Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.45

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.45.1

शोकः क्रोधश्च लोभश्च कामो मानः परासुता ।
ईर्ष्या मोहो विवित्सा च कृपाऽसूया जुगुप्सुता ॥ ५.४५.१ ॥

悲伤、愤怒、贪婪、欲望、傲慢、对他人生命的恶意、嫉妒、迷惑、好奇的渴求、怜悯、挑剔与厌恶。

5.45.2

द्वादशैते महादोषा मनुष्यप्राणनाशनाः ।
एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते।
यौराविष्टो नरः पापं मूढसंज्ञो व्यवस्यति ॥ ५.४५.२ ॥

这十二种大过会毁灭人的生命之气。王中之王啊,它们一个一个地缠住人。被它们附身的人,心智迷乱,便决意作恶。

5.45.3

स्पृहयालुरुग्रः परुषो वा वदान्यः ।
क्रोधं बिभ्रन्मनसा वै विकत्थी।
नृशंसधर्माः षडिमे जना वै ।
प्राप्याप्यर्थं नोत सभाजयन्ते ॥ ५.४५.३ ॥

贪婪者、暴烈者、粗暴者,或慷慨者,心中怀恨者,以及自夸者——这六种人天性残忍。即使得到财富,他们也不尊重他人。

5.45.4

संभोगसंविद्विषमोऽतिमानी ।
दत्त्वा विकत्थी कृपणो दुर्बलश्च।
बहुप्रशंकसी वनिताद्विट् सदैव ।
सप्तैवोक्ताः पापशीला नृशंसाः ॥ ५.४५.४ ॥

在享受上不公正者、过分傲慢者、施舍之后仍自夸者、吝啬而软弱者、极度渴求赞美者,以及始终憎恨女人者——只有这七种人被说为行为邪恶、残忍。

5.45.5

धर्मश्च सत्यं च तपो दमश्च ।
अमात्सर्यं ह्रीस्तितिक्षानसूया।
दानं श्रुतं चैव धृतिः क्षमा च ।
महाव्रता द्वादश ब्राह्मणस्य ॥ ५.४५.५ ॥

法、真实、苦行、自制、无嫉妒、羞耻心、忍耐、不挑剔、布施、博学、坚定与宽恕——这就是婆罗门的十二大誓愿。

5.45.6

यो नैतेभ्यः प्रच्यवेद्द्वादशभ्यः ।
सर्वामपीमां पृथिवीं स शिष्यात्।
त्रिभिर्द्वाभ्यामेकतो वार्थितो यो ।
नास्य स्वमस्तीति च वेदितव्यम् ॥ ५.४५.६ ॥

若不背离这十二项,便能统治整个大地。被三人、二人或一人请求之人,应当知道他并无自己的财物。

5.45.7

दमस्त्यागोऽथाप्रमाद इत्येतेष्वमृतं स्थितम् ।
एतानि ब्रह्ममुख्यानां ब्राह्मणानां मनीषिणाम् ॥ ५.४५.७ ॥

克制、舍弃与不放逸——甘露安住于此。这些是梵中最杰出、有智慧的婆罗门所具的品质。

5.45.8

सद्वाऽसद्वा परीवादे ब्राह्मणस्य न शस्यते ।
नरकप्रतिष्ठास्ते स्युर्य एवं कुरुते जनाः ॥ ५.४५.८ ॥

无论真假,诽谤婆罗门的言语都不值得称赞。这样做的人将落入地狱。

5.45.9

मदोऽष्टादशदोषः स स्यात्पुरा योऽप्रकीर्तितः ।
लोकद्वेष्यं प्रतिकूल्यमभ्यसूया मृषावचः ॥ ५.४५.९ ॥

傲慢有十八种过失,此前未曾宣说:憎恶世间、逆反、嫉妒与虚妄之言。

5.45.10

कामक्रोधौ पारतन्त्र्यं परिवादोऽथ पैशुनम् ।
अर्थहानिर्विवादश्च मात्सर्यं प्राणिपीडनम् ॥ ५.४५.१० ॥

