Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.44

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.44.1

सनत्सुजात यामिमां परां त्वं ।
ब्राह्मीं वाचं वदसे विश्वरूपाम्।
परां हि कामेन सुदुर्लभां कथां ।
प्रब्रूहि मे वाक्यमिदं कुमार । ॥ ५.४४.१ ॥

萨纳特苏迦塔啊,你所说的这殊胜、梵的、千变万化的言语,连以愿望也极难获得的那段至高论述,少年王子啊,请为我讲解这些话语。

5.44.2

नैतद्ब्रह्म त्वरमाणेन लभ्यं ।
यन्मां पृच्छन्नतिहृष्यस्यतीव।
बुद्धौ विलीने मनसि प्रचिन्त्य ।
विद्या हि सा ब्रह्मचर्येण लभ्या ॥ ५.४४.२ ॥

这梵不是急躁者所能获得的;你向我询问而极为欢喜。待智慧融入心中,并深思之后,那知识才能通过梵行而获得。

5.44.3

अत्यन्तविद्यामिति यत्सनातनीं ।
ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम्।
अनारभ्यां वसतीह कार्यकाले ।
कथं ब्राह्मण्यममृतत्वं लभेत ॥ ५.४४.३ ॥

你所说的这永恒、至高的知识,凭梵行而成就,然而在行事之时,它在此处却未曾开始。那么,婆罗门性与不死又如何能够获得呢?

5.44.4

अव्यक्तविद्यामभिधास्ये पराणीं ।
बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम्।
यां प्राप्यैनं मर्त्यलोकं त्यजन्ति ।
या वै विद्या गुरुवृद्धेषु नित्या ॥ ५.४४.४ ॥

我将讲述那不可显现的至高知识,它凭智慧和他们的梵行而成就;得到它的人便离开这凡俗世界。这知识在师长和长者之中永恒存在。

5.44.5

ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्चसा ।
तत्कथं ब्रह्मचर्यं स्यादेतद्ब्रह्मन्ब्रवीहि मे ॥ ५.४४.५ ॥

通过梵行可以轻易获得的那种知识,如何就是梵行?婆罗门啊,请告诉我。

5.44.6

आचार्ययोनिमिह ये प्रविश्य ।
भूत्वा गर्भे ब्रह्मचर्यं चरन्ति।
इहैव ते शास्त्रकारा भवन्ति ।
प्रहाय देहं परमं यान्ति योगम् ॥ ५.४४.६ ॥

那些在此进入老师的胎中,如同在母胎中一样修持梵行的人,便在此地成为论书的作者;舍弃身体后,他们抵达最高的瑜伽。

5.44.7

अस्मिँल्लोके वै जयन्तीह कामा-
न्ब्राह्मीं स्थितिं ह्यनुतितिक्षमाणाः।
त आत्मानं निर्हरन्तीह देहा-
न्मुञ्जादिषीकामिव सत्वसंस्थाः ॥ ५.४४.७ ॥

在此世间,他们战胜欲望,耐心忍受梵的境界;安住于善性之中,他们在此将自我从身体中抽离,如同抽出一根茅草的茎。

5.44.8

शरीरमेतौ कुरुतः पिता माता च भारत ।
आचार्यशास्ता या जातिः सा पुण्या साऽऽजराऽमम ॥ ५.४४.८ ॥

婆罗多啊,父亲与母亲造就这两个身体;由老师和导师所赐的生,是神圣的、不老的、不变的。

5.44.9

यः प्रावृणोत्यवितथेन वर्णा-
नृतं कुर्वन्नमृतं संप्रयच्छम्।
तं मन्येत पितरं मातरं च ।
तस्मै न द्रुह्येत्कतमस्य जानन् ॥ ५.४४.९ ॥

真正庇护诸种姓、以真实行事并赐予甘露之人,应当被视为父亲与母亲;明知此理,不可对他有任何背叛与伤害。

5.44.10

गुरुं शिष्यो नित्यमभिवादयीत ।
स्वाध्यायमिच्छेच्छुचिरप्रमत्तः।
मानं न कुर्यान्नादधीत रोप-
मेप प्रथमो ब्रह्मचर्यस्य पादः ॥ ५.४४.१० ॥

