Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.61

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.61.1

पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः ।
आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत् ॥ ५.६१.१ ॥

般度之子的父亲听到这些话后,那极度不能容忍的持国之子升起了巨大的愤怒,于是再次这样说道。

5.61.2

अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान् ।
मन्यते तद्भयं व्येतु भवतो राजसत्तम ॥ ५.६१.२ ॥

"王中之最,愿你心中那份认为般度之子因是诸神的伙伴而不可战胜的恐惧消散。"

5.61.3

अकामद्वेषसंयोगाल्लोभद्रोहाच्च भारत ।
उपेक्षया च भावानां देवा देवत्वमाप्नुवन् ॥ ५.६१.३ ॥

婆罗多之后,诸神因欲望与憎恨的结合、因贪婪与背叛,以及因对诸种心念的漠视,而获得了神性。

5.61.4

इति द्वैपायेनो व्यासो नारदश्च महातपाः ।
जामदग्न्यश्च रामो नः कथामकथयत्पुरा ॥ ५.६१.४ ॥

如此,二岛生的毗耶娑、大苦行者那罗陀,以及阇摩达吉尼之子罗摩,往昔曾向我们讲述了此事。

5.61.5

नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन ।
कामात्क्रोधात्तथा लोभाद्द्वेषाच्च भरतर्षभ ॥ ५.६१.५ ॥

婆罗多的雄牛啊,诸神从不像凡人那样,因欲望、愤怒、贪婪或憎恨而行事。

5.61.6

यदा ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि ।
कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः ॥ ५.६१.६ ॥

若火神、风神、法神、因陀罗与双马神也受欲望所驱而行事,般度之子便会遭受苦难。

5.61.7

तस्मान्न भवता चिन्ता कार्यैषा स्यात्कथंचन ।
दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत ॥ ५.६१.७ ॥

因此你不应为此有任何忧虑;这些众生始终依赖神明与命运,婆罗多啊。

5.61.8

अथ चेत्कामसंयोगाद्द्वेषो लोभश्च लक्ष्यते ।
देवेषु दैवप्रामाण्यान्नैषां तद्विक्रमिष्यति ॥ ५.६१.८ ॥

然而,若因与欲望相结合而在他们身上看到憎恨与贪婪,那么因为诸神与天命的权威,这些不会在他们身上得逞。

5.61.9

मयाऽभिमन्त्रतः शश्वञ्जातवेदाः प्रशाम्यति ।
दिधक्षुः सकलाँल्लोकान्परिक्षिप्य समन्ततः ॥ ५.६१.९ ॥

经我咒语加持,这位欲从四面包围焚烧一切世界的迦陀吠陀(火),总会平息下来。

5.61.10

यद्वा परमकं तेजो येन युक्ता दिवौकसः ।
ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत ॥ ५.६१.१० ॥

或者说,诸神所具有的那至高光辉,在我身上也是无与伦比的;婆罗多啊,要知道它甚至超越诸神。

5.61.11

विदीर्यमाणां वसुधां गिरीणां शिखराणि च ।
लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात् ॥ ५.६१.११ ॥

国王啊,在世人注视之下,我将以咒语使裂开的大地与山峰重新安定。

5.61.12

चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च ।
विनाशाय समुत्पन्नमहं घोरं महास्वनम् ॥ ५.६१.१२ ॥

我为毁灭这有情与无情、动与不动的一切而生,我是可怖的,声音巨大。

5.61.13

अश्मवर्षं च वायुं च शमयामीह नित्यशः ।
जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया ॥ ५.६१.१३ ॥

我在此时时平息石雨与狂风,世人旁观,出于对众生的慈悲。

5.61.14

स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः ।
देवासुराणां भावानामहमेकः प्रवर्तिता ॥ ५.६१.१४ ॥

被我止住的战车与步兵,行于水上;神与阿修罗的诸般境况,唯我一人推动。

5.61.15

अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित् ।
तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये ॥ ५.६१.१५ ॥