欲与怒、受制于人、诽谤与背后中伤、财物的损失与争讼、嫉妒,以及伤害众生。

5.45.11

ईर्ष्या मोदोऽतिवादश्च संज्ञानाशोऽभ्यसूयिता ।
तस्मात्प्राज्ञो न माद्येत सदा ह्येतद्विगर्हितम् ॥ ५.४५.११ ॥

嫉妒、狂喜、言语过度、丧失觉知与妒忌的诋毁。因此智者绝不可沉迷于傲慢,因为这永远应受谴责。

5.45.12

नभ्यर्थितश्चार्हति शुद्धभावः ॥ ५.४५.१२ ॥

即使被请求,心地纯净者也不应受施。

5.45.13

त्यक्तद्रव्यः संवसेन्नेह कामा-
द्भिङ्क्ते कर्मस्वाशिषं बाधते च ॥ ५.४५.१३ ॥

舍弃财物者不应因欲望而留居于此;贪求行为之果的人固然享受它,却也被它所束缚。

5.45.14

द्रव्यवान्गुणवानेवं त्यागी भवति सात्विकः ।
पञ्चभूतानि पञ्चभ्यो निवर्तयति तादृशः ॥ ५.४५.१४ ॥

如此,富有、有德且好施者成为悉多性之人;这样的人能使五大从五大本身中分离出来。

5.45.15

एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ।
सत्वात्प्रच्यवमानानां सङ्कल्पेन समाहितम् ॥ ५.४५.१५ ॥

此苦行即便丰盛兴旺,也只是如此而已;对于偏离悉多者,苦行只能依靠决心来凝聚。

5.45.16

यतो यज्ञः प्रवर्धन्ते मत्यस्यैवावरोधनात् ।
मनसान्यस्य भवति वाच्यन्यस्याथ कर्मणा ॥ ५.४५.१६ ॥

祭祀正是因凡人的克制而增长;然而心中是一回事,口中说的是另一回事,行动上做的又是另一回事。

5.45.17

सङ्कल्पसिद्धं पुरुषमसङ्कल्पोऽधितिष्ठति ।
ब्राह्मणस्य विशेषेण किञ्चान्यदपि मे श्रृणु ॥ ५.४५.१७ ॥

无欲之心主宰那凭借意图成就的人,尤其是婆罗门。请再听我说另一件事。

5.45.18

अध्यापयेन्महदेतद्यशस्यं ।
वाचो विकराः कवयो वदन्ति।
अस्मिन्योगे सर्वमिदं प्रतिष्ठितं ।
ये तद्विदुरमृतास्ते भवन्ति ॥ ५.४५.१८ ॥

应当传授这种伟大而带来荣誉的教导。智者们谈论言语的种种形态。在此瑜伽中,这一切都得以确立。知晓此道者便成为不死者。

5.45.19

न कर्मणा सुकृतेनैव राजन् ।
सत्यं जयेज्जुहुयाद्वा यजेद्वा।
नैतेन वालोऽमृत्युमभ्येति राजन् ।
रतिं चासौ न लभत्यन्तकाले ॥ ५.४५.१९ ॥

王啊,并非仅凭行为或善业,也非凭借胜过真理、献供或祭祀,便能得到不死;王啊,人不能借此超越死亡,在临终之时也得不到喜乐。

5.45.20

तृष्णीमेक उपासीत चेष्टेत मनसापि न ।
तथा संस्तुतिनिन्दाभ्यां प्रीतिरोषौ विवर्जयेत् ॥ ५.४५.२० ॥

应独自沉默静坐,即使以心念也不去作为。同样,应舍弃因赞誉与诽谤而生的喜悦与愤怒。

5.45.21

अत्रैव तिष्ठन्क्षत्रिय ब्रह्माविशति पश्यति ।
वेदेषु चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते ॥ ५.४५.२१ ॥

刹帝利啊,安住于此,人便进入梵并见到它。博学者啊,依照吠陀的次第,我将此告诉你。