摩诃婆罗多 · 章 5.40
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.40.1
योऽभ्यर्चितः मद्भिरसञ्जमानः ।
करोत्यर्थं शक्तिमहापयित्वा।
क्षिप्रं यशस्तं समुपैति मन्त-
मलं प्रसन्ना हि सुखाय सन्तः ॥ ५.४०.१ ॥
受智者敬重、无所执着、不减损自身力量而行事的人,很快便能获得名声;因为心地平和的善人本身便足以带来幸福。
5.40.2
महान्तमप्यर्थमधर्मयुक्तं ।
यः मन्त्यजत्यनपाकृष्ट एव।
सुखं सुदुःखान्यवमुच्य शेते ।
जीर्णां त्वचं सर्प इवावमुच्य ॥ ५.४०.२ ॥
即使是与不义相连的巨大财富,若在被其拖拽之前便舍弃,他便能抛下重重苦难而安然入睡,如蛇蜕去旧皮。
5.40.3
अनृते च समुत्कर्पो राजगामि च पैशुनम् ।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ ५.४०.३ ॥
以谎言自傲、向国王进谗言,以及对师长固执说谎,这些都等同于杀害婆罗门。
5.40.4
असूयैकपदं मृत्युरतिवादः श्रियो वधः ।
अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रः ॥ ५.४०.४ ॥
嫉妒是通向死亡的一步;过多的言语是财富的毁灭;不愿侍奉、急躁和自我夸耀,是学问的敌人。
5.40.5
आलस्यं मदमोहौ च चापलं गोष्ठिरेव च ।
स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च ।
एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः ॥ ५.४०.५ ॥
懒惰、骄狂与迷惑、轻浮、聚集闲谈、呆板、傲慢自大,以及同样的不加分辨的施舍——这七种过失,向来被认为是求学者常有的。
5.40.6
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखं ।
सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम् ॥ ५.४०.६ ॥
求乐者何来学问?求学者无乐。求乐者当舍学问,或求学者当舍安乐。
5.40.7
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ ५.४०.७ ॥
火不因柴薪而满足,大海不因江河而满足;死亡不因众生而满足,男子也不因美目女子而满足。
5.40.8
आशा धृतिं हन्ति समृद्धिमन्तकः ।
क्रोधः श्रियं हन्ति यशः कदर्यता ।
अपालनं हन्ति पशूंश्च राज-
न्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ॥ ५.४०.८ ॥
希望毁坏坚定,死亡毁坏繁荣;愤怒毁坏福德,吝啬毁坏名誉。不加保护毁坏牲畜,大王;一位愤怒的婆罗门毁灭整个国家。
5.40.9
अजाश्च कांस्यं रजतं च नित्यं ।
मध्वाकर्षः शकुनिः श्रोत्रियश्च ।
वृद्धो ज्ञातिरवसन्नः कुलीन ।
एतानि ते सन्तु गृहे सदैव ॥ ५.४०.९ ॥
羊、铜器与银器常备;采蜜者、禽鸟、通晓吠陀的婆罗门、长者、困苦的亲族、名门之人——愿这些常在你的家中。
5.40.10
अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी ।
विषमौदुम्बरं शङ्खः स्वर्णनाभोऽथ रोचना ॥ ५.४०.१० ॥
山羊与公牛、檀香、琵琶、镜子、蜂蜜与酥油、不规则的优敦婆罗木、海螺、金脐者,以及罗遮那(黄色颜料)。
5.40.11
गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् ।
देवब्राह्मणपूजार्थमतिथीनां च भारत ॥ ५.४०.११ ॥
摩奴说,吉祥之物应存于家中,用于供奉神明与婆罗门,以及招待宾客,婆罗多之后。
5.40.12
इदं च त्वां सर्वपरं ब्रवीमि ।
