Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.38

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.38.1

ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ ५.३८.१ ॥

长者到来时,年轻人的生命气息向上升起;起身致敬之后,它们便重新回到体内。

5.38.2

पीठं दत्त्वा साधवेऽभ्यागताय ।
आनीयापः परिनिर्णिज्य पादौ।
सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां ।
ततो दद्यादन्नमवेक्ष्य धीरः ॥ ५.३८.२ ॥

为到来的贤善客人奉上座位,取水为其彻底洗足;问候其安好,并告知自己的境况之后,智者应当审慎考虑,然后供给食物。

5.38.3

यस्योदकं मधुपर्कं च गां च ।
न मन्त्रवित्प्रतिगृह्णाति गेहे ।
लोभाद्भयादथ कार्पण्यतो वा ।
तस्यानर्थं जीवितमाहुरर्याः ॥ ५.३८.३ ॥

若在某人家中,通晓咒语者出于贪婪、恐惧或吝啬而不接受水、蜜供或牛,贤者说,此人的生命便已毁败。

5.38.4

चिकित्सकः शल्यकर्तावकीर्णी ।
स्तेनः क्रूरो मद्यपो भ्रूणहा च।
सेनाजीवी श्रुतिविक्रायकश्च ।
भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥ ५.३८.४ ॥

医生、外科医生、破戒者、盗贼、残忍之人、酗酒者、堕胎者、以兵为业者,以及贩卖吠陀者——即使是极为亲近的客人,他也不配得到水。

5.38.5

अविक्रेयं लवणं पक्वमन्नं ।
दधि क्षीरं मधु तैलं घृतं च।
तिला मांसं फलमूलानि शाकं ।
रक्तं वासः सर्वगन्धा गुडाश्च ॥ ५.३८.५ ॥

盐、熟食、凝乳、牛奶、蜂蜜、油与酥油、芝麻、肉、果实与根茎、蔬菜、红布、一切香料及糖蜜——这些都不可出售。

5.38.6

अरोषणो यः समलोष्ठाश्मकाञ्चनः ।
प्रहीणशोको गतसन्धिविग्रहः ।
निन्दाप्रशंसोपरतः प्रियाप्रिये ।
त्यजन्नुदासीनवदेष भिक्षुकः ॥ ५.३८.६ ॥

无怒、视土块、石头与黄金为一、忧愁已尽、超越和战、远离毁誉、舍弃可爱与不可爱如同漠然之人——此人即是乞士。

5.38.7

नीवारमूलेङ्गुदशाकवृत्तिः ।
सुसंयतात्माग्निकार्येषु चोद्यः।
वने वसन्नतिथिष्वप्रमत्तो ।
धुरन्धरः पुण्यकृदेष तापसः ॥ ५.३८.७ ॥

以野稻、根茎、因古第果与菜蔬为食,自制良好,勤于火祭,居于林中,对宾客谨慎不怠,担负重任,行善积德——此人即是苦行者。

5.38.8

अपकृत्य बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ ५.३८.८ ॥

伤害了智者之后,不应自以为“我远离他”而安心;因为智者的手臂很长,他用它们打击,被打者便受苦。

5.38.9

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ ५.३८.९ ॥

不可信任不可靠之人,即便可靠之人也不可过度信任;由信任所生之恐惧,连根都会割断。

5.38.10

अनीर्षुर्गुप्तदारश्च संविभागी प्रियंवदः ।
श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥ ५.३८.१० ॥

应无嫉妒,守护妻子,与人分享,言语悦人,温和而言辞甜美——但不可受女人所制。

5.38.11

पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः ।
स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ॥ ५.३८.११ ॥

女子值得尊敬,福分极大,纯洁神圣,是家庭的光明;人们称她们为家之吉祥,因此应当特别加以守护。

5.38.12

पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् ।
गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत्।
भृत्यैर्वाणिज्यचारं च पुत्रैः सेवेत च द्विजान् ॥ ५.३८.१२ ॥

应将内室托付给父亲,将厨房托付给母亲;将牛群交给与自己同样可靠的人;亲自经营农事;让仆人去经营贸易;让儿子们侍奉再生者(婆罗门)。

5.38.13

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ५.३८.१३ ॥

火生于水,刹帝利之力生于婆罗门(梵),铁生于石;它们无所不至的光辉,在各自的本源中归于平息。

5.38.14

नित्यं सन्तं कुले जाताः पावकोपमतेजसः ।
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ ५.३८.१४ ॥

