत सप्त ॥ ५.३५.३७ ॥

航海者、商人、曾为盗贼者、掷骰与筹码中的骗子、医生、敌人、朋友以及歌者或伶人——这七种人不应被采纳为证人。

5.35.38

मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ।
एतानि चत्वार्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि ॥ ५.३५.३८ ॥

出于傲慢而行的火祭、出于傲慢而守的沉默、出于傲慢而做的诵习以及出于傲慢而行的祭祀——这四者可怖;若不如法而行,便只会带来恐惧。

5.35.39

अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः ॥ ५.३५.३९ ॥

纵火者、投毒者、食“坤达”之食者、售卖苏摩者、挑拨离间者、搬弄是非者、背叛朋友者、与他人之妻通奸者。

5.35.40

भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः ।
अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः ॥ ५.३५.४० ॥

杀害胎儿者、与师妻私通者、饮酒的再生者、极其严酷者、如乌鸦般贪狡者、无神论者和诽谤吠陀者。

5.35.41

स्रुवप्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि ।
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महणैः समाः ॥ ५.३५.४१ ॥

执持祭勺者、脱离礼制的维拉提亚、吝啬或残酷的农夫(即便富有),以及被嘱托保护却加害者——他们都与杀害婆罗门者等同。

5.35.42

तृणोल्कया ज्ञायते जातरूपं युगे भद्रो व्यवहारेण साधुः ।
शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रास्वापत्सु सुहृदश्चारयश्च ॥ ५.३५.४२ ॥

黄金以草火检验;善人与贤者由其行为而知;英雄在危险与财困中可见;在大灾难中,可辨别坚定者、朋友与敌人。

5.35.43

जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया ।
क्रोधः श्रियं शीलमनार्यसेवा ह्रियं कामः सर्वमेवाभिमानः ॥ ५.३५.४३ ॥

衰老夺去容貌,希望夺去坚定,死亡夺去生命之气,嫉妒夺去法行。愤怒夺去吉祥,侍奉非雅士夺去良好品行,欲望夺去羞耻,骄慢夺去一切。

5.35.44

श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते ।
दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ॥ ५.३५.४४ ॥

吉祥生于吉庆,因勇毅而增长,因才干而扎根,因克制而稳固。

5.35.45

अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥ ५.३५.४५ ॥

八种德行照亮一个人:智慧、良好的出身与品行、克制、博学、勇武、少言、量力布施,以及感恩。

5.35.46

एतान्गुणांस्तात महानुभावा नेको गुणः संश्रयते प्रसह्य ।
राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेष गुणोऽतिभाति ॥ ५.३५.४६ ॥

亲爱的,伟大的人不会强行依附这些德行中的某一种。当君王尊重一个人时,这唯一的德行便超过他所有其他德行而光彩夺目。

5.35.47

अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि ।
चत्वार्येषामन्ववेतानि सद्भि श्चत्वार्येषामन्ववयन्ति सन्तः ॥ ५.३५.४७ ॥

君王啊,这八者是人间世界中天界的标志。其中四者被善人所接纳,四者被善人所遵循。

5.35.48

यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः ।
दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यन्ववयन्ति सन्तः ॥ ५.३५.४८ ॥

祭祀、布施、学习与苦行,这四者为善人所遵行;克己、真实、正直与仁慈,这四者为贤者所践行。

5.35.49

न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥ ५.३५.४९ ॥

无长者之处非为议会;不言法之人非为长者。无真实之处非为法;被欺诈所贯穿之真实非为真实。

5.35.50

सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् ।
शौर्यं च चित्रभाष्यं च दश संसर्गयोनयः ॥ ५.३५.५० ॥

真实、容貌、博学、学识、门第、品行、力量、财富、勇武与悦耳之言——这十者是结交的根源。

5.35.51

पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् ।
पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ॥ ५.३५.५१ ॥

作恶之人,名声恶劣,必得恶之果报;行善之人,名声善良,必得善之果报。

5.35.52

पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः ।
नष्टप्रज्ञः पापमेव नित्यमारभते नरः ॥ ५.३५.५२ ॥

恶行若反复为之,便会毁坏智慧;失去智慧之人,便时常开始作恶。

5.35.53

पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः ।
वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ॥ ५.३५.५३ ॥

功德若反复为之,便增长智慧;智慧增长之人,便时常开始行善。

5.35.54

असूयको दन्दशूको निष्ठुरो वैरकृन्नरः ।
स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन् ॥ ५.३५.५४ ॥

嫉妒、口出恶言、残忍且制造仇怨的人,作恶之后不久便会遭遇巨大的苦难。

5.35.55

अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा ।
अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते ॥ ५.३५.५५ ॥

无嫉妒、智慧成熟、时常行善的人,无须艰难便能获得幸福,并在各处光彩照人。

5.35.56

प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः ।
प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥ ५.३५.५६ ॥

从智者那里获得智慧的人便是学者。智者获得法与利之后,便能增益幸福。

5.35.57

दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत् ।
अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥ ५.३५.५७ ॥

能使人夜间安然居住的事,应在白天完成;能使人多年安然生活的事,应在八个月内完成。

5.35.58

पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् ।
यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥ ५.३५.५८ ॥

能使人年老时安然生活的事,应在年轻时完成;能使人死后安然的事,应终生去做。

5.35.59

जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम् ।
शूरं विगतसङ्ग्रामं गतपारं तपस्विनम् ॥ ५.३५.५९ ॥

人们称赞陈久的食物、过了青春的妻子、战事已毕的勇士,以及已渡到彼岸的苦行者。

5.35.60

धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते ।
असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ ५.३५.६० ॥

以非法所得之财掩盖的缺陷,仍然暴露在外;随后别的东西又破裂开来。

5.35.61

गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ ५.३५.६१ ॥

导师是自制者的教导者,国王是恶人的惩治者;而对于暗中作恶者,惩治者是毗婆娑之子阎摩。

5.35.62

ऋषीणां च नदीनां च कुलानां च महात्मनाम् ।
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ ५.३५.६२ ॥

圣仙、河流、大德者的族系,以及女人和恶行的根源,都是无法探知的。

5.35.63

द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी ।
क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् ॥ ५.३५.६३ ॥

乐于尊敬再生者、慷慨、对亲族正直的刹帝利,啊国王,将分享天界,并长久地守护大地。

5.35.64

सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ ५.३५.६४ ॥

三种人采摘这片有金色花朵的大地:勇士、有学问的人,以及懂得侍奉之道的人。

5.35.65

बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥ ५.३५.६५ ॥

婆罗多之子啊,有以智慧为最上的行为,以臂力为中等的行为,以腿力为最低、负担较轻的行为。

5.35.66

दुर्योधने च शकुनौ मूढे दुःशासने तथा ।
कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥ ५.३५.६६ ॥

把权力托付给难敌、愚昧的沙恭尼、难降以及迦尔纳,你怎能还期望繁荣?

5.35.67

सर्वैर्गुणैरुपेताश्च पाण्डवा भरतर्षभ ।
पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ॥ ५.३५.६७ ॥

婆罗多族的雄牛啊!具备一切美德的般度五子待你如父;你也应待他们如子。