पुण्यं पदं तात महाविशिष्टम्।
न जातु कामान्न भयान्न लोभा-
द्धर्मं जह्याज्जीविस्यापि हेतोः ॥ ५.४०.१२ ॥
我把这最高之言告诉你:亲爱的孩子,这是功德的伟大而殊胜之境:人不应因欲望、恐惧或贪婪,即使为了生命,而舍弃法。
5.40.13
नित्यो धर्मः सुखदुःखे त्वनित्ये ।
जीवो नित्यो धातुरस्य त्वनित्यः।
त्यक्त्वाऽनित्यं प्रतितिष्ठस्व नित्ये ।
संतुष्य सन्तोषपरा हि सन्तः ॥ ५.४०.१३ ॥
法是永恒的,苦乐是无常的。命我是永恒的,而这身体的诸大种是无常的。舍弃无常,安立于永恒之中;以知足为本的善人,才真正满足。
5.40.14
महाबलान्पश्य महानुभावान् ।
प्रशास्य भूमिं धनधान्यपूर्णाम्।
राज्यानि हित्वा विपुलांश्च भोगान् ।
गतान्नरेन्द्रान्वशमन्तकस्य ॥ ५.४०.१४ ॥
看那些统治着富饶丰收之大地的伟大而威严的君王。舍弃了广阔的王国和丰厚的享受,他们已落入终结者——死亡的掌控之中。
5.40.15
मृतं पुत्रं दुःखपुष्टं मनुष्या ।
उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति।
तं मुक्तकेशाः करुणं रुदन्ति ।
चितामध्ये काष्ठमिव क्षिपन्ति ॥ ५.४०.१५ ॥
大王啊,人们抬起那在悲苦中养大的死去的儿子,把他从家中抬出。披散着头发,悲悯地痛哭,他们将他像木柴一样投入柴堆之中。
5.40.16
अन्यो धनं प्रेतगतस्य भुङ्क्ते ।
वयांसि चाग्निश्च शरीरधातून्।
द्वाभ्यामयं सह गच्छत्यमुत्र ।
पुण्येन पापेन च वेष्ट्यमानः ॥ ५.४०.१६ ॥
已入亡者之境者的财富,由他人享用。飞禽与火取走他身体的诸元素。被功德与罪业所缚的此人,与这二者一同前往彼世。
5.40.17
उसृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः ।
अपुष्पानफलान्वृक्षान्यथा तात पतत्रिणः ॥ ५.४०.१७ ॥
亲属、朋友与儿子抛下他而返回,亲爱的,就像飞鸟离开没有花果的树木。
5.40.18
अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम् ।
तस्मात्तु पुरुषो यत्नाद्धर्मं सञ्चिनुयाच्छनैः ॥ ५.४०.१८ ॥
人被投入火中时,唯有他自己所作之业随他而去。因此人应当努力,逐渐积累法。
5.40.19
अस्माल्लोकादूर्ध्वममुष्य चाधो ।
महत्तमस्तिष्ठति ह्यन्धकारम्।
तद्वै महामोहनमिन्द्रियाणां ।
बुद्ध्यस्व मा त्वां प्रलभेत राजन् ॥ ५.४०.१९ ॥
在此世之上、彼世之下,有大黑暗存在,它极其迷惑诸根。大王啊,要明白,莫让它欺骗你。
5.40.20
इदं वचः शक्ष्यसि चेद्यथाव-
न्निशम्य सर्वं प्रतिपत्तुमेव।
यशः परं प्राप्स्यसि जीवलोके ।
भयं नचामुत्र नचेह तेऽस्ति ॥ ५.४०.२० ॥
若你能如实聆听此言并全然领会,你将在生者的世界获得至高的名声;无论今生或来世,你都不会有恐惧。
5.40.21
आत्मा नदी भारत पुण्यतीर्था ।
सत्योदया धृतिकूला दयोर्मिः।
तस्यां स्नातः पूयते पुण्यकर्मा ।
पुण्यो ह्यात्मा नित्यमलोभ एव ॥ ५.४०.२१ ॥
婆罗多啊,自我是一条有圣渡口的河流;真理是它的源头,坚忍是它的河岸,慈悲是它的波浪。在其中沐浴的行善之人得到净化,因为自我永远纯净,无贪欲。
5.40.22
कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् ।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥ ५.४०.२२ ॥