那些生于高贵家族、始终善良、光辉如火、能忍耐且不事张扬的人,像木中之火一样潜藏着。

5.38.15

यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये ।
स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ॥ ५.३८.१५ ॥

其谋划为外人与近侍皆不知晓、且目光遍及四方的君王,能长久享有权势。

5.38.16

करिष्यन्न प्रभाषेत कृतान्येव तु दर्शयेत् ।
धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते ॥ ५.३८.१६ ॥

不应说出将要做的事,只展示已经完成的事;这样,关于法、欲、利之事的谋议便不会泄露。

5.38.17

गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः ।
अरण्ये निःशलाके वा तत्र मन्त्रोऽभिधीयते ॥ ५.३८.१७ ॥

登上山顶,或在宫殿中独处,或在无缝隙的密林中——在那里,谋议才可以说出。

5.38.18

नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम् ।
अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् ॥ ५.३८.१८ ॥

非朋友者,婆罗多之子啊,不配知晓至上的秘密谋略;无论他是无知者还是有学问的朋友,只要他缺乏自制。

5.38.19

नापरीक्ष्य महीपालः कुर्यात्सचिवमात्मनः ।
अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च ॥ ५.३८.१९ ॥

国王不应未经考察便为自己选定谋臣;因为非真正的大臣之人心中有贪求财利之念,而秘谋的守护也会因此不保。

5.38.20

कृतानि सर्वकार्याणि यस्य पारिषदा विदुः ।
धर्मे चार्थे च कामे च स राजा राजसत्तमः। ॥ ५.३८.२० ॥

若其朝臣知道他的一切事务——在法、利与欲上——都已成就,那他便是诸王中最优秀的国王。

5.38.21

गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ।
अप्रशस्तानि कार्याणि यो मोहादनुतिष्ठति। ॥ ५.३८.२१ ॥

对于谋略保密的君王,成功无疑;但若因迷惑而行不善之事者,则不能成功。

5.38.22

स तेषां विपरिभ्रंशाद्भ्रश्यते जीवितादपि ।
कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम्। ॥ ५.३८.२२ ॥

因完全舍弃它们,他甚至会从生命中堕落;而履行值得称赞的善行则带来快乐。

5.38.23

तेषामेवाननुष्ठानं पश्चात्तापकरं मतम् ।
अनधीत्य यथा वेदान्न विप्रः श्राद्धमर्हति । ॥ ५.३८.२३ ॥

不去履行这些善行,被认为会带来日后的悔恨,正如未学吠陀的婆罗门不适合举行祭祖仪式。

5.38.24

एवमश्रुतषाङ्गुण्यो न मन्त्रं श्रोतुमर्हति ।
स्थानवृद्धिक्षयज्ञस्य षाङ्गुण्यविदितात्मनः। ॥ ५.३८.२४ ॥

因此,未曾听闻六策者不配听取谋略;唯有知晓立足、增长与衰落,并通过六策了解自身者才配。

5.38.25

अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप ।
अमोघक्रोधहर्षस्य स्वयं कृत्वान्ववेक्षिणः। ॥ ५.३८.२५ ॥

对于品行不被轻视的人,王啊,大地受其自主掌控;对于怒与喜都不徒然、亲自行事并仔细审察的人。

5.38.26

आत्मप्रत्ययकोशस्य वसुदैव वसुन्धरा ।
नाममात्रेणा तुष्येत छत्रेण च महीपतिः। ॥ ५.३८.२६ ॥

以自信为宝库的人,大地赐予财富;君王仅凭名号与华盖便可满足。

5.38.27

भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ।
ब्राह्मणं ब्राह्मणो वेद भर्ता वेद स्त्रियं तथा। ॥ ५.३८.२७ ॥

应将财物分给仆从,不可独自攫取一切;如婆罗门知婆罗门,丈夫知妻子,亦复如是。

5.38.28

अमात्यं नृपतिर्वेद राजा राजानमेव च ।
न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः। ॥ ५.३८.२८ ॥

君王知晓其大臣,君王也知晓另一位君王;敌人既已受控,便不可释放,而当其已成可杀之人时,尤其如此。

5.38.29

न्यग्भूत्वा पर्युपासीत वध्वं हन्याद्बले सति ।
अहताद्धि भयं तस्माज्जायते नचिरादिव ॥ ५.३८.२९ ॥

应谦卑地侍奉敌人,待有力量时即予打击;未被打击的敌人会生出恐惧,而且不久便会生出。

5.38.30

दैवतेषु प्रयत्नेन राजसु ब्राह्मणेषु च ।
नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च ॥ ५.३८.३० ॥