弟子应当时常恭敬地向老师行礼。保持清净与警觉,应渴望研习吠陀。不可傲慢,不可怀藏愤怒。这是梵行的第一支分。

5.44.11

शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यः शुचिः ।
ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते ॥ ५.४४.११ ॥

清净之人依弟子之行的次第而获得知识,此即称为梵行誓愿的第一支分。

5.44.12

आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि ।
कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ॥ ५.४४.१२ ॥

应以性命与财富,为老师做其所喜之事。以行为、心念与言语去做,此即称为第二支分。

5.44.13

समा गुरौ यथा वृत्तिर्गरुपत्न्यां तथा चरेत् ।
तत्पुत्रे च तथा कुर्वन्द्वितीयः पाद उच्यते ॥ ५.४४.१३ ॥

对待老师的行为,也应同样对待师母;对其子亦如此行,此即称为第二支分。

5.44.14

आचार्येणात्मकृतं विजानन् ।
ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन ।
यन्मन्यते तं प्रति हृष्टबुद्धिः ।
स वै तृतीयो ब्रह्मचर्यस्य पादः ॥ ५.४४.१४ ॥

知晓老师所施之恩,明白其意,想到“因此我得以受教化”,以欢喜之心念念不忘于他,这正是梵行的第三支分。

5.44.15

नाचार्यस्यानपाकृत्य प्रवासं ।
प्राज्ञः कुर्वीत नैतदहं करोमि।
इतीव मन्येत न भाषयेत ।
स वै चतुर्थो ब्रह्मचर्यस्य पादः ॥ ५.४४.१५ ॥

不背离老师而远居他乡,智者不应如此;即使心想“我不这样做”,也不应说出口。这正是梵行的第四分。

5.44.16

कालेन पादं लभते तथार्थं ।
ततश्च पादं गुरुयोगतश्च।
उत्साहयोगेन च पादमृच्छे-
च्छास्त्रेण पादं च ततोऽभियाति ॥ ५.४४.१६ ॥

时日一久,他获得一分,财富亦然;随后借亲近老师得一分,借勤勉得一分,借经典得一分;此后他便前行。

5.44.17

धर्मादयो द्वादश यस्य रूप-
मन्यानि चाङ्गानि तथा बलं च।
आचार्ययोगे फलतीति चाहु-
र्ब्रह्मार्थयोगेन च ब्रह्मचर्यम् ॥ ५.४४.१७ ॥

以法等十二者为其形,其余肢体与力量亦然;人们说它借亲近老师而结果,梵行则借梵之目的而成就。

5.44.18

एवं प्रवृत्तो यदुपालभेत वै ।
धनमाचार्याय तदनुप्रयच्छेत्।
स तां वृत्तिं बहुगुणामेवमेति ।
गुरोः पुत्रे भवति च वृत्तिरेषा ॥ ५.४४.१८ ॥

若他如此投入,却责备老师,便应将那财物献给老师本人。如此他便获得这众德之行;对老师之子亦当如此行。

5.44.19

एवं वसन्सर्वतो वर्धतीह ।
बहून्पुत्रांल्लभते च प्रतिष्ठाम्।
वर्षन्ति चास्मै प्रदिशो दिशश्च ।
वसत्यस्मिन्ब्रह्मचर्ये जनाश्च ॥ ५.४४.१९ ॥

如此居住,他在此处各方面都得增长,获得众多子嗣与稳固的地位。四方与四隅为他降下甘雨;人们也在此梵行之中安居。

5.44.20

एतेन ब्रह्मंचर्येण देवा देवत्वमाप्नुवन् ।
ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ॥ ५.४४.२० ॥

凭借此梵行,诸神得以成为神性,大有福德的仙人与智者也抵达了梵天之界。

5.44.21

गन्धर्वाणामनेनैव रूपमप्सरसमभूत् ।
एतेन ब्रह्मचर्येण सूर्योऽप्यह्नाय जायते ॥ ५.४४.२१ ॥

凭借此道,乾闼婆获得了阿普萨拉斯的形貌;也凭此梵行,太阳为白昼而生。

5.44.22

आकाङ्क्ष्यार्थस्य संयोगाद्रसभेदार्थिनामिव ।
एवं ह्येते समाज्ञाय तादृग्भावं गता इमे ॥ ५.४४.२२ ॥