以坚忍造成一条船,渡过充满欲望与愤怒鳄鱼、以五根之水为水的河流;越过生的堡垒。
5.40.23
प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं ।
विद्यावृद्धं वयसा चापि वृद्धम् ।
कार्याकार्ये पूजयित्वा प्रसाद्य ।
यः संपृच्छेन्न स मुह्येत्कदाचित् ॥ ५.४०.२३ ॥
凡尊敬并取悦在智慧、法、学问和年岁上年长的亲属,并向他们咨询应做与不应做之事的人,永不迷惑。
5.40.24
धृत्या शिश्रोदरं रक्षेत्पाणिपादं च चक्षुषा ।
चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा ॥ ५.४०.२४ ॥
以坚忍守护生殖器与腹部;以眼守护手足;以心守护眼耳;以行动守护心与言语。
5.40.25
नित्योदकी नित्ययज्ञोपवीती ।
नित्यस्वाध्यायी पतितान्नवर्जी ।
सत्यं ब्रुवन्गुरवे कर्म कुर्व-
न्न ब्राह्मणश्र्यवते ब्रह्मलोकात् ॥ ५.४०.२५ ॥
每日行水祭、常戴圣线、每日诵习吠陀、远离堕落者之食、说真话并为师长尽职的婆罗门,不会从梵天界堕落。
5.40.26
अधीत्य वेदान्परिसंस्तीर्य चाग्नी-
निष्ट्वा यज्ञैः पालयित्वा प्रजाश्च।
गोब्रह्मणार्थं शस्त्रपूतान्तरात्मा ।
हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति ॥ ५.४०.२६ ॥
学习吠陀,在火焰周围铺设圣草,以祭祀供奉,保护臣民,为牛和婆罗门而在战斗中被武器净化内心的刹帝利,在战死后升入天界。
5.40.27
वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च ।
धनैः काले संविभज्याश्रितांश्च।
त्रेतापूतं धूममाघ्राय पुण्यं ।
प्रेत्य स्वर्गे दिव्यसुखानि भुङ्क्ते ॥ ५.४०.२७ ॥
吠舍学习于婆罗门和刹帝利,适时将财物分给依附者,吸入由三火净化的功德之烟,死后在天界享受神圣的快乐。
5.40.28
ब्रह्म क्षत्रं वैश्यवर्णं च शूद्रः ।
क्रमेणैतान्न्यायतः पूजयानः।
तुष्टेष्वेतेष्वव्यथो दग्धपाप-
स्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ॥ ५.४०.२८ ॥
首陀罗按次序如法敬奉婆罗门、刹帝利和吠舍,待他们满意,便无忧无虑,罪孽焚尽,舍弃身体后享受天界之乐。
5.40.29
चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो ।
हेतुं चानुब्रुवतो मे निबोध।
क्षात्राद्धर्माद्धीयते पाण्डुपुत्र-
स्तं त्वं राजन्राजधर्मे नियुङ्क्ष ॥ ५.४०.२९ ॥
你已经宣述了四种姓的这种法;现在听我所说的原因。般度之子正在偏离刹帝利之法;哦,国王,请让他担当王者之法。
5.40.30
एवमेतद्यथा त्वं मामनुशासनि नित्यदा ।
ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् ॥ ५.४०.३० ॥
持国说:正如你一直教导我的那样,事情就是这样。温和的人啊,我自己的心意也正如你对我所说的那样。
5.40.31
सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा ।
दुर्योधनं समासाद्य पुनर्विपरिवर्तते ॥ ५.४०.३१ ॥
持国说:我对般度之子所持的那种心意虽然一直如此,但一旦到了难敌那里,它又会转变。
5.40.32
न दिष्टमभ्यतिक्रान्तुं शक्यं भूतेन केनचित् ।
दिष्टमेव ध्रुवं मन्ये पौरुषं तु निरर्थकम् ॥ ५.४०.३२ ॥
持国说:任何生灵都无法超越命定之事。我确信唯有天命是必然的,人的努力实在是徒劳。