对于神明、君王和婆罗门,以及对于老人、孩童和病人,都应当时常努力克制愤怒。

5.38.31

निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम् ।
कीर्ति च लभते लोके न चानर्थेन युज्यते ॥ ५.३८.३१ ॥

智者应避免愚人所为的无益争吵。他在世间获得名声,不会陷入灾祸。

5.38.32

प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः ।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ ५.३८.३२ ॥

其恩惠无效、愤怒也毫无意义的主人,人们不愿以之为主,正如女子不愿嫁给无能的丈夫。

5.38.33

न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये ।
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥ ५.३८.३३ ॥

智慧并非为了获取财富,愚钝也并非导致贫乏。世间事物变迁的始末,唯智者能知,他人不能。

5.38.34

विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत ।
धनाभिजातवृद्धांश्च नित्यं मूढोऽवमन्यते ॥ ५.३८.३४ ॥

婆罗多之子啊,愚人总是轻慢在学识、品行和年龄上年长者,在智慧上年长者,以及在财富和高贵出身上年长者。

5.38.35

अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् ।
अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ ५.३८.३५ ॥

行为卑劣、无智、好嫉妒、不行正法、口出恶言、易怒的人,灾祸会很快降临到他身上。

5.38.36

अविसंवादनं दानं समयस्याव्यतिक्रमः ।
आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् ॥ ५.३८.३६ ॥

不争执、布施、不违背约定,以及恰当运用的言辞——这些能使众生回转。

5.38.37

अविसंवादको दक्षः कृतज्ञो मतिमानृजुः ।
अपि संक्षीणकोशोऽपि लभते परिवारणम् ॥ ५.३८.३७ ॥

不争、能干、感恩、明智而正直之人,即使府库空竭,仍能获得随从的庇护。

5.38.38

धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा ।
मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः ॥ ५.३८.३८ ॥

坚定、平静、克制、清净、慈悲、言辞不粗暴、不背叛朋友——这七者是吉祥的薪柴。

5.38.39

असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः ।
तादृङ्वराधिपो लोके वर्जनीयो नराधिप ॥ ५.३८.३९ ॥

不分享、心术邪恶、忘恩负义、无耻之人——即使是这样一位统领群贤的君主,人主啊,在世间也应远离。

5.38.40

न च रात्रौ सुखं शेते ससर्प इव वेश्मनि ।
यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् ॥ ५.३८.४० ॥

自己有过错,却激怒身边一个无辜之人的人,夜里睡得并不安稳,如同与毒蛇同睡于一屋。

5.38.41

येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत ।
सदा प्रसादनं तेषां देवतानामिवाचरेत् ॥ ५.३८.४१ ॥

婆罗多的后裔啊,对于那些因之而使所得与所守的福祉受损的恶人,应当始终像安抚诸神一样安抚他们。

5.38.42

येऽर्थाः स्त्रीषु समायुक्ताः प्रमत्तपतितेषु च ।
ये चानार्ये समासक्ताः सर्वे ते संशयं गताः ॥ ५.३८.४२ ॥

投入于女人、放逸与堕落之人的财物,以及沉溺于不善之人的财物,皆陷入危险之中。

5.38.43

यत्र स्त्री यत्र कितवो बालो यत्रानुशासिता ।
मञ्जन्ति तेऽवशा राजन्नद्यामश्मप्लवा इव ॥ ५.३८.४३ ॥

女人当政之处,赌徒、孩童或无纪律之人主事之处,他们无助地沉没,大王,如同河中的石筏。

5.38.44

प्रयोजनेषु ये सक्ता न विशेषेषु भारत ।
तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ॥ ५.३८.४४ ॥

婆罗多之子啊,专注于有用之事而非琐碎细节的人,我认为他们才是智者,因为细节只会导致过度。

5.38.45

यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः ।
यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ॥ ५.३८.४५ ॥

赌徒所赞美的人,吟游歌者所赞美的人,妓女所赞美的人,这样的人不能长久存活。

5.38.46

हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः ।
आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ॥ ५.३८.४६ ॥

你抛弃了那些最勇猛的射手、力量无量的般度之子,将婆罗多族的伟大王权托付给了难敌。

5.38.47

तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वमचिरादिव ।
ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव ॥ ५.३८.४७ ॥

你很快就会看到他堕落毁灭,正如迷惑于权势醉意的钵利从三界坠落一样。