如同追求不同滋味者以与所求相合而得满足,这些人透彻领悟此道,便达到了那样的境界。

5.44.23

य आश्रयेत्पावयेच्चापि राज-
न्सर्वं शरीरं तपसा तप्यमानः।
एतेन वै बाल्यमभ्येति विद्वान् ।
मृत्युं तथा स जयत्यन्तकाले ॥ ५.४४.२३ ॥

大王啊,凡依止此道、以苦行炽烧而净化全身的智者,便借此重返童年;临终之时,他也同样战胜死亡。

5.44.24

अन्तवतः क्षत्रिय ते जयन्ति ।
लोकाञ्जनाः कर्मणा निर्मलेन ।
ब्रह्मैव विद्वांस्तेन चाभ्येति सर्वं ।
नान्यः पन्था अयनाथ विद्यते ॥ ५.४४.२४ ॥

刹帝利啊,世人征服的是朽灭之界;以清净之行,智者唯证梵,并借此而得一切;前行之路别无他途。

5.44.25

आभाति शुक्लमिव लोहितमि-
वाथो कृष्णमथाञ्जनं काद्रवं वा।
सद्ब्रह्मणः पश्यति योऽत्र विद्वा-
न्कथं रूपं तदमृतमक्षरं पदम् ॥ ५.४४.२५ ॥

此处见真实梵者,如何知晓那不死不灭之境的形相——它似白、似红、似黑如眼膏,或似赭色?

5.44.26

आभाति शुक्लमिव लोहितमि-
वाथो कृष्णमायसमर्कवर्णम्।
न पृथिव्यां तिष्ठति नान्तरिक्षे ।
नैतत्समुद्रे सलिलं बिभर्ति ॥ ५.४४.२६ ॥

它看起来像白色,像红色,或黑色、铁色、太阳色;它不立于大地,也不立于虚空;也不承载海洋之水。

5.44.27

न तारकासु न च विद्युदाश्रितं ।
न चाभ्रेषु दृश्यते रूपमस्य।
न चापि वायौ न च देवतासु ।
नैतच्चन्द्रे दृश्यते नोत सूर्ये ॥ ५.४४.२७ ॥

它不在星辰中,也不依附于闪电;在云中也看不到它的形相;不在风中,也不在诸神中;它不见于月亮,也不见于太阳。

5.44.28

नैवर्क्षु तन्न यजुष्षु नाप्यथर्वसु ।
न दृश्यते वै विमलेषु सामसु।
रथन्तरे बार्हद्रथे वापि राज-
न्महाव्रते नैव दृश्येद्भ्रुवं तत् ॥ ५.४४.२८ ॥

在梨俱诗中见不到它,在夜柔诗中也见不到,甚至在阿闼婆中也见不到;在清净的娑摩诗中实在也见不到。大王啊,即使在罗陀坦罗、巴尔哈德罗陀或大誓中,也必定见不到它。

5.44.29

अपारणीयं तमसः परस्ता-
त्तदन्तकोऽप्येति विनाशकाले।
अणीयो रूपं क्षुरधारया समं ।
महच्च रूपं तद्वै पर्वतेभ्यः ॥ ५.४४.२९ ॥

它在黑暗的彼岸,难以穿越;在毁灭之时,连死神也会走近它。它的形相比最细微者更细微,如同刀刃;而那形相又比山岳更大。

5.44.30

सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः ।
भूतानि जझिरे तस्मात्प्रलयं यान्ति तत्र हि ॥ ५.४४.३० ॥

那是根基,那是不死者,那些是诸世界;那是梵,那是荣耀。众生由它而生,在劫灭时又回归于它。

5.44.31

अनामयं तन्महदुद्यतं यशो ।
वाचो विकारं कवयो वदन्ति।
यस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ।
ये तद्विदुरमृतास्ते भवन्ति ॥ ५.४४.३१ ॥

那是无瑕、伟大而崇高的荣耀,智者称之为言语的变化。知晓这整个世界所依托之物的人,便成为不死者。

5.44.32

तदेतदह्ना संस्थितं भाति सर्वं ।
तदात्मवित्पश्यति ज्ञानयोगात्।
तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ।
ये तद्विदुरमृतास्ते भवन्ति ॥ ५.४४.३२ ॥

那在白昼之光中确立的,照耀为一切。知晓自我者通过知识瑜伽见到它。知晓这整个世界所依托之物的人,便成为不死者。