Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 5.59

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

5.59.1

ब्रूहि सञ्जय यच्छेषं वासुदेवादनन्तरम् ।
यजर्जुन उवाच त्वां परं कौतूहलं हि मे ॥ ५.५९.१ ॥

サンジャヤよ、ヴァースデーヴァの後にアルジュナが言った残りを語れ。それを聞きたくてたまらない。

5.59.2

वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनञ्जयः ।
उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः ॥ ५.५९.२ ॥

ヴァースデーヴァの言葉を聞いて、クンティーの息子、征服しがたいダナンジャヤは、ヴァースデーヴァが聞いている中、適切な時に語った。

5.59.3

पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय ।
द्रोणं कृपं च शल्यं च महाराजं च बाह्लिकम् ॥ ५.५९.३ ॥

祖父シャーンタヌの子ビーシュマ、ドリタラーシュトラ、サンジャヤよ、ドローナ、クリパ、シャリヤ、そして大王バーフリーカ。

5.59.4

द्रौणिं च सौमदत्तिं च शकुनिं चापि सौबलम् ।
दुश्शासनं शलं चैव पुरुमित्रं विविंशतिम् ॥ ५.५९.४ ॥

ドローナの子(アシュヴァッターマン)、ソーマダッタの子(ブーリシュラヴァス)、シャクニ、またスバラの子シャクニ、ドゥフシャーサナ、シャラ、プルミトラ、ヴィヴィンシャティ。

5.59.5

विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम् ।
विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि पौरवम् ॥ ५.५९.५ ॥

ヴィカルナ、チトラセーナ、王ジャヤトセーナ、アヴァンティーの二王子ヴィンダとアヌヴィンダ、そしてパウラヴァのドゥルムカも。

5.59.6

सैन्धवं दुस्सहं चैव भूरिश्रवसमेव च ।
भगदत्तं च राजानं जलसन्धं च पौरवम् ॥ ५.५९.६ ॥

シンドゥの王(ジャヤドラタ)、ドゥフサハ、ブーリシュラヴァスも、王バガダッタ、そしてパウラヴァのジャラサンダ。

5.59.7

ये चाप्यन्ये पार्थिवास्तत्र योद्धुं ।
समागताः कौरवाणां प्रियार्थम्।
मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते ।
समानीता धार्तराष्ट्रोण सूत ॥ ५.५९.७ ॥

御者よ、カウラヴァの喜びのためにそこで戦おうと集まった他の王たちも、ドリタラーシュトラの息子が連れてきた者たちは、パーンダヴァ兄弟の燃える火に死を求めている。

5.59.8

यथान्यायं कुशलं वन्दनं च ।
समागता मद्वचनेन वाच्याः ॥ ५.५९.८ ॥

正しい作法にしたがい、私の言葉として、集まった人々に安寧と挨拶を伝えるべきである。

5.59.9

सहामात्यं सञ्जय श्रावयेथाः ॥ ५.५९.९ ॥

サンジャヤよ、大臣たちとともに彼らに聞かせよ。

5.59.10

एवं परिष्वज्य धनञ्जयो मां ।
ततोऽर्थवद्धर्मवच्चापि वाक्यम्।
प्रोवाचेदं वासुदेवं समीक्ष्य ।
पार्थो धीमाँल्लोहितान्तायताक्षः ॥ ५.५९.१० ॥

このように私を抱擁した後、ダナンジャヤは意味と法にかなった言葉を述べた。ヴァースデーヴァを見て、賢明なプリタの子は、目尻の赤い長い目で、これを言った。

5.59.11

यथाश्रुतं ते वदतो महात्मनो ।
यदुप्रवीरस्य वचः समाहितम्।
तथैव वाच्यं भवतापि मद्वचः ।
समागतेषु क्षितिपेषु सर्वशः ॥ ५.५९.११ ॥

あなたが聞いたとおり、ヤドゥ族の英雄のうち最も優れた偉大な人の言葉が整えられていたように、あなたもまた私の言葉を、集まったすべての王たちに、あらゆる形で伝えなさい。

5.59.12

शराग्निधूमे रथनेमिनादिते ।
धनुस्स्त्रुवेणास्त्रबलापहारिणा ।
यथा न होमः क्रियते महामृधे ।
तथा समेत्य प्रयतध्वमादृताः ॥ ५.५९.१२ ॥

矢の火の煙の中、戦車の車輪の轟音が響き渡り、弓をスルヴァ(祭具)とし、武器が力を奪うその大戦では、供物が捧げられることがないように、あなたがたは敬意をもって集まり、努力せよ。

5.59.13

न चेत्प्रयच्छध्वममित्रघातिनो ।
युधिष्ठिरस्यार्धमभीप्सितं स्वकम्।
नयामि वः साश्वपदातिकुञ्जरा-
न्दिशं पितॄणामशिवां शितैः शरैः ॥ ५.५९.१३ ॥

敵を砕く者たちよ、もしお前たちがユディシュティラに、彼が望む、彼自身のものである王国の半分を与えないなら、馬と歩兵と象もろとも、鋭い矢でお前たちを祖霊の不吉な方角へ送ってやろう。

5.59.14

ततोऽहमामन्त्र्य चतुर्भुजं हरिं ।
धनञ्जयं चैव नमस्य सत्वरम्।
जवेन संप्राप्त इहामरद्युते ।
तवान्तिकं प्रापयितुं वचो महत् ॥ ५.५९.१४ ॥

そこで私は四臂のハリとダナンジャヤに別れを告げ、礼拝して、急ぎ出発しました。神々のような輝きを持つ方よ、この重大な言葉をあなたに伝えるために、私は急いでここへ参りました。