我为某事率领阿克绍希尼大军前往诸国;凡我所欲之处,水便为我涌现。

5.61.16

भयानकानि विषये व्यालादीनि न सन्ति मे ।
मन्त्रगुप्तानि भूतानि न हिंसन्ति यंकराः ॥ ५.६१.१६ ॥

我的领地里没有可怖的毒蛇之类;受咒语守护的众生,那些作恶者,并不伤害我。

5.61.17

निकामवर्षी पर्जन्यो राजन्विषयवासिनाम् ।
धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे ॥ ५.६१.१७ ॥

大王啊,雨云为我领地的居民随意降雨;我的臣民全都极其守法,我这里也没有灾荒(ītis)。

5.61.18

अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा ।
धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम् ॥ ५.६१.१८ ॥

双马童、风与火、与风神众一同的杀弗栗多者因陀罗,乃至法本身,也都无力庇护憎恨我之人。

5.61.19

यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमञ्जसा ।
न स्म त्रयोदश समाः पार्था दुःखभवाप्नुयुः ॥ ५.६१.१९ ॥

若他们真能轻易地保护这些与我为敌之人,普利塔之子便不会受苦十三年。

5.61.20

नैव देवा न गन्धर्वा नासुरा न च राक्षसाः ।
शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते ॥ ५.६१.२० ॥

诸天、乾闼婆、阿修罗与罗刹,都无法保护我所憎恨之人;这是真话,我告诉你。

5.61.21

दयभिध्याम्यहं शश्वच्छुभं वा यदि वाऽशुभम् ।
नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः ॥ ५.६१.२१ ॥

无论善或恶,我总是思念它;这对朋友或敌人,从未有过失败。

5.61.22

भविष्यतीदमिति वा यद्ब्रवीमि परन्तप ।
नान्यथा भूतपूर्वं च सत्यवागिति मां विदुः ॥ ५.६१.२२ ॥

啊,敌人的征服者!我说“这将会发生”,以前从未有过不同的结果;因此人们知道我是诚实之言的人。

5.61.23

लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम् ।
आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप ॥ ५.६१.२३ ॥

这样的威望,世界为证,传扬于四方;国王啊,我说这些是为了安慰你,而不是自我夸耀。

5.61.24

न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन ।
असदाचरितं ह्येतद्यदात्मानं प्रशंसति ॥ ५.६१.२४ ॥

国王啊,我从来不是自夸之人;自我称赞的人,确实行为不当。

5.61.25

पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह ।
सात्यकिं वासुदेवं च श्रोतासि विजितान्मया ॥ ५.६१.२५ ॥

你将听闻,般度之子、摩蹉人、潘查拉人与喀刻耶人,以及萨提奇和婆苏提婆,都已被我战胜。

5.61.26

सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः ।
तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः ॥ ५.६१.२६ ॥

如同河流抵达大海便全然消逝,他们与其亲族在遇到我时也将彻底灭亡。

5.61.27

परा बुद्धिः परं तेजो वीर्यं च परमं मम ।
परा विद्या परो योगो मम तेभ्यो विशिष्यते ॥ ५.६१.२७ ॥

我的智慧至上,我的光辉至上,我的勇力最为高超;我的学识至上,我的修行至上——这些都胜过他们。

5.61.28

पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा ।
अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते ॥ ५.६१.२८ ॥

祖父、德罗纳、克里帕、沙利亚与沙罗——他们所知的一切兵器之术,都存在于我身中。

5.61.29

इत्युक्ते सञ्जयं भूयः पर्यपृच्छत भारत ।
ज्ञात्वा युयुत्सोः कार्याणि प्राप्तकालमरिन्दमः ॥ ५.६१.२९ ॥

如此说罢,婆罗多啊,制敌者又向桑闪耶发问,欲知好战者当于适时所行之事。